________________
यथा
परिच्छेदः].
रुचिराख्यया व्याख्यया समेतः । इत्यादावेकाधिकरण्येऽप्येष दृश्यते । न चात्र दीपकम् । एते हि गुणक्रियायोगपद्ये समुच्चयप्रकारा नियमेन कार्यकारणकालनियमविपर्ययरूपातिशयोक्तिमूलाः। दीपकस्य चातिशयोक्तिमूलत्वाभावः।
१७४ समाधिः सुकरे कार्ये दैवावस्त्वन्तरागमात् । 'मानमस्या निराकर्नु पादयो, पतिष्यतः । उपकाराय दिष्टयेदमुदीर्ण घनगर्जितम् ॥ २७८॥' १७५ प्रत्यनीकमशक्तेन प्रतीकारे रिपोर्यदि ॥ १३९ ॥
तदीयस्य तिरस्कारस्तस्यैवोत्कर्षसाधकः । तस्यैव रिपोरेव । यथामम--
'मध्येन तनुमध्या मे मध्यं जितवतीत्ययम्। इभकुम्भौ भिनत्त्यस्याः कुचकुम्भनिभी हरिः२७९' नरेन्द्र ! देवान् कुरुते हताहितान् भवान खलास्तान्नयति खरजसा ॥ इति शेषः । अत्रैक एवास्यादीनो धूननादिकर्ता। वंशस्थं छन्दः, तल्लक्षणं चोकं प्राक् ॥' -
एवमयं सामानाधिकरण्येऽपि सम्भवतीति निर्दिशनलङ्कारान्तरसंशयमपाकरोति-इत्यादौ । एकाधिकरण्ये । अपि । एष समुच्चयः । दृश्यते । अत्र।चोदीपकम् । न 'शङ्कय मिति शेषः । हि यतः । एते उदाहृतस्वरूपाः । समुच्चयप्रकाराः समुच्चयभेदाः। नियमेन । गुणक्रियायोगपद्ये गुणक्रियाश्च गुणक्रियाश्चेति गुणक्रियास्तासां योगपर्व तस्मिन्सतीति भावः । कार्यकारणकालनियमविपर्ययरूपातिशयोक्तिमूलाः कार्यकारणयोः कालनियमः पौर्वापथ्यं तस्य विपर्ययो योगपद्यम् ( आरोपितमेककालभवत्वं ) एव रूपं यस्याः साऽसावतिशयोक्तिरिति, सा मुलं यस्यास्तथोक्ता । दीपकस्य । च। अतिशयोक्तिमूलत्वाभावोऽतिशयोक्तिर्मूलं यस्य तस्य भावस्तत्वं तस्याभावः।
समाधि लक्षयति-१७४ दैवादकस्मात् । वस्त्वन्तरागमादन्यद्वस्तुकारणरूपः पदार्थ इति वस्त्वन्तरं तस्यागम उपस्थितिस्तस्मात् । कार्ये । सुकरे सुसाध्ये सतीत्यर्थः । समाधिः समाधीयते सुकरत्वेनाधीयते क्रियते इति तथोकः तन्नामाऽलङ्कार इत्यर्थः । एककारणजन्यस्य कार्यस्याकस्मिकोपस्थितिकेनान्येन कारणेन समवधानाहितं सौकयं समा. धिर्नामालङ्कार इति भावः । 'उपसर्गे घो: किः । ३।३। ९२ इति किः।
उदाहरति-यथा-अस्या मानिन्याः प्रियाया इत्यर्थः । मानं क्रोधम् । निराकर्तुम् । पादयोः। पति. प्यतः। मे मम । उपकाराय । दिष्टया भद्रम् । इदम् । घनगर्जितं मेघगर्जनम् । उदीर्णमुद्भूतम् । मानभङ्गे घनगर्जितस्य कामोद्दीपकत्वेन सहायकत्वमित्यस्य पादपतनेन तन्निराकरणावसरे उपस्थित्या मानभङ्गसाध्यत्वं समाहितम् । सखायं प्रति कस्याप्युक्तिरियम् ॥ २७८॥'
प्रत्यनीकं लक्षयति-१७५ यदि रिपोः शत्रोः । प्रतीकारेऽपाकरणे मर्दन इति यावत् । अशक्तेनासमथेन केनापि जनेनेत्यर्थः । तस्य रिपोः । एवं । उत्कर्षबाधक उत्कर्षकः । तदीयस्य रिपुसम्बन्धिनः । तिरस्कारस्तिरस्करणम् । प्रत्यनीकं तदाख्योऽलङ्कार इत्यर्थः । तथाऽऽहुः 'बलिनः प्रतिपक्षस्य प्रतीकारे सुदुष्करे । यस्तदीयस्तिरस्कारः प्रत्यनीकं तदुच्यते॥' इति ॥ १३९ ॥
तदेव विवृणोति-तस्यैवेत्यादिना । स्पष्टम् । उदाहरति-यथा । मम-'तनुमध्या तनु कृशं मध्यमुदरं यस्यास्तथोक्ता । मे मम ( सिंहस्य ) । मध्यमुदरम् ( कर्म )। मध्येन ( कृशेन मध्येन ) । जितवती (सिंहोदरापेक्षया कान्ताया उदरकाश्यमधिकं सम्भाव्येदमुद्भाव्यते)। इतीत्यस्मात् कारणादित्यर्थः । अयम् । हरिः सिंहः । अस्याः कुशोदUः । कुचकुम्भनिभौ कुचावेव कुम्भौ तयोर्निभौ सदृशाविति तौ तथोक्तौ। इभकुम्भौ इभस्य हस्तिनः कुम्भौ गण्डौ तौ। भिनत्ति विदारयति । अत्र मध्यजयित्वेन प्रमदारूपस्य शत्रोः प्रतिकाराक्षमण सिंहेन प्रमदारूपस्य शत्रोरेवौपम्येनोत्कर्षप्रत्यायकः कुचसदृशकुम्भतया शत्रसम्बन्धित्वेन सम्भावितस्य हस्तिनः कुम्भभेदनेन तिरस्कारो विहितः । यथा वा-'रेरे मनो मम मनोभवशातनस्य पादाम्बुजद्वयमनारतमानमन्तम् । किम्मां निपातयसि