SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २६४ शब्द कौस्तुभ प्रथमाध्यायप्रथमपादे नवमाहिके यथा “शृणोरत्रेः कर्माणि कृण्वतः" इति । तथा ढको लुक्यप्याद्युदान्त एव प्रयुज्यते 'अत्रीणां सोममद्रिवः" इति, “अत्रीणां शृणुतं हवम्" इति च | त्रिन्प्रत्ययान्तस्त्वन्तोदातो नकारान्तश्चेत्यन्यदेतत् । सोऽपि प्रयुज्यते "दूरे वा ये अन्ति वा के चिदत्रिणः” इति । तथा, पन्थाः प्रि. यो यस्य पथिप्रियः । " सुपो धातु" (श०सु०२-४-७१ ) इति सोलुकि "पथिमथेोः सर्वनामस्थाने" (पा०सु०६ - १ - ११९) इत्याद्युदात्तता प्रा. प्नोति । न ह्येषा त्रिसूत्री, अङ्गाधिकारस्था, येन "न लुमता" ( पा०सू० १-१-१६३) इति निषेधः प्रवर्त्तते । नाप्येतद्वस्तुतोऽङ्गस्य कार्यम् "सु तिङन्तम्" (पा०सु०१-४-१४) इति पदसंज्ञावदुक्तस्वराणां प्रत्ययान्त कार्यत्वात् । नन्वस्तु "कितः " ( पा०सु०६-१-१६५ ) इति तथा, इतरतु द्वयं 'निति' 'सर्वनामस्थाने' इति सप्तमीनिर्देशाद्वस्तुतोऽङ्गस्य कार्यभवत्येवेति चेत् ? न विनदन्तस्यादेरित्यादिक्रमेण प्रत्ययान्तस्यैव तद्विधानात्, "सौवर्ण्यः सप्तम्यस्तदन्त सप्तम्यः" इति सिद्धान्तात् । एतच्च "मीइोभृहूमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वे पिति" इति पूर्वग्रहणेन ज्ञाप्यत इति तत्रैव भाष्ये स्पष्टम् । अत एव "उपोत्तमं रिति” (पा०स्०६-१-२१७) इत्यायुदात्तत्वम्, 'आहवनीयः' इत्यादौ रिदन्त. स्योपोत्तमे नशिब्दस्येकारे प्रवर्त्तते " चडन्यन्यतरस्याम्" ( पा०सु०६-१-२१८) इति चङन्तस्य । न चैवं "चतुरश्शसि" (पा०स्०६-१-१६७) इत्युदात्तत्वं शसन्तस्य स्यात्तथाच 'बटूत्रिंशांश्च चतुरः कल्पयन्तः' इत्यादी चतुर इति पदं मध्योदात्तमिष्यमाणं न सिद्धयेदिति वाच्यम्, तत्र शस्प्रहणसामर्थ्यात्तदन्तसप्तमीत्वबाधात् । इतरथा हि "ऊडिद म्पदाद्यप्पुप्रैद्युचतुर्भ्यः" इत्येव ब्रूयात् । तत्र सर्वनामस्थानग्रहण!नुवृत्तेः शस एव भविष्यति, "षत्रिचतुभ्यद्दलादिः " ( पा०सु०६-११७९) इति हलादेः सिद्धान्तेप्युदात्तंविधानात् । न चैवं स्वरविधिषु षष्ठयेव निर्दिश्यतामिति वाच्यम्, रितश्वङ इत्याद्यपेक्षया रिति चङीत्युक्कावर्द्ध मात्रालाघवसम्भवेन सप्तमीप्रयोगादिति । 9 अत्रोच्यते । अङ्गाधिकारनिर्देशपक्षे तावदुक्तदोषरिहाराय वार्त्तिकमा· रम्यते "लुमति प्रतिषेधे एकपदस्वरस्योपसंख्यानम्" (का० वा० ) । "सर्वामन्त्रितसिज्लुक् स्वरवर्जम्' (का०वा० ) | प्रयोजनं त्रिनि किल्लुकस्वराः 'प ग्रिमथेोः सर्वनामस्थाने लुकि” इति । अस्यार्थः लुमति लुमत्संज्ञया प्रतिपादितेऽदर्शने यः प्रतिषेधः तस्मिन्नेकपदाश्रयो यः स्वरस्तस्योपसंख्यानम् । प्रत्ययलक्षणेन प्राप्तोऽप्येकपदस्वरो न भवतीत्यर्थः । पदद्वयाश्रयस्तु स्यादेव । यथा 'तिष्ठति' इत्यत्र "पदस्य" (पा०सू०८-१-१६) "पदात्"
SR No.023083
Book TitleShabda Kaustubh Part 01
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy