SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ४ अध्याये २ पादे । आह्निकम् । ११७ यौगम् । वारत्रम् । चरणेभ्यो धर्मवत् ॥ ४५ ॥ वुजादयश्चरणेभ्यो वक्ष्यन्ते । चरणाद्धर्माम्नाययोरिति तु तत्र वार्तिकम् । तदप्यनेनातिदेशसूत्रेण ज्ञापितम् । यतः प्रकृते धर्मे यः प्रत्ययो वक्ष्यते ततः समूहेऽपि स्थादित्यतिदेशार्थमिदं सूत्रम् । कठानां सङ्घः काठकम् । कालापकम् । गोत्रचरणाद् वुन् छान्दोग्यम् । औक्थिक्यम् । छन्दोगौक्थिति ज्यः । आथर्वणम् । आथर्वणिकस्येकलोपश्चेत्यण् । __ अचित्तहस्तिधेनोष्ठक् ॥ ४६ ॥ साक्तुकम् । आपूपिकादावपि परत्वादवं बाधित्वाऽयं ठगेव हास्तिकम् । धैनुकम् । तदन्तविधेापितत्वागौधेनुकम् । जङ्गलधेनुवलजान्तस्येत्युभयपदवृद्धिविकल्पः । अनबित्युक्तं तेन आधेनवमित्यत्र उत्साद्यमेव । केशाश्वाभ्यां यञ्छावन्यतरस्याम् ॥ ४७ ॥ आभ्यामेतौ क्रमाद्वा स्तः पक्षे ठगणौ । कैश्यम् । कैशिकम् । अश्वीयम् । आश्वम् । पाशादिभ्यो यः ॥४८॥ पाश्या । तृण्या। इह पोतगलग्रहणं सङ्घातविगृहीतार्थमिति गोबर्धनः। युक्तश्चैतत् । ग्रामता जनता धूम्या पाश्या गल्या पृथक् पृथगित्यमरकोशात् । पाश । तृणधूम । वेत्ति । अहार । पोटगल पिटक शकट हल नट वन । खलगोरथात् ॥४९॥ एभ्यो यः स्यात् । स्वल्या । गव्या । रथ्या । . .
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy