SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ शब्दकौस्तुभप्रथमाध्यायप्रथमपादतृतीयाहिकेसम्बन्धानुवृत्तेर्वात्वयापि वाच्यत्वात् , इग्ग्रहणस्याप्युत्तरार्थतया तदंशे ऽपि शङ्कानुत्थानाच । इक इति योगः किमर्थ विभज्यते इति प्रश्नबीजमिति चेत्तर्हि गुणवृद्ध्यंशेऽपि तस्याविशिष्टतया सूत्रं किमर्थमित्येव बूयादिति दिक् । यतु प्रधानावयवद्वारा समुदायाक्षेपोऽयमिति, तदपि नातीव शब्द. स्वरसानुगुणम् । तस्मादुक्त एवाशयः साधुः । न चैवं "गुणवृद्धधिकारे पुनर्गुणवृद्धिग्रहणसामर्थ्याद्" इत्युत्तरग्रन्थासङ्गतिः, तस्य यथाश्रुताभिः प्रायकत्वात् । ग्रहणपदस्यानुवृत्तिपरतया सम्पूर्णसूत्रद्वयानुवृत्तिपरत्या. सम्पूर्णसूत्रद्वयावृत्तिसामर्थ्यपरत्वावति दिक् । एवं चेक इति योगविभाग एव पूर्वपक्षसिद्धान्ताभ्यां समर्थ्यते इतीह पर्यवसितोऽर्थः । ततश्चा. नेनैकेन योगविभागेन सकलेष्टसिद्धौ ‘मृजेवृद्धिरचः' 'उरङ गुणः' इ. त्यादि बहुतरयोगविभागाद्याश्रयणेनान्यथासिद्धिवर्णनं नादर्तव्यमिति स्थितम् । इयं च परिभाषाऽलोन्त्यपरिभाषायाः शेषोवा शेषिभूता वा तया सह समुच्चिता वा वैकल्पिकी वा तदपवादो वा पूर्वविप्रतिषेधात्तद्वा. धिका वा पदोपस्थापिका वेति सप्तपक्षाः सम्भाव्यन्ते यद्यपि, तथाप्याद्यानां षण्णां दुष्टत्वात्सप्तम एव सिद्धान्तितः । तथाहि, “सार्वधातुका धातुकयोः" (पा०सू०७-३-८४) इत्यत्र स्वस्वनिमित्तवशात्परिमाषाद्वयं सन्निहितम् । तत्राङ्गस्येति षष्ठी यदि पूर्वमेवान्त्यमलं नीता अङ्गान्त्यस्य गुण इति, पश्चादिकाऽन्त्यो विशेष्यते, तदेवपरिभाषा शेष. भृता । यदि तु पूर्वमिकाऽङ्गस्य विशेषणात्तदन्तविधिरिगन्तस्याङ्गस्येति, ततः स च भवनलोन्त्यस्येति, तदा द्वितीयः पक्षः । तदिदं पक्षद्वयमपि षष्ठीतत्पुरुषं बहुव्रीहिं चाश्रित्य 'तच्छेषपक्ष' इति भाष्ये व्यवहृतम् । इह पक्षद्वयेऽपि “मिदेर्गुणः" (पा०सू०७-३-८२) इत्यादौ दोषः । यो हि मिदेरन्त्यः नासाविक, यश्चेक् नासावन्त्यः । तथा चावश्यम्परिभाषायां त्यक्तायां सत्यां विनिगमकामावादुमयत्यागे सर्वादेशो गुणः स्यात् । तदुक्तं वार्तिककृता-"वृद्धिगुणावलोन्त्यस्येति चेन्मिदिमृजिपुगन्तल. घूपञ्छिशिक्षिप्रक्षुद्रग्विग्रहणं सर्वादेशप्रसङ्गश्चानिगन्तस्य" इति । चकारो हेत्वर्थः । ततश्च सर्वादेशप्रसङ्गो होति फलितम्। - ___ अथ मिद इर्मिदिः तस्य मिदेरित्यादिपूर्वोत्तरीत्या कथं चिदिह सर्वत्रेक एव स्थानित्वं लभ्येत, तथापि 'भिन्नम्' इत्यादावनिग्लक्षण. स्वाद् गुणनिषेधो न स्यात् । अथ कोः कित्त्वाशापकादनिग्लक्षण. त्वेऽपि निषेधस्तर्हि "लैगवायन:' 'पौरोहित्यम्' इत्यादापतिप्रसङ्गः।
SR No.023083
Book TitleShabda Kaustubh Part 01
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy