SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १४० शब्दकौस्तुभप्रथमाध्यायप्रथमपादपश्चमाह्निके लुप्तविभक्तिक एवेति वचनात्तदन्तविधिरिति स्थितम् । ननूक्तरीत्या. ऽस्तु सरसीशब्दः, सरस्शब्दोऽपि सान्तो निर्विवाद एव । तथाच सान्तादेवेकारादेशोऽयमस्तु । एवं हि सति संक्षाविधौ शापकास्यक्तस्य तदन्तग्रहणस्य पुनराश्रयणं न कर्त्तव्यं भवतीति चेत् ? न, तथा सती. कारस्य सुप्त्वनानुदात्ततया सरः शब्दस्य च सृधातोरसुनि व्युत्पादि. तस्य नित्स्वरेण सरसीति पदमादयुदात्तं प्रसज्येत । गौरादिषु "पिप्प. ल्यादयश्च" - ( कावा. ) इति पाठापिप्पल्याद्यन्तःपातिनः सरः. शब्दान्ङीषा त्वन्तोदात्तमिष्यते । तथैव वेदे पाठात । एवन्तर्हि प्रगृह्य. संशाप्रकरणे प्रत्ययलक्षणं नास्तीति ज्ञापनायेदमर्थग्रहणमस्तु । एवञ्च "इदूदेद् द्विवचनम् (पा०सू०१-१-११) इति सूत्रे ईदूदेदन्तं द्विवचना. न्तमिति पक्षे इंदूदेदन्तं याहि वचनं तदन्तमिति पक्षश्व समर्थितो भवति । तत्र हि कुमार्योरगारं कुमार्यगारम, अशुक्ले शुक्ले सम्पद्यतां शुक्ल्यास्तां वस्त्रे इत्यत्रातिव्याप्तिरिति दोषः । स च प्रत्ययलक्षणविरहादेवो. द्धत इत्याह-बारकमिति । प्रगृह्यसंशाप्रकरणे प्रत्ययलक्षणाभावस्यति शेषः । केदं छापनमुपयुज्यते, तदाह-तदन्तत्व इति । तदन्तगर्ने पक्ष. द्वयेऽपीत्यर्थः । ननु संक्षाविधौ प्रत्ययग्रहणे तदन्तविधेरभावादेख तदन्तपक्षस्तत्र न स्थित इत्यपरितोषादाह-मा वेति 'वाप्यश्वः' इत्यादी मा भूदित्यर्थः। ___ अत्रेदमवधेयम्, "अवितृस्तृतस्बिा (उ०स०३-४४६) इति 8. प्रादीरित्यनुवर्तमाने “यापोः किं च"(उ०सू०३-४४७) "वातप्रमीः"(उ० १०४-४९) इति सूत्राभ्यां शब्दत्रयं व्युत्पादितम्। यान्त्यनेनेति ययी. मुक्तिमार्गः । पिबति रसान्पाति वा लोकमिति पपीः सूर्यः वातं प्रमि. भीते सम्मुखधावनादिति वातप्रमीः निःशृङ्गो मृगाकृतिर्वातमृगनामा पशुविशेषः । एम्यस्त्रिभ्योऽपि ङौ सवर्णदीर्घात् 'पपी' 'ययी' 'वातप्रमी' इति रूपं निर्विवादम् । तथाचेह श्रूयमाणस्यकारस्य सप्तमीत्वात् 'तत्रापि सरसी यदित्य सङ्गतम्, ईकारस्य श्रूयमाणस्यासम्भवात् । सामर्थ्याचदन्तविधिर्भविष्यतीत्यस्यार्थः। तस्मादकारांशे सामर्थ्या. तदन्तविधौ लब्धे 'सोमो गौरी' इत्यादावपि भावेष्यतीत्याशयः । 'ययी आसकः' इत्यादौ तु भाव्यमेव प्रकृतिभावेन । न चायं योग छान्दस. स्तथाविधानामेवोदाहरणानां दत्तत्वादिति वाच्यम्, मुनित्रयोति वि. नाऽस्मदिच्छया छान्दसत्वकल्पनेऽतिप्रसङ्गात्, लोके प्रगृह्यत्वं न भवतीत्यस्मिन्न प्रमाणानुपलम्भाव, अप्रतिषिद्मनुमतं भवति', इति. न्यायेन लोके 'ययी' 'पपी' 'वातप्रमी' इत्येतेषां प्रगृह्यत्वस्यैव म्याग्य
SR No.023083
Book TitleShabda Kaustubh Part 01
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy