________________
२३४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादेष्टमाह्रिके
विषु अनन्वयापत्तेश्च । तस्माद्भावसाधन एवाऽन्तरङ्गत्वाच्च । अत एव कर्मषष्ठ्यन्तेन समासः । 'शुकी' 'तटी' इत्यादी पदसंज्ञायां कर्त. व्यायां "यस्य' (पा०सू०६-४ १४८) इति लोपः स्थानिवदेव । न हि "स्वादिषु'' (पासू०१-४-१७) इति सूत्रेण पदस्यान्तो विधीयते, येन निषेधः स्यात् । किं तु संशामात्रम् । तत्रापि यथोद्देशपक्षः । जश्त्वा. दिकार्यकालत्वे "पूर्वत्रासिछे न" (भा०६०) इति निषेधापत्तेः । एकदेशविकृतस्यानन्यत्वाद् 'वेत स्वान्' इत्यत्र रुः प्राप्तः बहिरङ्गस्यासिद्ध. त्वान्नेति वक्ष्यते । भाग्ये तु पदसंशायाः पदान्तता स्वीकृत्य पदे अन्त इति भसंझापि पदकार्यमिति च देधा समाहितम् । तत्रान्त्ये षडिके वचनसामादिति बोध्यम् । वाचिकषडिको तु परमे वक्ष्येते ।
विर्वचने-सुद्ध्युपास्यः । स्थानिवद्भावनिषेधसामा देव बहिरका परिभाषापीह न प्रवर्तते । "नाजानन्तर्ये" (प०मा०५१) इति निषेधाद्वा।
घरे इति निपातनादलुक् द्वन्दश्च । वरे योऽजादेशः स न स्थानि यत् । यायावरः । यातेः "नित्यं कौटिल्ये" (पा०९०३-१-२३) इति यङ् "यश्च यङः' (पा०स०३-२-१७६) इति वरच् तनिमित्तकोऽतो लो. पः। स च "आतो लोप इटि च" (पासू०६-५-६४) इत्यालोपे कर्तव्ये न स्थानिवत् । नन्विह परनिमित्तकत्वमेव नास्ति, आर्द्धधातुके इति विषयसप्तम्यभ्युपगमात् । अत एव हि "अचो यत्" (पासू०३-१-९७) इति सूत्रऽग्रहणं कृतम्। अन्यथा हलन्ताण्ण्यतो विशेषविहिततया प. रिशेषादच एव यद्भविष्यति किं तेन ? विषयसप्तम्यां तु 'दित्स्यम्"धि. त्स्यम्' इत्यादावजन्तभूतपूर्वादपि यतिसमये अग्रहणमिति "यतोऽना. वः" (पा०सू०६-१-२१३) इत्याधुदात्तस्सिध्यति । सत्यम् , घरेप्रहणेन परसप्तमीपक्षो ज्ञाप्यते । तथा च "अनुदात्ततश्च हलादेः" (पासू०३२-१४९) इति सूत्रे आदिग्रहणं कृतम्-हलन्तादिति मा विशायीति । अस्ति च हलन्तविशेषणस्य व्यावत्यै 'जुगुप्सनः' 'मीमांसनः' इति । विषयसप्तमीस्वेविहापि अतोलोप हलन्तत्वाधुचा भाव्यमेवेति हलन्तविशेषणवैयात्सामदेिवादिपरिग्रहसिखौ हल इत्येव ब्रूयात् । एवश यातेर्यजन्तात् क्तिचि अतो लोपे यलोपविधि प्रति स्थानिवत्त्वनिषेधा. घलोपे च 'याया' इति स्थिते यङकारलोपस्य स्थानिवत्त्वाद् "आतो लोप हीट च" (पा००६-४-६४) इत्याकारलोपे पुनर्यलोपे यातिरिति भवति । न च पुनराकारयकारयोलोपे सति किच्प्रत्ययमात्रं धूयतेति वाच्यम् , आल्लोपस्य स्थानिवत्वात् चिणोलुब्न्यायनासिद्धत्वाहा ।
यलोपे उदाहरणान्तरमपि । तद्यथा-कण्यतेः किच-कण्इतिः।