________________
१२२ शब्दकौस्तुभप्रथमाध्यायप्रथमपादचतुर्थाहिकेपर्यालोचयेः १ नन्वेवं "तुल्यास्यप्रयत्न" (पासू०१-१-९) "नाज्झली" (पा०सु०१-१-१०) इत्यादौ "अकः सवर्ण दीर्घः" (पासू०६-१-१०१) इति दीर्घोऽपि न प्रवर्त्ततेति चेत् १ न, सवर्णसंशाधुत्तरकाले प्रवर्तमानस्य दीर्घशास्त्रस्य दण्डाढकादाविवेहाप्यप्रतिबद्धप्रवृत्तिकत्वात, उद्देश्यतावच्छेदकरूपाक्रान्तत्वाविशेषात् । न च सवर्णदीर्घविधानात्प्रागेत. त्सुत्रार्थबोधानुपपत्तिरिति वाच्यम्, पदार्थोपस्थितिप्रभृतिसामग्री. सम्पत्ती सत्यां साधुत्वबोधकवाक्यार्थज्ञानविलम्बन शाब्दबोधे वि. लम्बादर्शनात् । अन्यथा व्याकरणशास्त्रपरिशीलनविकलानां वापि शाब्दबोधो न स्यात् । तथा वैयाकरणानामपि व्याकरणसूत्रघटकश ब्देषु व्याकरणादव साधुत्वबोधे तदुत्तरकाले च वाक्यार्थावगतावा. त्माश्रयान्योन्याश्रयचक्रकाणां दुर्वारत्वादिति दिक् ।
साधुत्वज्ञानं तु न शाब्दबोधहेतुः । अस्तु वाभियुक्तवाक्यत्वेन साधुत्वानुमतिः, ततः शब्दबोधे जाते लक्ष्यान्तरोग्विव लक्षणवाक्या. न्तर्गतेष्वपि लक्षणप्रवृत्तिरिति दिक् ।
निक वस्तुतस्तु शरां परस्परं सावर्ण्यनिषेधे सत्यपि न क्षतिः। परः शतादिषु हि रूपवयं सिद्धान्तेऽतीप्यते । शतात्पराणीति विग्रहे "क. र्तृकरणे कृता बहुलम्" (पासू०२-१-३२) इति बहुलवचनाद्वा "सु. प्सुपा" (पा०सू०२-१-४) इति वा समासे कृते पारस्करादित्वात्सुटि सकारस्य श्चुत्वम् । ततः "अनचि च" (पा०स०८-४-४७) इति द्विर्ष. चनम् । ननु "शरोऽचि" (पासू०८ ४-४९) इति "अनचि" (पा० सू०८-४-४७) इति वा द्वित्वनिषेधोऽस्त्विति चेत? न, तत्र "नाज्झलौ" (पा०९०१-१-१०) इति निषेधादिकारेण शकाराग्रहणात् । ततो "झरो झरि" (पा००८-४-६५) इति लोपविकल्पाद् द्विशकारं त्रिशकारं वा रूपमिति सावर्ण्यनिषेधेऽपि सिध्यत्येवेदं रूपद्वयम , "अनचि च" (पा०सु०८-४-४७) इति द्वित्वस्यापि वैकल्पिकत्वात । तत्र द्वित्वस्य वैकल्पिकत्वं “यरोनुनासिकेऽनुनासिको वा" (पा०स०८-४-४५) इत्यतो वेत्यनुवर्तनात "सर्वत्र शाकल्यस्य" (पा००८-४-५१) इति पाक्षिकनिषेधाद्वा । लोपस्य वैकल्पिकत्वं तु "झयो होऽन्यतरस्याम" (पासु० ८-४-६२) इत्यतोऽन्यतरस्यांग्रहणानुवृत्तरित्यवधेयम् । तस्मात्सावये सत्यसति वा 'परशताः' इति द्विशकारकत्रिशकारकरूपयोरविशेषः ।
परश्शताधास्ते येषां परा संख्या शतादिकात् । (अ०को०३-१-६४)
इत्यमरः । एवं 'रामषष्ठः' 'यशस्सारम्' इत्यादावपि । अत एव भाग्ये-"अपर माह" इत्युपक्रम्य वार्षिकद्वयमप्येकहेतुतया व्याख्याय