SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ ४ अध्याय ४ पादे १ आह्निकम् । संस्कृतम् ॥ ३ ॥ योगविभाग उत्तरार्थः । दध्ना संस्कृतं दाधिकम् । मा रिचिकम् । २०५ कुलत्थकोपधादण् ॥ ४ ॥ ठकोऽपवादः । कुलत्थैः संस्कृतं कौलत्थम् । तैत्तिडीकम् । तरति ॥ ५ ॥ उपेन तरति औडुपिकः । गोपुच्छाट्ठञ् ॥ ६ ॥ गौपुच्छिकः । नौयचष्ठन् ॥ ७ ॥ नाविकः । घटिकः । बाहुभ्यां तरति बाहुका स्त्री । पकारः सांहितिको न त्वनुबन्ध इति न ङीष् । तथाच श्लोकवार्त्तिकम् । आकर्षात् पर्यादेर्भस्रादिभ्यः कुसीदसूत्राच्च । आवसथात् किशरादेः पितः षडेते ठगधिकारे इति विधवाक्यापेक्षमिह षट्त्वं षडित्यस्य षड्भिर्वाक्यैर्विधेये लक्षणेति यावत् । प्रत्ययास्तु सप्त । कुसीदादिसूत्रेण द्वयोर्विधानात् । इह येषां षकारः सांहितिक इति सम्भाव्यते तेषामेव गणने क्रियमाणे ष्ठलादेः पित्वमनार्षमिति भ्रमः स्यादतो वार्त्तिककारः सर्वानेव पर्यजीगणत् । चरन्ति ॥ ८ ॥ तृतीयान्ताद्गच्छतिभक्षयतीत्येतयोरर्थयोष्ठक् स्यात् । ह स्तिना शकटेन चरति हास्तिकः । शाकटिकः । दधा चरति दाधिकः ।
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy