________________
विधिशेषप्रकरणे परिभाषासूत्रम् ।
च'अचिकीर्षात्' इत्यकारोव्यावर्त्यः "ज्यल्लोपाधिययण्गुणवृद्धिदीर्घभ्यः पूर्वविप्रतिषिद्धम्" (काभ्वा०) इति वचनादल्लोपेनैव सिद्धत्वात् । अन्यथा 'चिकीर्षक:' इति न स्यात् 'चिकीर्षायकः' इति च प्रसज्येत । आ. कारस्य तु नास्ति विशेषः सगिड्भ्यां बाधश्चेत्युक्तम् । एजन्तमपि न सम्भवति, आत्वविधानात् । 'उदवोढाम्' इत्यादौ तु ढलोपस्यासिद्ध. ता। रैनौग्लौशब्दानामाचारविबन्तानां सत्यामसत्यां वा वृद्धौ न क. चिद्विशेषः। गोशब्दाक्विपि 'अगवीत्' इत्यत्रापि नातिप्रसङ्गः । "ऋत इद्धातोः" (पासू०७-१-१००) इत्यतोऽनुवृत्तेन धातुग्रहणेन सिजाक्षि. तस्य धातोर्विशेषणे सति धातुरेव यो धातुन तु कथंचित्प्रातिपदिकमिति व्याख्यानादिति कैयटादयः ।
नन्वेवं कवेः अकवायीत्, विधोः अविधावीत् , पितुः अपिता. रीत्, अन्तरङ्गमपि गुणं सिचि वृद्धिर्बाधत इति वदन्माधवो विरु. ध्येत । सत्यम्,
यद्यविरोधः सम्पादनीय इत्याग्रहस्तीत्थं वर्णनीयम् --धातोरिति. वदोत इत्यप्यनुवर्तते। तच वाक्यभेदेन सम्बध्यमानं नियमार्थ सम्पद्यते-ओदन्तस्य धातोश्चेद् वृद्धिस्तर्हि धातोरेव धातोर्न तु नामधातोरिति । यद्वा, "नेटि" (पा०सु०७-२-४) इत्यत्र नेति योगं विभज्य मण्डूकप्लुत्या सम्बन्धानुवृत्या वा 'गोतः' इत्यनुवत्यौकारान्तस्य धा. तोवृद्धिनिषिध्यते । अथवा "बहुलं छन्दसि' (पा०सू०७-१-१०३) इत्य. तो बहुलमित्यनुवर्त्य सिचि वृद्धिर्नामधाताविगन्तस्य भवति न वोद. न्तस्येति कथं चित्समाधेयम् ।
व्यञ्जनेम्वन्तरतमपरिभाषाबलेनैवानुनासिकपरसवर्णयोरिवातिप्रस. उद्धृत एव । अभ्युपेत्य तु बमः, नाप्राप्तायां सिवि वृद्धावारभ्यमाणा हलन्तलक्षणा वृद्धिर्वाधिका भविष्यति । "नेटि' (पा०स०७-१-४), इति निषेधस्तु हलन्तस्य यावती वृद्धिः प्राप्ता "सिचि वृद्धिः" (पासू०. ७-२-१) इति वा "हलन्तस्य" (पा०स०ए०७-२-३) इति वा तस्याः सर्वस्याः , न तु सत्रविशेषप्रापितत्वे आग्रहः । तेन 'अकोषीत्' 'अमो. पीत्' इत्यादौ द्विविधाऽपि वृद्धिनिषिध्यते इति सुस्थम । तस्मानिषेध. सिद्धर्थमिग्लक्षणतां सम्पादयितुं सूत्रमिति स्थितम् ।
स्यादेतत् 'कृतः कृतवान्' 'छिनश्छिन्नवान्' इत्यादौ निषेधसिद्ध. ये गुणप्रहणमस्तु । वृद्धिग्रहणं तु व्यर्थम् । न च 'मृष्टो मृष्टवान्' इत्या. दौ निषेधसिद्धिस्तत्फलं, योगविभागेन सिद्धत्वात् । तथाहि, मृजे. दिरित्यस्यानन्तरम् 'अजादौ विति वा इत्येवं रूपं वचनमवश्यं क.