________________
विधिशेषप्रकरणे अव्ययसंज्ञाप्रकरणम् ।
१७५
यद्वा, यस्मान्न व्येति तस्मादव्ययमिति । त्रिषु लिङ्गेषु सदृशं लिङ्गविशेषप्रतिपादने सामर्थ्याभावादिति भावः । विभक्तिषु कारकेषु वचनेषु चैकत्वादिसंख्यास्वव्ययभावस्य यद्यपि लिङ्गकारक संख्यायोगोऽस्ति तथापि वचनादव्ययत्वम् ।
अथ स्वरादयः
स्वरिति स्वर्गपरलोकयोः । स्वर्गे - छायैव या स्वर्जलधेर्जलेषु । ( मा०तृ०३५) । परलोके - "स्वर्यातस्य ह्यपुत्रस्य" इति ।
-
अन्तरिति मध्ये | अन्तर्वापश्चिरमनुचरः । (मे०पू०३) प्रातरिति प्रत्युषे । प्रातः संध्यामुपासीत ।
एते त्रयोऽन्तोदात्ता इति काशिका । तश्चिन्त्यं, स्वः शब्दस्य स्वरि• तत्वात् । तथा च फिट्स्त्रम् - "न्यस्वरौ स्वरितौ” (फि०सु०४-७४) इति । प्रयोगश्च - "अन्तरिक्षमथो स्वः” । यत्तु प्रातःशब्द आद्युदान्त इति कश्चित् । तन्न, "प्रातरग्नि प्रातरिन्द्र हवामहे” इत्यादावन्तोदात्तस्यैव प्रसिद्धतरत्वात् ।
पुनरित्याद्युदात्तोऽप्रथमे विशेषे च । अप्रथमे पुनरुक्तम् । विशेषे किं पुनर्ब्राह्मणाः पुण्याः ।
सनुतरित्यन्तर्द्धाने । सनुतश्चोरो गच्छति ।
I
उच्चैरिति महति । नीचैरित्यल्पे । शनैरिति कियामान्छे । ऋधगिति सत्ये | वियोगशीघ्र सामीप्यलाघवेष्वित्यन्ये । ऋते इति वर्जने । युगपदित्येककाले । आराद् दूरसमीपयोः । पृथगिति भिन्ने ।
एते सनुतर्प्रभृतयो नवान्तोदात्ता इति काशिका । " शनैश्चिद्यन्तो अद्रिवः" "ऋधगित्था समर्त्यः" इत्यत्र तु शनैर्ऋधक्शब्दावाद्युदाचौ प्रयुज्यते ।
ह्यसिति अतीतेऽह्नि । श्वोऽनागतेऽह्नि । दिवेति दिवसे । रात्राविति निशि । सायमिति निशामुखे । चिरमिति बहुकाले । मनागिति ईषदर्थे । ईषदित्यल्पे | जोषमिति सुखमौनयोः । तूष्णीमिति मौने । बहिस् अवस् इत्येतौ बाह्ये |
समयेति समीपे | मध्ये च ग्रामं समया ।
I
निकषत्यन्तिके । विलङ्घ्य लङ्कां निकषा हनिष्यति । स्वयमित्यात्मनेत्यर्थे । स्वयं कृतम् ।
वृथेति व्यर्थे । नक्तमिति रात्रौ । नञिति निषधे । हेताविति निमि• सार्थे । इद्धति प्राकाश्ये । अद्धेति स्फुटावधारणयोः । तत्त्वाविशय योरि