SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ विधिशेषप्रकरणे अतिदेशप्रकरणम् । सूत्रमेतत्प्रत्याचल्यो। आह च-"अपूर्वानुत्तरलक्षणत्वावाद्यन्तयोः लि. मेकस्मिन्" इति । भाष्यकारस्तु नैतन्मेने, सत्यन्यस्मिन्निति विशेषणप्रक्षेपप्रयुक्तस्य गौरवस्य प्रामाणिकत्वात् । लोके ह्ययमादिरन्तो वेत्युकेऽवशिष्टमपि किञ्चिदस्तीति नियमेन प्रतीयन्ति । पदानियतोपस्थितिश्च शक्तिसा. ध्या । अनुभवमपलप्यैकदेशमाने शक्तिकल्पने तु श्वशुरादिपदानामपि लाघवाद्भार्यात्वमा पितृत्वमात्रं तद्धटकपुंस्त्वमा वा शक्यतावच्छेदकं स्यादिति विशिष्टविषयकशक्त्युच्छेदेन सकलशिष्टव्यवहारव्याकोपः स्यादिति । नन्वेवमपि व्यपदेशिवद्वचनं कर्तव्यमेव, 'इयाय' 'आर' इ. त्यादी धात्ववयवत्वं प्राथम्यमेकाच्वं चाश्रित्य द्वित्वं यथा स्यात । एकाच इति हि बहुव्रीहिरिति वक्ष्यते । न चेणो वृद्धायादेशयारत्तेश्व वृद्धौरपरत्वे च कृते आय आर् इत्यनयोरेकान्त्वं पचादेरिव मुख्यमेवा. स्तीति वाच्यम् , "द्विर्वचनेऽचि" (पा०सू०१-१-५९) इति रूपातिदेशेन इअनयोरेव द्विरुक्तः। किञ्च यजेः पञ्चमलकारे 'स देवान् यक्षदिषितो यजीयानि' इत्यादौ "सिब्बहुलं .लेटि" (पासू०३-१-३४) इति सिप् । तस्य षत्वं व्यपदेशिवद्भावनैव साध्यं, प्रत्ययस्य यः सकार. स्तस्य षत्वमिति सिद्धान्तात्। तस्माद् "व्यपदेशिवदकस्मिन्" (५०मा० ३२) इत्येव सूयतां किं प्रकृतसूत्रेण? व्यपदेशो नाम विशिष्टो मुख्योऽप. देशो व्यवहार एकाच इत्यादिः सोऽस्यास्तीति व्यपदेशी, पचिप्रभृति. स्तस्मिनिवासहायेऽपि कार्य स्थादित्यर्थः । अत्राह भाष्यकार: "अव चनालोकविज्ञानासिद्धम्" इति । वचन निरपेक्षाल्लोकव्यवहारादेव व्य. पदेशिवद्भावसिद्धराद्यन्तवदिति व्यपदेशिवदिति चोभयमपि न सत्र. यितव्यमित्यर्थः । अस्ति हि लोके निरूढोऽयं व्यवहारोऽयमेव में ज्येष्ठः पुत्रोऽयमेव मध्यमोऽयमेव कनिष्ठ इति । तथा असूतायामसोध्यमाणायां च प्रथमगर्भेण हतेति व्यवहरन्ति । तथा पूर्वमनागतोऽग्रेऽनपजेगः मिषुश्वाहं इदं मे प्रथममागमनमिति । ननु सबै इमे गौणा व्यवहारा. स्तत्कथं मुख्य चरितार्थ शास्त्रं गौणे प्रवत्तेति चेत ? न, निमढवर. तया गौणस्याप्यस्य मुख्यसमकक्षत्वात् , हापकाच्च । यदयम् "इट इटि" (पासू०८-२-२८ इति) सिचो लोपं शास्ति तापयंति व्यपदे. शिवदेकस्मित्रिति । न हन्यथेट लभ्यते । वल्रूपत्वेऽपि पलादित्वविर. हात् । तथा "दीर्घ इणः किति" (पासू०७-४-६७ ) इत्यादीन्यपि शाप. कानि । न हि व्यपदेशिवगावं विना इणोभ्यासो लभ्यते इति दिक। यतकं कैपटेन-अर्थषता व्यपदेशिवडावास्कुरुत इत्यादी तय..
SR No.023083
Book TitleShabda Kaustubh Part 01
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy