SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ १०६ शब्दकौस्तुभप्रथमाध्यायप्रथमपादचतुर्थाहिकेमाना वृद्धिर्न प्रवर्तते । 'चिनुयुः' इति तु प्राग्वदेव समर्थनीयम् । पूर्वा. दाहृतवार्तिकमते तु 'ब्रूतात्' इत्यत्रेट प्राप्नोति । "आगमशासनमानत्यम्" इति तु कथं चित्समाधेयः। वस्तुतस्तु "हलः श्न: शानज्झौ' (पा०स०३-१-८३) इति शानचः शित्करणेन "कचिदनुबन्धकार्येप्यन. विधाविति निषेधः प्रवर्तते" इति झाप्यते । तेन 'ब्रूतात्' इत्यादौ न कश्चिदोष इति । अत एव भाज्यमते 'भविर्षाष्ट' इत्यत्र जिवन 'करिः प्यमाणा' इत्यत्रोगिल्लक्षणटिल्लक्षणश्च डीन्नेति दिक् । दीधीवेवीटाम् (पासू०१-१-६) । दाधीवेव्योरिटश्च गुणवृद्धी न स्तः । आदीध्यनम् , आदीध्यकः । आवेन्यनम् आवेव्यकः । अकाणषम् । अरणिषम् । कणिता श्वो रणिता श्वः । इहामं प्रति सिजन्तमजम् । तिपो डादेशं प्रति तु 'कणित् ' 'रणित् ' इति तान्तमङ्गं, तस्यामं डादेशं च सार्वधातुकं निमित्तीकृत्य लघूपधगुणः प्राप्तोऽनेन निषिध्यते । वृद्धिस्त्विटो न सम्भवत्येव । लुडन्ततां स्फोटयितुं श्व इत्यस्य प्रयोगः । न हि तृजन्ते तृषन्ते वेटो गुणप्राप्तिः प्रत्ययावयवत्वात्तस्य । अथ "दीङ् क्षये" (धा सू०२८ ) "धी अनादरे" (धासू०३०) "वेम् त. न्तुसन्ताने" (धा०सू०१०३१ ) "वी गत्यादिषु" (धासू०३८)ते. षामिह ग्रहणं कुतो नेति चेत् ? न, अवयवप्रसिद्धपेक्षया समुदायप्र. सिद्धर्बलवत्वात् । किञ्च चतुर्णा प्रहणेऽभिप्रेतेऽसन्देहार्थे “दीवेधीवी. टाम्' इत्येव ब्रूयात् । इट् चात्रागम एव गृह्यते न "इट् गतौ" (धासू० ३१९) इति धातुः । ननु धातुसाहचर्याद्धातुरेव गृह्यताम । मैवम् , सा. हचर्यस्य सर्वत्रानियामकत्वात् । अभ्यथा "द्विस्त्रिश्चतुरिति कृत्वोर्थे" (पासू०८।३।४३) इति सूत्रे छत्वोर्थग्रहणं न कुर्यात् , द्विस्त्रिरिति सुज. न्ताभ्यां साहचर्येण चतुरित्यस्यापि सुजन्तस्य ग्रहणसम्भवात् । अत एवागमापेक्षया प्रकृतेरभ्यर्हितत्वाहीधीङः पूर्वनिपातः सूत्रे कृतः।टोऽपि धातुन्वे तु प्रकृतित्वाविशेषेऽप्यल्पाच्तरत्वात्तस्यैव पूर्वनिपातः स्यात् । अत्रेदमवधेयम् , 'दीध्यकः' 'वेव्यकः' इति यदुदाहृतं तहीधीवेवीभ्यां शुद्धाभ्यामेव ण्वुलि रूपं न तु ण्यन्ताभ्यामपि । यत्तु “योवर्णयो।' (पासू०७-४-५३) इति सूत्रे हरदत्तेनोक्तम्-वर्णशब्दो "वर्ण विस्तारें। (धा०सू०४०६) इतिधातोः पचाद्यजन्तः, धूयमाण एव वणे यथा स्याल्लुते मा भृदित्येवमर्थः। तेन ण्यन्ताभ्यां वुलि णिलापस्य पूर्ववि. धौ स्थानिवत्त्वपि भूयमाणत्वाभावाल्लोपाभावे यणि कृते 'दीध्यकः' 'वे. व्यकः' इत्येव शुद्धन समानाकारं रूपं भवतीति, तदेतत "नाग्लोपिशा. स्वृदिताम्" (पा०९०७-४-२) इत्येतस्मिन्सूत्रे भाष्यकारैरेव प्यन्तस्य
SR No.023083
Book TitleShabda Kaustubh Part 01
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1991
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy