________________
परिच्छेदः ।
रुचिराख्यया व्याख्यया समेतः । 'किमाराध्य ? सदा पुण्वं, कश्च सेव्यः? सदागमः।
को ध्येयो ? भगवान् विष्णुः, किं काम्यं ? परमं पदम् ॥ २६७ ॥' अत्र व्यवच्छेद्यं पापादि आर्थम । अनयोः प्रश्नपूर्वकत्वम्। अप्रश्नपूर्वकत्वे यथा--
'भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्ने । चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम् ॥ २६८॥ 'बळमार्तभयोपशान्तये विदुषां सम्मतये बहु श्रुतम् ।
वसु तस्य न केवलं विभोर्गुणवत्ताऽपि परप्रयोजनम् ॥ २६९ ॥ श्लेषमूलत्वे चास्य वैचित्र्यविशेषो यथा'यस्मिंश्च राजनि जितजगति पालयति महीं चित्रकर्मसु वर्णसङ्करा,श्चापेषु गुणेच्छेदाः.'इत्यादि।
१७० उत्तरं प्रश्नस्योत्तरादुन्नयो यदि ॥ १३५ ॥
.. यच्चासकृदसम्भाव्यं सत्यपि प्रश्न उत्तरम् ॥ व्यपोह्यम् । इदं तत्त्वम्-यशःप्रभृतेर्भूषणत्वमागमादिना विदितचरमेवेति न तद्वदनायेदमभिधानम् , अपि तु-तदभिन्नस्य भूषणत्वादिव्यपोहनार्थमिति परिसइख्येयम् । इति ।
'आराध्यम् । किम् ? (इति प्रश्ने)। सदाऽहर्निशम् । अत एव 'कायेन वाचा मनसेन्द्रियैर्वेति शेषः । पुण्यं परोपकारादि 'आराध्य'मिति शेषः (इत्युत्तरम् )। सेव्यः । च । कः ( इति प्रश्ने )। सदागमः सतां महात्मनामागमः सम्मेलनम् । यद्वा-सन् भागवतचरितपरलया श्रेष्ठ आगमः श्रीमद्भागवतादि शास्त्रम् । 'सेव्य' मिति शेषः (इत्युत्तरम्) । ध्येयः स्मरणीयः । कः (इति प्रश्न)। भगवान् । विष्णुः । 'ध्येय'इति शेषः ( इत्युत्तरम् )। काम्यमभिलषणीयम् । किम् । परमं तद्विष्णोः परमं पद ॐ सदा पश्यन्ति सूरयः' इत्याद्युक्तम् । पदं स्थानम्
किम् । परमात प्रश्ने )। भामद्भागवतादि शाखदागमः सतां महाय
(इत्युत्तरम् )
व्यवच्छेद्यं निर्दिशति-अत्रेत्यादिना । आदिपदेन दुःसङ्गपरस्त्रीक्षुदसुखानां ग्रहणम् । स्पष्टमन्यत् । एवं प्रश्नपूर्व कत्वेनोदाहृत्यान्यथोदाहर्तुमाह-अनयोरित्यादि । स्पष्टम् । 'भवे शङ्करे । 'व्योमकेशो भवो भीम' इत्यमरः । भक्तिः प्रेम । विभवे सम्पत्तौ । न । 'भक्ति' रिति शेषः । शास्त्रे वेदादौ । व्यसनं चिन्तनुरागः । युवतिका. मास्त्रे युवतिरेव कामास्त्रं तत्र तच्चिन्तने इति यावत् । न । 'व्यसन'मिति शेषः । यशसि तदुपार्जन इति भावः । चिन्ता। वपुषि शरीरे तद्रक्षण इति यावत् । न 'चिन्ते'ति शेषः । प्रायः। महतां महात्मनाम् । परिदृश्यते । अत्र प्रश्नमन्तरैव भक्त्यादेरन्याधिकरणत्वं व्यवच्छेद्यम् । आख्छन्दः ॥ २६८ ।' ___'आर्तभयोपशान्तये । बलम् । 'न परपीडनाये'ति शेषः । विदुषाम् । सम्मतये सम्यगुपकृतथे । बहु । श्रुतं शास्त्रं ' नतु विवादायेति शेषः । एक्स्-तस्य दशरथस्य । विभो राज्ञः । केवलम् । वसु धनम् । न । किन्तु-गुणवत्ता गुण (विद्याऽऽदि ) शालित्वम् । अपि । परप्रयोजनं तन्निमित्तमिति भावः । 'आसी'दिति शेषः । वैतालीयं वृत्तम् । अत्रापि 'किं तस्य बल'मित्यादिप्रश्नाभावः, अथ-'परपीडनाय नेत्यादिव्यवच्छेद्यमार्थमिति विशेषः ॥ २६९॥'
अस्य श्लेषमूलकत्वे वैचित्र्यमित्याह-श्लेषेत्यादिना । स्पष्टम् ।
उदाहरति-'यस्मिन् शूद्रके । च । राजनि । जितजगति जितं वशीकृतं जगत्संसारो येन तादृशे । महीं पृथिवीम् । पालयति । 'सती'ति शेषः । चित्रकर्मसु । वर्णसङ्करा वर्णानां पीतादीनां सङ्कराः । 'आस'निति शेषः। 'न प्रजासु वर्णानां ब्राह्मणादीनां स्त्रीपुरुषदोषतः सङ्करा मेलना' इति व्यपोह्योर्थः । चापेषु धनुःषु । गुणच्छेदा गुणस्य मौाः छेदाः 'आस'निति शेषः। 'न प्रजासु गुणानां माधुर्य्यादीना'मिति व्यपोह्योर्थः । ...' इत्यादि । . कादम्बा गद्यमिदम् । अत्र वर्णगुणादिपदाना श्लिष्टत्वम् ।
उत्तरं लक्षयति-१७०यदि । उत्तरात् । प्रश्नस्य । 'असत' इति शेषः । उन्नयः कल्पनम्। 'तदैक मिति शेषः । उत्तरम् । यत् । च । प्रश्ने । सति । अपि । असम्भाव्यं सम्भावयितुमशक्यम् । असकृत्पुनःपुनः । उत्तरम्।
३७