SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ २४५ खाहित्यदर्पणः। [दशमः'अत्र रागपदे श्लेषः। ___ 'सह कुमुदकदम्बैः काममुल्लासयन्तः सह धनतिमिरौधैर्धेर्यमुत्तारयन्तः। सह सरसिजपण्डैः स्वान्तमामीलयन्तः प्रतिदिशममृतांशोरंशवः सञ्चरन्ति ॥ १७८॥' इदम्मम । अत्रोल्लासादीनां सम्बन्धिभेदादेव भेदः, नतु श्लिष्टतया । उदाहार्य दर्शयति-अत्रेत्यादिना । स्पटम् । इदं तु बोध्यम्-'सहाधरदलेनास्या यौवने रागभाक् प्रियः । कान्तायाश्चोन्नतो जातः स्तनद्वन्द्वेन दर्पकः ॥' इत्यत्र पूर्वार्द्ध सहयोगे परत्र सहाथे तृतीया । 'रागभाक्' 'उन्नत'इति (पदं वस्तु वा ) च अधरप्रिययोः स्तनद्वन्द्वकामदेवयोश्वान्वयिरागभजनोन्नमनबोधकम् । तथा च-अधरदलप्रतियोगिकसाहित्यशाली प्रियः स्तनद्वन्द्वप्रतियोगिकसाहित्यशाली कन्दर्पश्च क्रमेण 'रागभाक' 'उन्नत'इति शाब्दबोधः । अथ-अधरदलवृत्तिरागभजनसमानकालभवसमानकालभवरागभजनवान् प्रिय इति, स्तनद्वन्द्ववृत्त्युन्नमनसमानकालभवसमानकालभवोन्नतिमान् कन्दर्प इति च मानसो बोधः । अत्र तृतीयाऽन्तस्य विशेषणतयाऽप्रधानत्वम् , प्रथमान्तस्य विशेष्यतया च प्रधानत्वम् । एवं च प्रथमान्ते रागभजनोन्नमनयोः शाब्दः, तृतीयान्ते सहार्थसामादार्थः । एवं पुरस्तादन्यत्र च । रागशब्दः श्लिष्टः, तेन-प्रेमलौहित्ययोरभेदारोपः, एवमुन्नतशब्दः श्लिष्टः, तेनोच्छितोद्धतत्वयोरभेदारोपः । इति । यथा वा-'बहु मन्यामहे राजन्न वयं भवतः कृतिम् । विपद्भिः सह दीयन्ते सम्पदो भवता यतः॥' इति, अत्र हि 'दीयन्ते'इति श्लिष्टम् । एवं श्लेषभित्तिकतयोदाहृत्य तद्वैपरीत्येऽप्युदाहरति-'कुमुदकदम्बैः कुमुदानि रात्रिविकासीनि कमलानि तेषां कदम्बानि पुञ्जास्तैः । 'कदम्वं निकुरम्बे स्यानीपसर्षपयोः पुमान् ।' इति मेदिनी । सह । कामं मदनम् । उल्लासयन्तो विकासयन्तो वर्धयन्तश्चेति भावः । घनतिमिरौधैर्घनानि निबिडानि यानि तिमिराणि तेषामोधास्तरिति तथोक्तैः । सह । धैर्यम् । उत्सारयन्तः सम्बन्धाभावं विनाशं वा नयन्तः । सरसिजषण्डैः सरसिजानि कमलानि तेषां षण्डानि समुदायास्तैः । 'अब्जादिकदम्बे षण्डमस्त्रियाम् ।' इत्यमरः । सह । स्वान्तं चित्तम् । खान्त हृन्मानस मनः।' इत्यमरः । आमीलयन्तः सङ्कोचयन्तो विषयान्तरादाकषेयन्तो वा । अमृतांशोश्चन्द्रन मसः। अंशवः । प्रतिदिशं सर्वासु दिक्षु । सश्चरन्ति । अत्र मालिनीछन्दः ॥ १७८॥' ___अस्य पद्यस्य स्वकीयत्वं सम्भावयति-इदम्ममेति । स्पष्टम् । .. अत्राभेदारोपं दर्शयितुं भेदं दर्शयति-अत्रेत्यादिना।। अत्रोदाहृते पद्ये । उल्लासादीनाम् । आदिपदेनोत्सारणामीलनयोर्महणम् । सम्बन्धिभेदात् कुमुद-कामादिसम्बन्धिभेदात् । एव । भेदः। एवकारव्यवच्छेद्यं निर्दिशति-न तु । श्लिष्टतया । अतोऽत्राभेदारोपः सादृश्यमूल इति भावः । इदमभिहितम्-कुमुदस्योल्लासो विकासः, कामस्य पुनर्वर्द्धनम् ; तिमिरस्योत्सारणं तद्देशे सम्बन्धाभावः, धैर्य्यस्य पुनर्विनाशः; सरसिजस्यामीलनं सङ्कोचः, स्वान्तस्य पुनर्विषयान्तरादाकर्षणम् ; इत्येवं कुमुदकामादीनां भेदादेवो. ल्लासादेर्भेदः, तस्मिन् सत्यपि विकास इव वर्धनमिति सादृश्यमूलोऽभेदारोपः । इति । _ यथा वा-सह दिअसणिसाहिं दीहरा सासदंडा सह मणिवलयेहिं बाप्पधारा गलंति । तुह सुहअ विओए तीअ उबिग्गिरीए सह अ तुणुलदाए दुब्बला जीविदासा ॥' अत्र हि दीर्घत्वादेः श्वासादिनाऽन्वयः शाब्दः, दिवसनिशादिना त्वन्वयसामा.दार्थः, दीर्घादेश्च सम्बन्धिभेदादेव भेद इति दिवसनिशादीनां दीर्घत्वाभेदाध्यवसायः। तथा हिदिवसादेर्दीर्घत्वमनायासमनपनेयत्वम् , श्वासस्य पुनर्दूरप्रसारित्वमतिवेगशालित्वं वा, मणिवलयस्य गलनं पतनं, नेत्राम्बुनः पुनः प्रवहणम् , तनुलतायां दौर्बल्यं कार्यमकर्मण्यत्वं वा, जीविताशायाः पुनः कादाचित्कत्वम् ; इति भेदेऽप्यभेदाध्यवसायः । इति । एतेन-यदुक्त विवृतिकारैः-'वस्तुतस्तु यत्र वैचित्र्यमनुभूयते तत्रैवास्यालङ्कारत्वमङ्गीकरणीयम् । अन्यथा-'सह मणिवलयेहिं बाप्पधारा गलंति' इति काव्यप्रकाशदत्तोदाहरणमसङ्गतं स्यात् । अत्र स्वस्थानाच्च्यवनरूपं गलनमेकमेव । न च गलनयोरेकजातीयत्वेऽपि व्यक्तिभेदाद् भेद इति वाच्यम् , 'लक्ष्मणेन समं रामः काननं गहनं ययौ।' १ 'सह दिवसनिशाभिर्दीघाः श्वासदण्डाः, सह मणिवलयैर्बाष्पधारा गलन्ति । तव सुभग ! वियोगे तस्या उद्विग्नायाः सह च तनुलतया दुर्बला जीविताशा ॥'इति संस्कृतम् ।
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy