SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ प्रतिक ४ अध्याये ४ पाद २ आह्निकम् । २१३ त्यस्मिनित्याक्रन्दो देशः दुःखितानां रोदनस्थानम् । आकंन्दं धावति आक्रन्दिकः। पदोत्तरपदं गृह्णाति ॥ ३९ ॥ पूर्वपदं गृह्णाति पौर्वपदिकः । औत्तरपदिकः। पदान्तादिति तु नोक्तम् । बहुच्पूर्वान्मा भूत् । प्रतिकण्ठार्थललामं च ॥ ४०॥ एभ्यो गृह्णात्यर्थे ठक्स्यात् । कण्ठं कण्ठं प्रतीति यथार्थेऽव्ययीभावः । लक्षणेनाभिप्रती इति वा । यस्तु प्रतिगतः कण्ठमिति प्रादिसमासस्तस्येह न ग्रहणं व्याख्यानात् । प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः । आर्थिकः । लालामिकः । धर्म चरति ॥ ४१ ॥ धर्मशब्दादृक् स्याञ्चरत्यर्थे । चरतिरिहासेवायां न त्वनुष्ठानमात्रे । तेन दैववशाद्धर्मे प्रवृत्तोऽपि दुर्वृत्तो धार्मिक इति नो. च्यते । आसेवा हि स्वारसिकी प्रवृत्तिः । अधर्माचेति वक्तव्य. म् । आधर्मिकः । प्रतिपथमेति ठञ् च ॥ ४२ ॥ वीप्सायामाभिमुख्ये वाव्ययीभावः । ऋपूरित समा. सान्तः । प्रतिपथमेति प्रातिपथिकः । प्रातिपथिकी । समवायान्त्समवैति ॥ ४३ ॥ समृहवाचिभ्यो द्वितीयान्तेभ्यष्ठक् स्यात् समवैतीत्यर्थे । सा. मवायिकः । सामूहिकः । सांनिवेशिकः । इह समवपूर्वस्येणोऽर्थः प्रविश्येकदेशीभवनम् । तत्र गुणभूतं प्रवेशं प्रति प्रकृत्यर्थस्य
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy