________________
७२ शब्दकौस्तुभप्रथमाध्यायप्रथमपादतृतीयाहिके
यमुन्दश्च सुषामाच वार्ष्यायणिः फिलः स्मृताः। इति वृत्ती त्रयाणामेव परिगणनादन्येभ्यश्छठको न भवत एवेति वाच्यम् , भाष्यकृता परिगणनस्यानाश्रयणात् । अन्यथाऽत्रैव सूत्रे 'सौधीरोग्विति किम् ? तेकायनिः' इतिप्रत्युदाहरणं न सङ्गच्छेत । तैका. यनिशब्दस्य तत्रापाठात् । अत एव "यूनि लुक्" (पा०सू०४-१-९०) इत्यत्रोदाहियते-तिकस्यापत्यं "तिकादिभ्यः फिञ्” (पा०सू०४-११५४) तैकायनिः, तस्यापत्यं युवा "फेश्छच" (पा०स०४-१-१४९) तैकायनीयः, तस्य छात्राः युवप्रत्ययस्य लुकि कृते "वृद्धाच्छः" (पा०स०४-२-११४) 'तैकायनीयाः' इति । न हि सति. परिगणने तैका. यनेश्छः सम्भवति न वा तल्लोपः । अत एव यूनिलुक्सत्रे स्थित्वा परि. गणनमर्वाचीनमिति हरदत्तादयोऽप्याहुः । अपिच फित्रि सत्याघ्रगुः प्तायनेरपत्यं युवा "प्राग्दीव्यतोऽण्" (पा०स०४-१-८३) तस्य "ण्यक्ष. त्रियार्षभितो यूनि लुगणिोः ” (पा०सू०१-४-५८) इति लुकि 'आम्र. गुप्तायनिः' इत्येवं रूपं पितरि पुत्रे चेष्यते । फिनि तु सति तन स्यात् त्रितः परत्वाभावात् । न च 'अब्राह्मणगोत्रमात्राघुवप्रत्ययस्योपसंख्या. नम्' इति तसिद्धिः, ब्राह्मणगोत्रे तदप्रवृत्तः। किञ्च तद्भावितग्रहणपक्षे "मालादीनां च" (पा०सू०६-२-८८) इत्यनारम्भणीयं स्यात "प्रस्थे वृ. धमकर्यादीनाम" (पा०सू०६-२-८७) इत्यनेनैव पूर्वपदाघुदात्तत्वसि. द्धेः। अपिच वृद्धिशब्दे तन्त्रावृत्त्याद्याश्रयणागौरवम् । "मृजेवृद्धि" (पासू०७-२-११४) इत्यादिविधिप्रदेशेष्वितरेतराश्रयणपरिहाराय सत्र शाटकवद्भाविसंशा विशेया स्यादिति चापरं गौरवभिति । ___ अत्रोच्यते, आदैज्मात्रस्य वृद्धिसंज्ञा । नचैवं सर्वभासादावुक्तदोषः स्थादिति वाच्यम् "उत्तरपदवृद्धौ सर्व च" (पासू०६-२-२०५) इत्यत्र छत्तरपदग्रहणं स्वर्यते । स्वरितेनाधिकारी विज्ञायते । तेनोत्तरपदस्ये. त्यधिकृत्य या वृद्धिर्विहिता सैव गृह्यते । यथा 'सर्वपाश्चाल' "सुसर्वा. ज्जिनपदस्य" (पा०सू०७-३-१२) इति वृद्धिः । इदं च तद्भावितग्रह. णेऽप्यवश्यं वक्तव्यमेव । अन्यथा 'सर्वः कारकः' 'सर्वकारकः' इत्यादा. वतिप्रसक्तः । एवं तावद्भार्येप्यदोषः, तन्त्रावृत्णद्याश्रवणेन वृद्धिशब्देन विहिताया वृद्धर्यनिमित्तं तत्रैव पुंवद्भावप्रतिषेधात् । वृद्धिशब्देन च विधौ कृत्स्ना वृद्धिः प्रतीयते इत्याशयेनैवोकं भाग्ये-यत् कृत्स्नाया वृद्धनिमित्तम्" इति । न च वैयाकरणभायें तथा सौवश्वभार्येऽतिप्रसङ्गः फलोपहितस्यैव निमित्तन्वेन विवक्षितत्वात् । ऐचौ प्रति फलोपधानम.. प्यस्तीति चेत् ? न, तयोवृद्धिशब्देनाविधानात ।