________________
३३८ साहित्यदर्पणः।
[ दशम:अवान्यस्य धर्म कथमन्यो वहत्विति कटाक्षविक्षेपादीनां कुदलयमाकाऽऽदिगतललितादीनां कलनमसम्भवत्तल्ललितादिसदृशं ललितादिकमवगमयत् कटाक्षविक्षेपादेः कुवलयमालाऽऽदेश्व बिम्बप्रतिबिम्बभावं बोधयति । यथा वा--
'प्रयाणे तव राजेन्द्र! मुक्तावैरिमृगीदृशाम् । राजहंसगतिः पद्भ्यामाननेन शशिद्युतिः॥१७॥'
अत्र पादाभ्यामसम्बद्धराजहंसगतेस्त्यागोऽनुपपन्न इति तयोस्तत्सम्बन्धः कलप्यते, स चासम्भवन राजहंसगतिमिव गतिं बोधयति । भनेकवाक्यगा यथा--
'इदं किलाव्याजमनोहरं वपुस्तपालमं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेनुमृषिय॑वस्यति ॥ १७२ ॥ अत्र यत्तच्छब्दनिर्दिष्टवाक्यार्थयोरभेदेनान्वयोऽनुपपद्यमानस्तादृशवपुषस्तपालमत्वसाधनेच्छा नीलोत्पलपत्रधारया शमीलताछेदनेच्छेवेति बिम्बप्रतिबिम्बभावे पर्य्यवस्यति ।
अत्र सम्बन्धासम्भवं दर्शयन् लक्षणं सङ्गमयते-अत्रेत्यादिना । स्पष्टम् ।
उदाहरणान्तरं निर्दिशति-यथा वा-'हे राजेन्द्र ! तव । प्रयाणे विजययात्रायां सत्याम् । वैरिमृगीदृशां वैरिणां या मृगीदृशस्तासाम् । पद्भयां चरणाभ्याम् । राजहंसगतिः। तथा-आननेन मुखेन । शशिधुतिश्शशिनो धुतिश्शोभामुक्ता परित्यक्तात्विामायान्तं श्रुत्वैव म्लानवदनाभिः शत्रुस्त्रीभिः सर्व परित्यज्य पलायितमिति भावः॥१७१॥'
उदाहृतमर्थ निर्दिशति-अत्रोदाहृते पद्ये । पादाभ्यां 'वरिमृगीदृशा'मिति शेषः। असम्बद्धराजहंसगतेरसम्बद्धाऽनुपपन्ना परधर्मस्य परत्रासम्भवात् असौ राजहंसगतिस्तस्याः । त्यागः। अनुपपन्नो न युक्त्या सिद्धः । इति । तयोः पदयोः । तत्सम्बन्धस्तस्या राजहंसगतेः सम्बन्धः । कल्प्यते । सः वैरिमृगीदृशां पदयोः राजहं. सस्य गतेः सम्बन्धः । च । असम्भवन् । राजहंसगतिम् । इव । गति 'वरिमृगीदृशां पदयो'रिति शेषः । बोधयति । अयम्भावः-अन्यस्य धर्ममन्यः कथं वहतु इति वैरिमृगीदृशां पद्भयां राजहंसगतिर्वोढुमसम्भवन्ती तद्गतिसदृशी गतिमवगमयति । पूर्वत्र ललितादेधर्मस्य कुवलयादेश्च धर्मिण औपम्यम् । अत्र तु गतेधर्मस्य, गतेधर्मस्य च3; इत्यत एवेदमुदाहरणान्तरमिति बोध्यम् । एवम्- आननेन शशिातेस्त्यागोऽनुपपन्न इति तयोस्तत्सम्बन्धः कल्प्यते, स चासम्भवन् शशिद्युतिमिव द्युतिं बोधयति । इत्यपि बोध्यम् ।
द्वितीयामेनामुदाहरति-अनेकेत्यादिना । स्पष्टम् । 'किल ( इदमरुचौ) 'किल सम्भाव्यवार्तयोः । हेत्वरुच्योरलीके चेति हैमः । अव्याजमनोहरमव्याजेन व्याज कपटं (कृत्रिमताम् ) विना मनोहरं रमणीयम् , स्वभावसुन्दरमिति भावः । इदम् । वपुः शरीरम् 'शकुन्तलाया' इति शेषः । यः। तपःक्लमं तपसा क्लमं दुःखानुभवपरम् इति तत्तथोक्तम् । काम्यतीति क्रमम् । पचादित्वादच् । 'तपःक्षम'मिति पाठान्तरम् । साधयितुं सम्पादयितुम् । इच्छति । सः। ऋषिः ( कण्वः ) । नीलोत्पलपत्रधारया नीलं च यदुत्पलं कमलं तस्य पत्रं तस्य धाराऽप्रभागस्तया । ध्रुवं नूनम् । शमीलतां शमी वृक्षम् । कोमलत्वातिशयं दर्शयितुं लतात्वारोपेणाभिधानमिदम् । छेत्तुम् । व्यवस्यति उद्यतते कमलपत्रधारया शम्याइछेदनं यथाऽसम्भवम् , तथाऽनेन वपुषा तपसे प्रवर्त्तनमित्यसम्भवन् वस्तुसम्बन्धः । तपखिनीमिव वने शकुन्तलां निरीक्ष्य दुष्यन्तस्य 'असाधुदर्शी खलु भगवान् कण्व' इत्युक्तं समर्थयमानस्थयमुक्तिः । शाकुन्तलस्येदं पद्यम् । वंशस्थवृत्तम्, तल्लक्षणं चोक्तं प्राक् ॥ १७२ ॥'
उदाहृतमर्थ निर्दिशति-अत्रोदाहृते पद्य इत्यर्थः । यत्तच्छन्दनिर्दिष्टवाक्यार्थयो 'स्तपःपरतासाधक-शमीलताछेदकरूपयोरुपमेयोपमानभूतयोषितक्षकविशेषयो'रिति शेषः । अभेदेन 'अभिन्नत्वा (एकत्वा) भावात्' इति शेषः । अन्वयः। अनुपपद्यमानः। तादृशवपुषः तादृशमच्याजमनोहरं यत् वपुस्तस्य । तपालमत्वसाधनेच्छा । नीलोत्पलपत्रधारया। शमीलताछेदनेच्छा । इव । इति । बिम्बप्रतिबिम्बभावे । पर्यवस्यति । इदं तु बोध्यम्-यत्तद्वाक्यार्थयोरनेकत्वात् अनेकवाक्यार्थगतत्वमेतस्याः । इति ।
१ तपः क्लमसाधनताऽनौचित्ये केवलस्य सुन्दरत्वस्यासम्भवादव्याजेत्युपादानम् , तेन कोमलताया अप्युपादानं बोध्यम् । २ नीलविशेषणं त्वपुष्टार्थमेवेति विभाव्यम् ।