SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ चतुर्दशसूत्रीस्थानुबन्धाना प्रत्याहारेषूपयोगः। ६३ बोध्यः । “वृह उद्यमने" [तु०प०] अस्मानिष्ठायां ढत्वधत्वष्टुत्वढलोपेषु कृतेषु 'वृढः' इति रूपम् । दन्त्योष्ठ्यादिश्चायम् । “उद्धृहरक्षः सह मूलमिन्द्र" इति दर्शनात् । “मूलमस्याबर्हि" [पा०९०४-४-८८] इति सत्रे हरदत्तादिग्रन्थे स्पष्टमेतत् । तुदादौ एतद्धातूत्तरत्वेन पठ्यमानयोः "तुहू स्तुंह हिंसायाम्" [तु०प०] इति धात्वोरपि निष्ठायां 'तृढः' स्तृढः' इति रूपं बोध्यम् । “दृढः स्थूलबलयोः" [पा०सू०७-२-२०] इति तु इडभावो नकारहकारयोर्लोपो निष्ठातकारस्य ढत्वं च निपात्यते म त्वसिद्धकाण्डस्थढत्वादेरिह प्रवृत्तिरिति पक्ष्यते । तेन 'परिद्रढय्य' 'पारिद्रढी कन्या' इत्यादी लघुत्वप्रयुक्तो रयादेशः प्यङभावश्च सिध्यतीति दिक् । तेन दूलोपसूत्रे परेणापग्रहणपक्षेपि वृढतृढस्तृढे. प्रेहातिप्रसङ्गो न तु दृढेऽपीति विवेकः । "केऽणः" [पा०९०७-४-१३] इत्यत्र परेणापग्रहणे 'गोका' 'नौका' गीष्का''उपानका' 'चतुष्कम्' इति धत्वविसर्जनीययोरसिद्धत्वाद्धस्वप्रसङ्गः, तथापीह हस्वश्रुत्योपस्थि. तस्य "अच:" [पा०स०१-२-२८] इत्यस्याबाधाय पूर्वण भविष्यति। अबाधेनोपपत्तौ हि बाधो न न्याय्यः। "अणोऽप्रगृह्यस्य" (पा००८४-५७) इत्यत्र परेण सति-कर्तृ' 'अग्ने 'वायो' 'मत्यै' 'पपो' 'मालामाचक्षाणो माल्' 'वृक्षवयतेर प्रत्ययः वृक्ष' अत्रापि प्राप्नोति । रेफव. र्जिता अन्तस्थाः सानुनासिकनिरनुनासिकभेदेन विधेत्युक्तत्वात् । तस्मादिहाप्रगृह्यस्येति पर्युदासादच एवानुनासिको बोध्यः। न चा. एग्रहणसामर्थ्यान्नत्रिवयुक्तन्यायस्य बाधा, तस्य पूर्वेणाप्युपपन्नत्वात् । अत्र लसुत्रे स्थित्वा वृक्षवशब्दमित्थं कैयटो व्युदपादयत्-वृक्षं वृश्च. तीति विपि कृते वृक्षवृश्चमाचष्ट इति णिचि टिलोपे च कृते वृक्षवयते. विचि वृक्षव इति भवति । विपि तु "को लुप्तं न स्थानिवत्" "को विधि प्रति न स्थानिवत्" इत्युभयथापि स्थानिवद्भावनिषेधात्सम्प्रसारणप्रसनो "लोपो व्योर्वलि" [पासू०६-१-७६] इति लोपं बाधित्वा तद. पवादस्योठः प्रसङ्गश्च । विचि तु स्थानिवद्भावाद्वनिमित्तो वलोपोन भवति । नन्वेवमपि वृक्ष करोतीत्यत्र "हलि सर्वेषाम्" [पासू०८-३२३] इति प्राप्नोति । न च स्थानिवद्भावः पूर्वत्रासिद्धे तनिषेधादिति चेत् ? न, "भो भगो" [पा०सू०८-३-१७] इत्यतोऽशीत्यनुवाशि हलि तद्विधानादिति । न च विपक्षेऽपि णिचः प्राग्भाविनं विपमेवा. श्रित्योट प्रसञ्जनीयः, अतभूतकिवाश्रयतयाऽन्तरङ्गे कर्तव्ये बहिर्भूत. णिजपेक्षतया बहिरङ्गस्य टिलोपस्यासिद्धत्वात् । इदं त्विह वक्तव्यम् । विपक्षेऽप्येकदेशविकृतस्यानन्यत्वेन ब्रश्चतिग्रहणेन ग्रहणाद् "वश्व"
SR No.023083
Book TitleShabda Kaustubh Part 01
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy