SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ शब्दकौस्तुभे। दक्षिणापश्चात्पुरसस्त्यक् ॥ ९८ ॥ दक्षिणादाजित्याजन्तमव्ययमिह गृह्यते पश्चात्पुरोभ्यां साहचर्यात् । दाक्षिणात्यः । पाश्चात्यः । पौरस्त्यः । कयं तर्हि नृपः पुरस्थैः प्रतिरुद्धवा पश्चात्तनैश्चन नुद्यमानः । यन्त्रस्थसिद्धा. थपदाभिषेकं लब्ध्वाप्यसिद्धार्थममन्यत स्वमिति । अत्र केचित् । पश्चात्तन्वन्तीति कुसृष्टया व्याचक्षते । अन्ये दिग्देशवाचिनि पश्चाच्छन्दे सावकाशं त्यकं परत्वाहाधित्वा कालवाचकात् ट्युट्युलौ एव स्तः। अत एव धुप्रागितिसूत्रे प्राक्तनमित्युदाहृतं वृत्तौ परत्वाद्यतं बाधित्वा कालवाचिनष्टयुरिति न्यासकारादयश्च । नन्वेवं प्रकृते पश्चिमदेशस्थत्वस्यालाभादासङ्गतिः पश्चिमकालभवत्वस्य शब्देन लाभे सत्यर्थाद्देशस्यापि लाभादिति वदन्ति । तम अग्रादिपश्चाड्डिमजिति डिमचा ट्युट्युलोधिस्य दुर्वारत्वात् । तस्मात् बाधकविषयेप्युत्सर्ग इति कयश्चित्समर्थनीयम् । कापिण्याः फक् ॥ ९९ ॥ कापिशीशब्दात् फर शेषे । पो डीपर्थः । कापिशायनं मधु । कापिशायनी द्राक्षा । वाइल्युर्दिपर्दिभ्यश्चेति वक्तव्यम् । अवृद्धादपीति दुबोऽपवादः । वाडायनः । औयनः । पार्दायनः ॥ रङ्कोरमनुष्येऽण च ॥ १० ॥ रङ्कुशब्दादण् स्यात् चात् फक् अमनुष्येऽभिधेये । राडवो राङ्कवायणो वा गौः। रङ्कवो नाम जनपदः ततः प्राग्दीव्यतोऽण् प्राप्तः । तस्यावृद्धादपीति वुश् बाधकः । तस्य ओदेशे ठञ् । तस्य कोपधादण् । ततः कच्छा.
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy