________________
२६०
शब्दकास्तुभप्रथमाध्यायप्रथमपाद नधमाह्निके
त्वात् । नन्वेवं प्रत्ययलक्षणमपि न स्यात् , "वर्णाश्रये नास्ति प्रत्ययः लक्षणम्' (प०भा०२१) इति निषेधादिति चेत् ? न, नोवंरूपं वचनमस्ति, किन्तु प्रकृतसूत्रे प्रत्ययलोपे तल्लक्षणमित्येवास्तु, यद्वा तल्लक्ष. णमित्यपि मास्तु, स्थानिवदित्यनुवृत्त्येवेष्टसिद्धेः। एवं सति प्रत्ययल. क्षणामित्युकेः फलं तत्पठ्यते । पुनः प्रत्यय ग्रहणसामाद्धि यत्कार्य प्रति प्रत्ययस्यासाधारणं रूपं निमित्ततयाऽऽश्रीयते सुप्त्वतिवादि, तदेव भवतीति लभ्यते । तेन 'गवे हितं गोहितम्' इत्यवादेशो न भव. ति, तद्विधावस्वमात्राश्रयणातू , तस्य च प्रत्ययाप्रत्ययसाधारण्यात् । अथात्र "न लुमता" (पा० सू०१-१-६३) इति निषेधः । तर्हि 'सुयशाः' इत्यत्र "विसर्जनीयस्य सः" (पा०००८-३-३४) स्यात, 'सुवृड्' इत्यादी • "स्वरि च" (पा०सू०८-४-५४) इति चवं स्यादिति दिक् ।
इमागमे तु हलादौ सावधातुके इति प्रत्यय एव प्राधान्येनाश्रीयते इति वैषम्यम् । तस्माद्वर्णप्राधान्ये प्रत्ययलक्षणं नास्ति प्रत्ययप्राधान्ये स्वस्तीति विवेकः । अनेनैव न्यायेन "न धातुलोप" (पा०सू०१-१-४) इ. त्यत्र धातुलोप इति बहुव्रीहिणैव सिद्ध आर्द्धधातुकग्रहणसामर्थ्यात्त. स्वेन निमित्तता लभ्यते । तेन 'धिन्विकज्योर्विचि' "लोपो व्योः" (पासू०६-१-६६)इति वलोपस्य वलिनमित्तत्वात्तत्रार्द्धधातुकतया विचो निमित्तत्वाभावाद् गुणो भवत्येव । तेन, सुधे, सुधेनौ, सुधेन:' 'सुकः, सुकर्णी, सुकर्णः' इत्यादि भवति । पठन्ति च
सुधे सुधेवारिवधात्सुराणां सुकारणे लाघवतश्च रामः । विशेषणे द्वे य इहादिकत्र्तर्वदेदीती स हि कैयटीयः ॥ इति ।
न च 'तोतोति' इत्यादिव्यावृत्त्या आर्द्धधातुकग्रहणस्य सार्थक्याकथं सामर्थ्योति वाच्यम् , यङ्लुकश्छान्दसत्वात् । भाषाविषयत्व. पक्षे त्वार्द्धधातुकग्रहणमावर्त्य सामर्थ्यमुपपादनीयम् । नन्वेतत् "ङ्किति च" (पा०सू०१-१-५) इत्येतत्सूत्रस्थभाष्येण सह विरुद्धम् । पूर्वस्मि. योगे यदार्द्धधातुकग्रहणं तदनवकाशमिति तत्रोक्तत्वादिति चेत ? न, अनास्थया तथोकत्वादित्याहुः।
तदपष्टम्भेनात्र विजेवानभिमत इत्येव किं न स्यादिति चिन्त्यम् ।
किपि तु ऊठ् । तेन 'धिनूः' 'धिन्वौ' 'धिन्वः' 'कृणू' 'कृण्वौ' 'कृण्वः' इति भवति । 'सुधी' 'सुधिनौ, सुधिनः' 'सुकीः, सुकणी, सुकृणः' इत्या. दि तु न भवत्येवेत्याहुः ।
यङलको भाषाविषयत्वे आर्द्धधातुकग्रहणस्य 'तोतोर्ति' इत्यत्र चा. रिताऱ्यांदावृत्तौ च मानाभावाद् गुणनिषेधप्रवृत्त्या 'सुधी, 'सुधिनौ'