________________
१९८
[ दशमः
अत्र केषाञ्चिद्रूपकाणां शब्दश्लेषमूलत्वेऽपि रूपकविशेषत्वादर्थालङ्कारमध्ये गणनम्, एवं वक्ष्यमाणेष्वलङ्कारान्तरेष्वपि बोध्यम् ।
१०९ अधिकारूढवैशिष्ट्यं रूपकं यत्तदेव तत् । रूपकम् । यथा, मम
'इदं वक्रं खाक्षादिरहितकलङ्कः शशधरः सुधाधाराधारश्चिरपरिणतं बिम्बमधरः । इमे नेत्रे रात्रिन्दिवमधिकशोभे कुवलये धनुर्लावण्यानां जलधिरवगाहे सुखतरः ॥ ११८ ॥ ' अत्र कलङ्कराहित्यादिनाऽधिकं वैशिष्टयम् ।
साहित्यदर्पणः ।
तदेवाधिकारूढवैशिष्टयस
११० विषयात्मतयाऽऽरोप्ये प्रकृतार्थोपयोगिनि ॥८७॥ परिणामो भवेत् तुल्यातुल्याधिकरणो द्विधा ।
रेवेति भक्तिमात्रं तेन सुलभः सुखेन लब्धुं योग्यस्तत्र । मात्र पदेनोपकरणान्तरस्यानावश्यकत्वं द्योत्यते । शूलिनि शङ्करे । सेवा । कियa | कौशलम् न किञ्चिदिति भावः । शार्दूलविक्रीडितं वृत्तम् । लक्षणं चोक्तं प्राक् । अत्र सौजन्या वाद मरुस्थल्याद्यारोपो विधर्म्मतामूलकः ॥११७॥'
लक्षितेषु रूपकेषु न सर्वाण्यर्थालङ्कारेषु गणनीयान्यथापि तेषां तथात्वे हेतुं निर्दिशति - अत्रैषु लक्षितेषु रूपकेषु मध्ये इति भावः । केषाञ्चित् । रूपकाणाम् । 'शब्दश्लेषमूळत्वे । अपि । रूपकविशेषत्वात् रूपकप्राधान्यात् अर्थमूलकाया रूपकप्रधानतायाः सद्भावादिति यावत् । अर्थालङ्कारमध्ये | गणनम् । अयम्भावः - यद्यपि षस्येव रूपकस्यापि शब्दालङ्कारत्वमर्थालङ्कारत्वं च वक्तुमर्हम्, तथाऽपि श्लेषे शाब्दार्थत्वोभयप्राधान्यस्य सरूपत्वात्, रूपके च न्यूनाधिकत्वेन वैषम्यात् भेदे 'प्राधान्येन व्यपदेशा भवन्ती' ति नयेन रूपकस्यार्थालङ्कारत्वमूह्यम् । एतेन - केषाञ्चित् शब्दालङ्कारत्वमपि यद्यभिदधीत तर्हि तद् युक्तमेव स्यात् । इति सूचितम् । इति । न केवलं रूपक एवेष नयः सङ्गच्छत इति बोध्यमित्याह - एवमित्यादि । स्पष्टम् ।
अस्य प्रभेदान्तरं पुनर्निर्दिशति - १०९ यत् । अधिकरूढवैशिष्ट्यमधिकमारूढं वैशिष्ट्यविलक्षणत्वं येन तथो 'क्तम् । रूपकम् । तत् । तत् अधिकारूढवैशिष्टयम् । एव ।
कारिकांशे काठिन्यं परिहरति-तदेवेत्यादिना । स्पष्ठम् ।
उदाहरति यथा । मम 'इदम् । वक्त्रं मुखम् । खाक्षात् । विरहितकलङ्को विरहितः कलङ्को यस्य तादृशः, कलङ्कारकल्माषचिह्नरहितः । शशधरश्चन्द्रः । अधरः । चिरपरिणतं चिरेण परिणतं फलत्वेनोद्भूतम्, परि पकमिति भावः । सुधाधाराधारः तत्स्वरूपभूतम् । बिम्बम् । इमे । नेत्रे । रात्रिन्दिवमहर्निशं निरन्तर मिति यावत् । अधिकशोभे अधिका शोभा ययोः तथोक्ते । कुवलये कुमुदपुष्पभूते । तनुः शरीरम् । अवगाहे स्नाने उपचारेणोपभोगमात्रे । सुखतरोऽत्यन्तं सुखकारी | लावण्यानाम् । जलधिः समुद्रः । शिखरिणीवृत्तम् ॥ ११८ ॥ '
वैशिष्टयाधिक्यं सूचयति - अत्रेत्यादिना । स्पष्टम् । इदं वन्यमानमपि दृश्यते । तत्र शब्दशक्तिमूलं यथा‘अविरलविगलद्दानोदकधारासारसिक्तधरणितलः । धनदाग्रमहितमूर्तिर्देव त्वं सार्वभौमोऽसि ॥' अत्र हि सार्वभौमशब्दचक्रवत्यर्थतया नियमितोऽपि राजनि 'असी' त्यनेन दिग्गज विशेषारोपमेव प्रत्याययति । अर्थशक्तिमूलं यथा - 'तिमिरं हरन्ति हरितां पुरः स्थितं तिरयन्ति तापमथ तापशालिनाम् । वदनत्विषस्तव चकोरलोचने परिमुद्रयन्ति सरसीरुहश्रियः ॥' इत्यत्र वदनस्य चन्द्रत्वं तिमिरहरणाद्यर्थमात्रमूलम् ।
परिणाम लक्षयति- ११० विषयात्मतयोपमेयाभेदेन । आरोपे निरूपणीये 'उपमान' इति शेषः । प्रकृतार्थो पयोगिनी प्रकृतार्थः प्रस्तुतं प्रयोजनं तस्योपयोग्युपकारकं तस्मिंस्तथाभूते सतीत्यर्थः । परिणामः । स च तुल्या तुल्याधिकरणः समानाधिकरणो व्यधिकरणश्चेत्यर्थः । 'स' न्निति शेषः । द्विधा । भवेत् ॥८७॥