SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणः । [दशम:अत्र कान्ताकेशपाशादेर्मयूरकलापादिभिरभेदेनाध्यवसायः । यथा वा-सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुाम् ।। ____ अदृश्यत त्वञ्चरणारविन्दविश्लेषदुःखादिव बदमौनम् ॥' अत्र चेतनगतं मौनित्वमन्यत , अचेतनगतं चान्यत् इति द्वयो देऽप्यभेदः । एवम् सहाधरदलेनास्या यौवने रागभाक् प्रियः।' अवाधरस्य रागो लौहित्यम् , प्रियस्य रागः प्रेम, द्वयोरभेदः । अभेदे भेदो यथा'अन्यदेवाङ्गलावण्यमन्याः सौरभसम्पदः । तस्याः पद्मपलाशाक्ष्याः सरसत्वमलौकिकम् ॥ १५३ ॥' भावः । तले'इति पूर्वतोऽनुषज्यते । विलोल विशेषेण चञ्चलम् । कुवलययुगलं कुवलयस्य नीलोत्पलस्य युगलं युग्मम् । 'कथं विलसती'ति पूर्वतोऽनुषज्यते । 'श्यामं शितिकण्ठनील कुवलयमिन्दीवरं च नीलाब्जम् । इति नाममाला। नीलकमलं सरोवरस्य जले दृष्टचरम् , अथ कथं चन्द्रखण्डस्याधोभागे इत्याश्चर्यमिति भावः । तत्तस्मात् । अधोऽधस्तात् । कुवलययुगलस्याधोभागे इति भावः । तिलकुसुमं तिलपुष्पम् । 'कथं विलसती'ति पूर्वतोऽनुषज्यते । तिलवृक्षस्योपरि तदीय पुष्प प्रायो दृष्टचरम्, अथ कथ कुवलययुगलस्याधोभाग इत्याश्चय्येमिति भावः । अ तिलकुसुमात् । 'अध'इति देहलीदीपकन्यायेन काकाक्षिगोलकन्यायेन वाऽनुषज्यते । प्रवालं विद्रुमो नवपल्लवो वा । 'कथं विलसती'ति पूर्वतोऽनुषज्यते। 'प्रवालो विद्रमे वीणादण्डेऽभिनवपल्लवे ।' इति हैमः । तिलपुष्यस्याधोभागे पन्तस्यैव दृष्टचरत्वम्, अथ कथं प्रवालमित्याश्चर्यमिति भावः । पुष्पिताऽप्रावृत्तम् ॥ १५२॥' लक्ष्यं समर्थयते-अत्र । कान्ताकेशपाशादेः । आदिपदेन ललाटलोचननासिकाऽधराणां ग्रहणम् । मयूरकलापादिभिः । आदिपदेनाष्टमीन्दुखण्डकुवलयतिलपुष्पप्रवालानां ग्रहणम् । सहाथें तृतीयेयम् । अभेदेन । अभेदार्थेयं तृतीया । अध्यवसायः । इदं तत्त्वम्-अत्र कलापित्वेन प्रशस्तकेशा कान्ता, कलापत्वेन केशपाशः, अष्टमीन्दुखण्डत्वेन ललाटम् , कुवलययुगलत्वेन लोचनद्वन्द्वम्, तिलकुसुमत्वेन नासिका, प्रवालत्वेनाधरश्चाध्यवसितः, एषां परस्परं भेदेऽपि सादृश्यातिशयेनाभेदोऽध्यवसितः। अत एव कान्ताऽऽदेर्निंगरणम् । एतच्च शब्दानुपादानमूलम् । इति। उदाहरणान्तरं दर्शयति-यथा वा-'सैषेत्यादिना । व्याख्यातपूर्वमिदम् । उदाहरणफलं दर्शयति-अत्रे. त्यादिना । स्पष्टोऽर्थः । अयम्भावः-मौनं हि वस्तुतोऽवचनत्वम् , तच्च यद्यपि चेतनविशेषधर्मः, तथाऽपि तस्याचेतन(नपुर ) धर्मेण (ध्वन्यभावन) सममभेदेनाध्यवसितत्वम् । इति। पुनस्दाहरणान्तरं दर्शयति-एवम्-'अस्याः कान्तायाः । अधरदलेनाधर एवं दलं तेन । सह। यौवने । प्रियः। रागभाक। यथायथाऽधरदलं रक्तं, तथातथा कान्तस्तस्यां रक्तो जात इति भावः । 'कान्तायाश्चोन्नती जातः स्तनद्वन्द्वेन च स्मरः ॥' इति शेषः ।' . उदाहाऱ्या निर्दिशति-अत्रेत्यादिना । स्पष्टोऽर्थः । अयम्भाव:-अधरस्य रागो लोहितवर्णत्वम्, तस्यैव तत्र सम्भवात् , प्रियस्य तु न लोहितवर्णत्वमुपयुक्तम्, किन्तु प्रेमैव रागशब्दवाच्यम् , अस्यैवात्र सम्भवात् । इत्येवम्प्रेमित्वापरपया॑यस्य रागभाक्त्वस्य प्राधान्येन प्रियगतत्वेनैवोपपत्तौ तस्य च लोहितवर्णत्वेनाध्यवसीयमानत्वे भेदेऽप्यभेदः सम्पद्यते । अये च श्लेषमूलः । इति । अभेदे भेदातिशयोक्तिमुदाहर्तुमाह-अभेदे इत्यादि । स्पष्टम् । 'तस्याः। पद्मपलाशाक्ष्याः पद्मपत्रसदृशायतसुन्दरनेत्रायाः। अङ्गलावण्यं शरीरस्य सौन्दर्यविशेषः । अन्यत् भिन्नमलौकिकमिति यावत् । एव । सौरभसम्पदः सौरमस्य सम्पदः सम्पत्तयः । अन्या भिन्ना अलौकिकाः । 'एवेति पूर्वतोऽन्वेति । तथा-सरसत्वं रसोऽनुरागस्तेन सह वर्तत इति तस्या भावस्तत्त्वम् । अलौकिकं लोकेऽदृष्टचरमिति भावः । 'ए'ति पूर्वतोऽ. न्वेति । अत्र लोकप्रसिद्धलावण्याद्यभेदेऽपि भेदो वर्णितः, एवं सति अन्यदेवे'त्यायुक्तदिशाऽस्या लावण्यादौ लावण्याद्यन्तरादतिशयोऽवगम्यत इति स्फुटो लावण्याद्यन्तरतोऽभेदेऽपि भेदाध्यवसायः । 'सौरभसम्पद' इत्यत्र तु • भेदेऽप्यभेदातिशयोक्तिः, माधुर्य्यादिगुणपुञ्जस्य सौरभसम्पत्तभिन्नत्वेऽपि अभिन्नत्वेनाध्यवसानात् ॥' यथा वा मम'स्मितमपरं रुचिरपरा, नयनयुगल्यापरं च चापल्यम् । अपरैव नासिकेयं मुखरचना ते ह्यलौकिकी कान्ते ॥ इति ॥ १५३ ॥
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy