SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ हदकौस्तुभप्रथमाध्यायप्रथमपादअपमाहिकेएकान्तपक्षेऽप्यन्तरङ्गेण लोपेनादेशसम्बन्धात्प्रागेवानुबन्धानामपहा. रात् "न ल्यपि" (पा०सू०६-४-६९) इति लिङ्गाच्च । यत्तु "सह पि. " (पा०स०३-४-८७) इति ज्ञापकमुच्यते, तत्पाक्षिकम् , अपिवचनसा. मास्थानेऽन्तरतमपरिभाषया प्राप्तमनुदात्तत्वं न भवतीत्यस्यापि सुवचत्वात् । यद्यपि 'सामान्यातिदेशे विशेषानतिदेशः' इति सिद्धा. म्तः, उपस्थितसामान्यप्रयुक्तधर्मस्तदाक्षिप्तव्यापकसामान्यधर्मश्च घि. ध्याकाङ्क्षापूरणे सत्यनुपस्थितस्य. विशेषस्य ग्रहणे प्रमाणा. भावात । अत एव 'ब्राह्मणवदस्मिन् क्षत्रिये वर्तितव्यम्' इत्युक्के माठ. रादिविशेषकार्य नातिदिश्यते। अत एव च "माशंसायां भूतपञ्च"(पा० सू०३-३-१३२) इत्यत्र भूतसामान्ये विहितयोलुनिष्ठयोरेवातिदेशो न तु भूतविशेषे विहितयोलड्लिटोरपीति सिद्धान्तः । तथापीह सूत्रे "न ल्यपि" (पासू०६-४-६९) इति लिङ्गाद्विशेषोऽप्यतिदिश्यते। किति पर. तो विहितमित्वं निषेधुं हि "न ल्यपि" (पा०स०६-४-६९) इत्यारभ्यते । कित्यश्च त्वाविशेषधर्मः, सेटके तदभावात् । तेन 'प्रदीव्य' इ. त्यादिसिद्धम् । तस्मात् “न ल्यपि" (पा०सू०६-४-६९) इत्येव सूत्रं विशेषातिदेशेऽनुबन्धकार्यातिदेशे चेत्युभयत्रापि सापकमिति स्थितम् । यतु प्राञ्चः-"अनल्विधौ' (पा०स०१-१-५६) इति निषेधो विशेषा तिदेशज्ञापक इति । तच्चिन्त्यम् , 'व्यूढोरस्केन' 'क इष्टः' इत्यादौ वि. सर्गत्वस्य यण्त्वस्य च व्यापकीभूतयोरट्वहशत्वयोनिषेधेन चरिता र्थवात । यदी स्वादेशे कृत्वप्रत्ययत्वाद्यतिदेशमभ्युपेत्य 'क इष्टः' इत्यादी हशत्वादिविशेषातिदेशो न प्राप्नोतीति मित्रैरुक्तम् । तत्र वि सर्गत्वयणत्वयोरट्वहरत्वे कथं विशेषधर्माविति विपश्चित एव वि. दावन्तु । यद्यपि तत्स्थानापन्नस्तद्धर्म लभते इति न्यायसिद्धम् । अत एव ब्रीहिस्थानापनेषु नीवारेषु वचनं विनैव व्रीहिधर्मा अवघाता. दयः क्रियन्ते । तथापि तेषां प्रकृतापूर्वसाधनत्वप्रयुक्ततया युक्तं नीवारा. दावनुष्ठानम् । "आङो यमहनः' (पा०सू०१-३-२८) इति हन्तरात्मनेपदं तु न हिंसाद्यर्थाभिधानप्रयुक्तं येन वधौ भवेत् । किन्तु "स्वं रूपम्" (पा०सू०१-१-६८) इतिवचनात्स्वरूपविशेषप्रयुकम् । अत एव 'अतृणे. ड्' इत्यादौ न भवति । तस्माद्युक्त एवातिदेशारम्भः। स्यादेतत् । मा भून्न्यायेन गतार्थता, ज्ञापकानु भविष्यति । त. शाहि, “युष्मदस्मदोरनादेशे' (पासू०७-२-८६) इति सूत्रेऽनादेशग्रहणं सापयति,-आदेशः स्थानिवत्स्यादिति । “अदो जग्धिः" (पासू०२.४-३६) इति सूत्रे तिकितीत्येव सिद्धे ल्यवग्रहणमनलिवधावितीममंशं
SR No.023083
Book TitleShabda Kaustubh Part 01
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy