SearchBrowseAboutContactDonate
Page Preview
Page 789
Loading...
Download File
Download File
Page Text
________________ परिच्छेदः] रुचिराण्यया व्याख्यया समेतः। अब भपतितयेत्यनेन पतिं विना'इत्युक्ता पतनाभावेनेत्यन्यथाकृतम् । अश्लेषेण यथा.. 'इह पुरोऽनिलकम्पितविग्रहा मिलति का न वनस्पतिना लता। स्मरसि किं सखि ! कान्तरतोत्सवं नहि धनागमरीतिरुदाहता ॥ १३४॥' वक्रोक्तौ परोक्तेरन्यथाऽऽकारः, इह तु स्वोक्तेरेवेति भेदः । गोपनकृता गोपनीयस्यापि प्रथममभिहितत्वाच्च व्याजोक्तेः । - ११७ अन्यनिषिध्य प्रकृतस्थापनं निश्चयः पुनः ॥ ९२ ॥ निश्चयाख्योऽयमलङ्कारः । अन्यदित्यारोप्यमाणम् । अथा मम 'वदनमिदं न सरोज, नयने नेन्दीवरे एते । इह सविधे मुग्धदृशो मधुकर ! न मुधा परिभ्राम्य ॥ १३५॥' यथा वा-'हदि बिसलताहारो नायं भुजङ्गमनायकः कुवलयदलश्रेणीकण्ठे न सा गरलद्युतिः। मलयजरजो नेदं भस्म प्रियारहिते मयि प्रहर न हरभ्रान्त्याऽनङ्ग! क्रुधा किमु धावसि ? ॥ १३६ ॥ बोधसौक-योदाहृतमथै सूचयति-अत्रेत्यादिना । स्पष्टम् । द्वितीयोदाह्रियते-अश्लेषण । यथा-इहास्मिन् वर्षासमये । पुरोनिलकम्पितविग्रहा पुरोप्रतोऽनिलेन वायुना कम्पितो विग्रहः शरीरं यस्याः सा । का। लता । वनस्पतिना । सहाथैयं तृतीया । न । मिलति संयुज्यते । 'अपि तु सवैवेति शेषः । इत्युदीर्यमाणं श्रुत्वा सखी पृच्छति-हे सखि ! किम् । कान्तरतोत्सवं कान्तस्य सुरतजन्यमुत्सवम् । स्मरसि? इत्यवगतं स्वमर्थ ज्ञात्वाऽपद्भुते-नहि यत्त्वया कथ्यते शङ्कयते वा तन्नेति भावः । किन्तु-धनागमरीतिवर्षाप्रभावः । उदाहता । द्रुतविलम्बितं वृत्तम् ॥ १३४ ॥ व्याजोक्तेरस्या व्यवच्छेदं लक्षयति-वक्रोक्तावित्यादिना । स्पष्टम् । व्याजोक्तेरस्या भेदं लक्षयति-गोपनेत्यादिना । 'भेद'इति शेषः । स्पष्टमन्यत् । एवमपङतिं निरूप्य निश्चयं लक्षयति-११७ अन्यत् अप्रकृतमुपमानमिति यावत् । निषिध्य । प्रकृतस्थापनं प्रकृतस्योपमेयस्य स्थापनम् । पुनः (इदमपतेर्भिन्नक्रमद्योतनार्थम्) निश्चयस्तदाख्योऽलङ्कारः । अयम्भावः-अपड्त्यां यथोपमेयनिषेध उपमानारोपः, तथा यत्रोपमाननिषेध उपमेयस्थापनं स प्रकृतदृढकरणहेतुकतया निश्चयनामाऽलङ्कारः। सन्देहापकरणाय निश्चयपदं व्याचष्टे-निश्चयाख्य इत्यादिना । स्पष्टम् । अन्यत्पदं व्याचष्टे-अन्यदित्यस्येति शेषः । आरोप्यमाणमुपमानम् । इत्यर्थः । उदाहरति-यथा । मम । 'हे मधुकर ! इदम् । वदनं मुखम् । सरोज कमलम् । न । एते । नयने नेत्रे । इन्दीवरे नीलकमले । न । इहास्मिन् प्रदेशे । मुग्धदृशो मुग्धे लज्जया नशिते दृशो यस्यास्तस्याः । सविधे समीपे। मुधा व्यर्थम् । न । परिभ्राम्य परिभ्रम । अत्र कान्तायाः मुखस्य नयनयोश्चोपमेयभूतानां सादृश्यातिशयेन कमलेन्दीवरैः प्रतीयमानमभेदं निषिध्य स्थापनमिति निश्चयाख्योऽयम् । आर्याछन्दः ॥ १३५ ॥' उदाहरणान्तरं दर्शयति-यथा वा । 'हे अनङ्ग कामदेव ! हदि वक्षसि । विसलताहारो मृणालतन्तुनिर्मितो हारः । अयम् । भुजङ्गमनायकः फणिराजो वासुकिः । न । कण्ठे । कुवलयदलश्रेणी कुवलयस्य दलानि पत्राणि तेषां श्रेणी माला । 'इय'मिति शेषः । सागरलद्युतिर्गरलस्य द्युतिः । न । इदम् । मलयजरजो मलयगिरिसम्भूतस्य चन्दनस्य रजः । भस्म विभूतिः । न । प्रियारहिते विरहिणि । मयि । हरभ्रान्त्या खदाहकभ्रमेण । न । प्रहर । किमु । क्रुधा कोपेन । धावसि प्रहर्तुमुद्यतसे । अत्र हरिणीछन्दः । भुजङ्गमनायकादीनिषिध्य बिसलताहारादीनां स्थापनातू निश्चयः ॥ १३६॥
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy