SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ४ अध्याये १ पादे ४ आह्निकम् । ज्यायेनो विप्रतिषेधेनेति वार्तिकं व्याचक्षाणो भगवानाह । इबोऽवकाशः । आजमीढिः । आजक्रन्दिः । अणः स एव । इहो. . भयं प्राप्नोति । बुध वौधिरिति । ते तद्राजाः ॥ १७४ ॥ ते अबादय एतत्संज्ञाः स्युः । प्राचीनास्तु तच्छब्देन न प. रामृश्यन्ते । गोत्रयुवसंज्ञाकाण्डेन विच्छेदात्। संज्ञाप्रयोजनं बहुषु लुक । महासंज्ञाकरणमन्वर्थसंज्ञार्थ तद्राजमाचक्षाणास्तद्राजा इति । तेन जनपदस्य राजन्यपत्यवदिति सिध्यति । कम्बोजाल्लुक ।। १७५॥ अस्मात्तद्राजस्य लुक् स्यात् । कम्बोजः। कम्बोजौ । कम्बोजादिभ्यो लुग्वचनं चोलाद्यर्थम् । चोलः । शकः । इह यज्लक्षणस्यानो लुक् अन्येभ्यस्तु अणः । केरलः । यवनः । कम्बोजाः समरे सोदुमिति रघुः। काम्बोजा इति दीर्घपाठस्तु प्रामादिकः । न च शैषिकेणाणा निर्वाहः । गोत्रेऽलुगचीत्यलुकि छप्रत्ययेनाणो बाधादित्याहुः । तन्न । यस्कादिभ्यो गोत्र इत्यधिकारोक्तस्यैव लुकोऽलुका वाधात् । मूलप्रकृतेरणः सुवचत्वाच । वस्तुतस्तु कम्बोजोऽभिजनो येषामिति विग्रहः । सिन्धुतक्षशिलादिभ्योऽणनावित्यण् । सिन्ध्वादिषु कम्बोजशब्दपाठस्य सर्वसंमतत्वात् । तस्य राजनीत्येके कम्बोजो राजा । स्त्रियामवन्तिकुन्तिकुरुभ्यः ॥ १७६ ॥ एभ्यस्तद्राजस्य स्त्रियां लुक् स्यात् । अवन्ती । कुन्ती । कुरूः । अवन्तिकुन्तिकुरुभ्यो ज्यङो लुकि कृते इतो मनुष्यजाते. रिति ङीष् । कुरोरार्यस्य लुकि ऊडुत इत्यूङ् । स्त्रियां किम् । आम्बष्ठ्यः। शब्द. तृतीय. 7.
SR No.023085
Book TitleShabda Kaustubh Part 03
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy