SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ १० शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे प्रथमान्हिकेप्रहणं त्यक्त्वा नसेडित्येतावतापि योगेनाकित्त्वे कृते 'गुधितः' इत्यादौ निष्ठा नाकित्वम् । कुतः १ । अवधारणात् । “निष्ठाशी' (अष्टा०स. ५-२-१९) इत्यनेन, शीङादिभ्य एव निष्ठा न किदिति नियमादित्यर्थः । विपरीतनियमस्तु लक्ष्यानुरोधान्न व्याख्यास्यते । न चैवं लिटि प्रतिषे. धात् 'जग्मिव' इत्यादावुपधालोपो न स्यादत आह-ज्ञापकादिति । किं तत् ? तत्राह-सनीति । 'शिशयिषते' इत्यत्र कित्वं वारयितुं क्रियमाणम् "इको झल" (अष्टा०सर-२-९) इति झल्ग्रहणं ज्ञापयति-"आतिदेशिकस्य कित्वस्य नायं निषेधः” इति । ननूत्तरार्थ झल्ग्रहणं स्यात् नेत्याह-इत्वमिति । 'उपास्थायिषतां हरिहरौ भक्तन' इत्यत्र अस्था स आताम् इति स्थिते इत्वम्प्राप्तश्चिण्वद्भावश्च । परत्वा. चिण्वद्भावे कृते युक् च प्राप्त इद्विधिश्च । अपवादत्वाद्युकि कृते यकारस्येत्प्रसङ्गः । तं वारयितु झल्गहणमिति ज्ञापकभङ्गवादिनो मतम्, तन्न, न सेडिति सिचोपि कित्त्वे निषिद्धे तत्सन्नियोगशिष्टतया इत्त्वस्याप्रवृत्तेः । अत्र दृष्टान्तमाह-रेणेति । शोभना धीवानोस्यां 'सुधीव' इत्यत्र "अनो बहुव्रीहेः" (अष्टा०स०४-१-१२) इति डीपो निषेधे “वनोरच" (अष्टा०स०४-१-७) इति रेफोपि न भवति तथेत्यर्थः । भाष्ये त्व. भ्युपेत्यापि समाहितम् "इत्त्वे कृतेऽपि वृद्धिर्भविष्यात" इति । युका हि आकारस्य वृद्धिर्बाध्यते न विकारस्यापीति भावः । 'जग्मिवान्' इत्यत्र क्कसोः कित्त्वनिषेधं वारयितुं त्वाग्रह इति शङ्कते-वस्वर्थमिति । दूषयतिकिदतिदेशादिति। औपदेशिकस्य निषेधेप्यातिदेशिकेन सिद्धम्। तदनिषेधस्य शापितत्त्वादिति भावः।स्यादेतत्-संयोगान्तेष्वातिदेशिककित्त्वाभावादोप. देशिकमेव शरणम् । अओ 'आजिवान्' इति यथा। अत्राहुः-आनुपूास्सिदम् । नलोपे कृते द्विवंचने एकादेशे च "वस्वेकाज" (अष्टा सु०७-२-६७) इतीट् । कृतद्विर्वचनानामेकाचामिति सिद्धान्तात् । न चेदानी कित्त्वप्र. तिषेधः, उपजीव्यविरोधात् । कित्ये हि प्रतिषिद्धे नलोपनिवृत्तौ द्विहरुत्वान्नुटि एकाचत्वाभावादिडेव नावतिष्ठेत । किञ्च कसोश्छान्दसत्वा: सार्वधातुकत्वे "सार्वधातुकमपित्" (अष्टा०स०१-२-४) इति ङित्वासिद्धम् । एवं स्थिते सिद्धान्तमाह-गृहोतिरिति । किनिवृत्यर्थ क्त्वाग्रहणमित्यर्थः । तितुत्रेष्वग्रहादीनामितीट् । कित्त्वात्संप्रसारणम् । एवं "श्च कौटिल्याल्पीभावयोः" (भ्वा०प०१८६) निकुचिंतिः, कित्त्वान्नलोपः । उपनिहितिः, कित्त्वान्न गुणः । इदानीं क्त्वाग्रहणं प्रत्याचष्टे-फ्त्वाचेति । विग्रहादिति । योगविभागादित्यर्थः । अयं भावः-न सेनिष्ठाशीङित्यादित्रिसत्री पठित्वा "पृङः क्त्वाच" (अष्टा०स०१-२-२२) इत्यत्र योगो
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy