________________
पारच्छेदः ]
. रुचिराख्यया व्याख्यया समेतः। इति नसमासोक्तिबुद्धिं व्याहन्तुमीशः । यत्र तु रूप्यरूपकयोः सादृश्यमस्फुटं तत्रैकदेशान्तररूपणं विना तदसङ्गतं स्यादिति । शाब्दमप्येकदेशान्तररूपणमार्थमपेक्षत एवेति तत्रैकदेशविवर्ति रूपकमेव । यथा
'जस्त रणंतेउरए करे कुणंतस्त मंडलग्गलों ।
रससंमुही वि सहसा परम्मुही होइ रिउसेणी ॥ १८६ ॥” इति, अब रणान्तःपुरयोःसादृश्यमस्फुटमेवाक्वचिच्च यत्र स्फुटसादृश्यानामपि बहूनांरूपणंशाब्दमेकदेशस्य चार्थ तत्रैकदेशविवर्ति रूपकमेवरूपकप्रतीतेापितया समासोक्तिप्रतीतितिरोधायकत्वात् । व्यपेक्षाव्यवच्छेदः । इति शाब्दार्थयो रूपणयोः परस्परमनसेक्षित्वेनेति भावः । समासोक्तिबुद्धिम्। व्याहन्तुम् एकदेशविवर्तिरूपकनिश्चयं प्रतिपादयितुम् । न । ईशः । ननु 'लावण्यमधुभिरित्यत्रापि तत्समासोक्तिरेवास्तामित्याशङ्कयाह-यत्र लावण्यमधुभिरित्यादौ । तु। रूप्यरूपकयोः(यथा-लावण्यमधुनोः)। सादृश्यम् । अस्फुटम् । तत्र। एकदेशान्तररूपणमेकदेशान्तरं यस्मिन् शाब्दं रूपणं तदपेक्षयाऽऽर्थम् , यस्मिन् वांऽशे आथै तदपेक्षया शाब्दं रूपणमिति भावः । विना । तत् आर्थ शाब्दं वेति भावः । असङ्गतम् । स्यात् । इति'अत्र शाब्दार्थथोरन्योऽन्यं सापेक्षत्वेने ति शेषः । शान्दम् ( कर्तृ) एकदेशान्तररूपणं तदभिन्नम् । आर्थम् । अपि । अपेक्षते । एव । इति । तत्र'लावण्यमधुभिरित्यत्र । एकदेशविवर्तिरूपकम् । एव । अत्र 'यत्र तु रूप्यरूपकयोः सादृश्यमस्फुटं तत्रैकदेशान्तररूपणमार्थमपेक्षत एवेति तत्रैकदेशविवार्ति रूपकमेवेति पाठान्तरं सुगमम् ।। 'शाब्द'मित्यत्रा शाब्द'मिति त्वपपाठ एव, असङ्गतत्वापत्तः । अतः 'तिमिरांशुकयो रित्यत्रेव'लावण्यमधुभिरित्यत्र सादृश्यताया अनुपलम्भात् शाब्दार्थयोश्च परस्परमनपेक्षिताया असम्भवान समासोक्तिः किन्तु एकदेशविवार्ति रूपकमेव । अथ-'तिमिरांशुका'मिति पाठेऽपि सादृश्यस्फुटताया उपलम्भात् शान्दार्थयोश्च परस्परमनपेक्षित्वान्नैकदेशविवर्ति रूपकं, किन्तु समासोक्तिरेवेति भावः ।
एकदेशविवर्ति पुनरप्युदाहृत्य समासोकिं व्यवच्छिनत्ति-यथा-जस्लेत्यादि ।
'रणंतेउरए रणान्तःपुरे रणः ( सङ्ग्रामः) एवान्तःपुरं तत्र । करे पाणौ । मंडलग्गलअं मण्डलामलता मण्डलामः खड्ग एव लता ताम् । कौक्षेयको मण्डलानः करवाल: कृपाणवत् ।'इत्यमरः । कुणंतस्स कुर्वाणस्य । जस्स यस्य । रससंमुही रससंमुखी रस उत्साहोऽनुरागो वा तेन सम्मुखी। वि अपि । रिउसेणा रिपुसेना । परम्मुही पराङ्मुखी । सहसा । होइ भवति । अत्रा-छन्दः, तल्लक्षणं चोक्त प्राक् ॥'इति ॥ १८६ ॥'
हरणसङ्गतिसूचनाय रूपकहेतुं निर्दिशति-अत्रेत्यादिना । स्फुटम् । इदम्बोध्यम्-अत्रापाततः समासोतः प्रतीयमानत्वेऽपि सादृश्यास्फुटत्वेन शाब्दार्थयोरमपेक्षित्वेनैकदेशविवर्ति रूपकमेव । इति । अत्र विवृतिकाराः 'अत्र यद्यपि लिङ्गसाम्येन मण्डलाग्रलतायां नायिकाव्यवहारः, पराङ्मुखत्वकार्यसाम्येनापि रिपुसेनायां प्रतिनायिकाव्यवहारः प्रतीयते, तथाऽपि तदुभयं रणेऽन्तःपुररूपणस्यासङ्गतिप्रसङ्गसापेक्षमित्येकदेशविवर्ति रूपकमेवेदमिति भावः ।' इत्याहुः ।
ननूदाहृते पद्येऽस्फुटसादृश्यानां शाब्दरूपणभूयस्त्वं दृश्यते,तत् किं स्फुटसादृश्याना शाब्दरूपणभूयस्त्वे रूपणं सर्वथैव न सम्भवति? इत्याशङ्कय कचित्सम्भवतीत्याह-क्वचिच्चेत्यादिना । स्पष्टम् । अयम्भाष:-'विकसितसुरुचिरवदना परितो लावण्यवारिणा पूर्णा । शितधम्मिल्लमधुव्रतजुष्टा कान्तातरङ्गिणी जयति ॥' इत्यत्र स्फुटसाम्यानामपि लावण्यवा.
र्य्यादीनां रूप्यरूपकत्वं शाब्दं वदनारविन्दयोश्चार्थमिति "विकसितमुखी'मित्यादाविव समासोक्तिरिति सुक्चत्वेऽपि,अत्र कान्तायां तरङ्गिणीत्वारोपेण रूपकप्रतीत्या समासोक्तिबुद्धर्बाधः, तत्र पुनर्विशेष्ये शाब्दारोपस्याभावात् समासोक्तिरेव । एवं च-यत्र स्फटसादृश्याना शाब्दरूपणभूयस्त्वेऽपि विशेष्यपदार्थस्य न शाब्दं रूपणं तत्र समासोक्तिः, यत्र च विशेष्यपदार्थस्य शाब्दं रूपणं तत्रैकदेशान्तररूपणस्यार्थत्वेऽपि स्फुटसादृश्यानामन्येषां भूयप्ता शाब्दत्वेन रूपकमेव । अथास्फुटसादृश्यानां शाब्दरूपणभूयस्त्वेन विशेष्यपदार्थस्य शाब्दरूपणानालिङ्गितत्वे रूपकमिति स्थितम् । इति ।
१ 'यस्य रणान्तःपुरे करे कुर्वाणस्य मण्डलाग्रलताम् । रणसम्मुख्यपि सहसा पराङ्मुखी भवति रिपुसेना ॥' इति संस्कृतम् ।
३०