SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ परिच्छेदः] रुचिराख्यया व्याख्यया समेतः। शिवमेव, 'मधुना मत्तः पिकः' इति पिकस्य मादनसामर्थेन मधुर्वसन्तमेव, 'यातु वो दयिता मुखम्' इति मुखमौचित्या सम्मुखमेव, 'विभाति गगने चन्द्र' इति गगनदेशेन चन्द्रः शशिनमेव, किञ्चित्करत्वात् कोपविशेषप्रतिसन्धानस्य मकरध्वजपदार्थविशेषप्रतिसन्धानाधीनतया तस्य प्रथममनुपस्थिती नियन्त्रकत्वायोगाच्च' इति । अत एव 'कुपितो मकरध्वजः' इत्यत्र मकराकारध्वजसमुद्राभ्यां व्यावृत्तेन समवायसम्बन्धवता कोपेन मकरध्वजपदस्य कामे (अभिधा)।' इति प्रदीपकाराः प्राहुः । अन्ये त्वाः '-'वस्तुतस्तु 'स्थाणुरपश्यत्' इत्यादिलिङ्गोदाहरणं बोध्यम् , मकरध्वजपदस्य कामे प्रसिद्धथैव नियमनात् ।' इति । आदिना-'रम्भा गायति, 'सुमनसो घ्राणम् , 'सुराः सम्राजन्ते,' 'सुराः पीयन्ते' इत्यादेर्ग्रहणम् । एवं च- 'शङ्करं पतितं दृष्ट्रा पार्वती हर्षमागता । रुदन्ति किनराः सर्वे हा हा शङ्कर शङ्कर ॥' इत्यादीन्यप्यस्यवोदाहरणानीति दिक् । 'पुरारिः पुरस्य त्रिपुरापरपया॑यस्यासुरस्य, नगरस्य वाऽरिः शत्रुर्विध्वंसक इति यावत् । देवः ।' इति 'अत्रे'ति शेषः । देवशब्दसन्निधिना देवशब्दस्य सन्निधिः सन्निधानं तेन । पुरारिः । शिवम् । एव 'न तु नगरध्वंसक'मिति शेषः । 'अभिधत्त' इति पूर्वतोऽन्वेति । अयम्भावः-पुरारिदेवः शङ्कर एव प्रसिद्धः, तदिति देवशब्दसानिध्येन पुरारिः शङ्करमभिधत्ते । इति । अन्ये तु-'पुरारिसान्निध्याद्देवशब्दः शिवमेवाभिधत्ते' इति पाठान्तरमङ्गीकृत्य 'राजाद्यर्थकत्वान्नानाऽर्थकस्य देवशब्दस्य वाचकत्वं शिवभिन्नस्य देवपदार्थस्य पुरारित्वासम्भवात् पुरारिशब्दसमभिव्याहारेण शिवे नियम्यते' इति प्राहुः । .'पुरारेर्देवस्य चेत्युभयोरपि अनेकार्थयो: शब्दयोरन्योऽन्य सानिध्यसाहाय्येन शिवस्यैव वाचकत्वम्, तथाहि-नृपतिदैवतवाचकतयाऽनेकार्थो देवशब्दः, नगरविध्वंसकासुरविशेषशातकतया पुरारिशब्दोऽप्यनेकार्थवाचकः, एवं सति-नृपतेः पुरारित्वाप्रसिद्धेः, दैवतविशेषस्यासुरविशेषारित्वप्रसिद्धेश्च देवशब्दसमभिव्याहारेण पुरारिशब्दः, पुरारिशब्दसमभिव्याहारेण देवशब्दश्च शिवमेवाभिधत्ते । नगरविध्वंसको नृपतिरित्यर्थस्तु प्रकरणमन्तरा नोन्नेतुं शक्यः । न चेदमौचित्या उदाहरणमिति वक्तं युक्तम्, प्रसिद्धथातिरेकेणोभयोः सान्निध्येऽर्थान्तराभिधानसंशयस्यैवानुदयात् । अथैवं सत्यपि देवशब्दस्यैव सान्नि ध्येन पुरारिशब्दस्यैव शिववाचकत्वमिति ध्येयम्, पुरारिशब्दस्यैव प्राधान्येन शिववाचकत्वात् ।' इति च केऽप्याहुः । 'मधुना वसन्तेन । पिकः कोकिल: । मत्तः।' इति । 'अत्रे'ति शेषः । मादनसामर्थ्येन पिक (कोकिल) निष्टोन्मादकारणीभूतेन सामर्थ्यन हेतुनेति भावः । मधुः 'मधु क्षौद्रे जले क्षीरे मद्ये पुष्परसे मधु: । दैत्ये चैत्रे वसन्ते चं जीवाशोके मधुमे।' इति विश्वोक्त्याऽनेकार्थोऽपीति शेषः । वसन्तम् । एव न तु क्षौद्रादि 'अभिधत्त'इति पूर्वतोऽन्वेति । यथा वा-'नारायणं भजत रे जठरेण युक्ताः, नारायणं भजत रे पवनेन युक्ताः । नारायणं भजत रे भवभीतिखिन्नाः, नारायणात्परतरं नहि फिश्चिदस्ति ॥' इति । अत्र हि नारायणशब्दो जाठरादिरोगनिवर्तकतयौषधविशेषाद्यर्थविशेषवाचकः । 'दयिता प्रिया । वो युष्माकमित्यर्थः । मुखं सम्मुखम् । यातु प्राप्नोतु ।' इति 'कस्याश्चि. कुट्टिन्या उक्ताविति शेषः । मुखं मुखपदम् । औचित्या। सम्मुखम् । एव 'अभिधत्ते' इति पूर्वतोऽन्वेति । अयम्भावः-'भीष्मद्रोणप्रमुखतः सर्वेषांच महीक्षिताम् ।' इत्यत्र प्रमुखस्येवात्र मुखस्यापि न सम्मुखवाचकत्वममरादिनाऽऽनातं, किन्तु औचित्या (लोके तथा प्रयोगबाहुल्यं दृश्यत इति शिष्टाचारेण तद् युज्यते । इति । यथा वा-केशवः शरणं मम' इत्यत्र केशवस्य केशवोऽजे च पुन्नागे पुंसि, केशवति त्रिषु ।'इति मेदिन्युक्त्या केश्यादिवाचकत्वेऽपि शरणौचित्या भगवद्वाचकत्वमेव । यथा वा-'आरुह्यन्ते नृपैर्नागाः, सैन्धवाश्चानुयायिभिः ।, वन्दारवस्तु वन्दन्ते, तास्तदानीं पुरोगताः ॥' इति, अत्र हि नागसैन्धववन्दनपुरोगतशब्दानां हस्तिवाजिस्तवनसम्मुखगताभिधायकत्वमेव, न तु सर्पलवणनमनपुर्गताभिधायकत्वम् । इति दिक् । 'गगने आकाशे । चन्द्रः। विभाति।' इति 'अत्रे'ति शेषः । गगनदेशे चन्द्रः 'चन्द्रः कर्परकाम्पिल्लसुधांशुवर्णचारुषु ।' इति मेदिन्युक्त्याऽनेकार्थोंssपीति शेषः । शशिनं सुधांशुम् । एव । 'अभिधत्त' इति पूर्वतोऽन्वेति । यथा वा-'गुरुरेक: कविरेक: सदसि मघोनः कलाधरोऽप्येकः । अद्भतमत्र सभायां गरवः कवयः कलाधराः सर्वे ॥' इति। अत्र हि सुरपतिनरपतिसभाभेदेन देशभेदे गुर्वादीनां जीवाचाOदिवाचकत्वभेदः । एवं 'लतोपरि खद्योतः,' 'व्योम्नि चित्रभानुः,' 'वेद्यां चित्रभानुः', 'उदयाचले खद्योतः' इत्यादौ । इति दिक। १ पात्विति पाठान्तरं तु न सम्यक, मुखस्य भावप्रत्ययान्तसाम्मुख्यपदाभिधेयत्वानुपपत्तेः ।
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy