SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ [दशम: १७० .. साहित्यदर्पणः। अत्र क्रमेण त्रिविधा श्रौती। ... 'मधुरः सुधावदधर: पल्लवतुल्योऽतिपेलवः पाणिः। चकितमृगलोचनाभ्यां दृशी चपले च लोचने तस्याः ॥९॥ हृदयं चित्तम् । मदयति मोदयति । इदम्बोध्यम्-अत्र-अम्भोरुहमुपमानम्, तस्माच षष्ठयन्तात् 'तत्र तस्येव' ५। । ११६ इति वतिः । मुखमुपमेयम्, सौरभ साधारणो धर्मः, वतिश्च तद्वाचकः, तस्य च तद्धितीयत्वेन श्रौतीयं तद्धितगा पूर्णोपमा । अम्भोरुहस्य मुखसम्बन्धिसौरभलक्षकत्वेनाम्भोरुहसम्बन्धिसौरभसदृशं मुखसम्बन्धिसौरभमित्यवगमः, अथ. अम्भोरुह-मुख-सम्बन्धिनोः सौरभयोः सादृश्यमूलकाभेदाध्यवसायेनाभिन्नधर्ममूला अम्भोरुहमखयोः सादृश्यप्रतीतिः। तथा-कुम्भयमुपमानम्, स्तनद्वयमुपमेयम्, पीनत्वं साधारणो धर्मः, इवशब्दश्च तद्वाचकः, 'इवेन समासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च *' इति वार्तिकेन 'कुम्भाविवेत्यत्र समासः, तस्मात् समासगेयं श्रौती पूर्णोपमा । शरदिन्दुरुपमानम्, वदनमुपमेयम्, मादनं साधारणो धर्मः । यथाशब्दश्च तद्वाचकः, अत्र च-'यथाऽसादृश्ये । ।१।७ इत्यनेमासाश्ये एव समासस्योपपत्तौ सादृश्ये च समासस्याप्रतिपादनाद्वाक्यगैवेयं श्रौती पूर्णोपमा । इति । अत्रार्याछन्दः । तालक्षणं चोकं प्राक् ॥८९॥' ननु कस्मिन्नशे केत्याशङ्कयाह-अवेत्यादि। अब निरुक्तोदाहरणे । क्रमेण निर्देशानुपूर्व्या । त्रिविधा । श्रौती 'पूर्णोपमे'ति शेषः । यथा वा-'सुकुमारसमता दृशोर्वशीकारकारणत्वं च । भातीह मत्तकाशिनि पाणियुगे तामरसवत्ते ॥' इत्यत्र सप्तम्यर्थे वतिरिति तद्धितगा तीथम"अत्यायतेनियमकाारभिरुद्धतानां दिव्यैः प्रभाभिरनपायमयैरुपायैः । शौरि जैरिव चतुर्भिरदः सदा यो लक्ष्मीविलासभवनैर्भुवनं बभार॥' इत्यत्र 'भुजरित्यस्येवेन समासात्समासगेयं श्रौती । 'इतीरितैषधसूनृतामृतैर्विदर्भजन्मा भशमललास सा । ऋतोरधिश्रीः शिशिरानुजन्मनः पिकस्वरैर्दूरविकस्वरैर्यथा ॥” इत्यत्र यथाशब्दस्यासमस्तत्वाद्वाक्यगेयम। यथा वा-"पाण्डयोऽयमंसार्पितलम्बहारः क्लप्ताङ्गरागो नवचन्दनेन । आभाति बालातपरक्तसानुः स निर्झरोदार इवाद्विराजः ॥","चण्डीजङ्घाकाण्डः शिरसा चरणस्पृशि प्रिये जयति । शङ्करपर्यन्तजितो विजयस्तम्भः स्मरस्येव ॥" इत्यादाविवेन समासस्याविवक्षितत्वाद्वाक्यगेयम् । "तस्या मनसा विषयीक्रियमाणायाः कान्तायाः । अधरः । सुधावत् सुधया तुल्यम् । 'तेन तुल्यं क्रिया चेदतिः ।५।१।११५ इति वतिः । मधुरः । तस्याः-पाणिर्हस्तः । पल्लवतुल्यः पल्लवो नवपत्रं तस्य तुल्यः समानः । अतिपेलवोऽत्यन्तं कोमलः। 'पेलवं विरलं मृदु ।' इति गोपालः।तस्याः-लोचने नेत्रे।च। चकितमृगलो. नाभ्यां चकिते ये मृगलोचने ताभ्याम् । 'तुल्याथैरतुलोपमाभ्यस्तृतीयाऽन्यतरस्याम् ।'२ । ३ । ७२ इति तृतीया। सशी समाने । अत एव-चपले । इदम्बोध्यम्-अत्र, सुधोपमानम्, तस्माच्च तृतीयान्तात्तुल्याङ्के वतिः प्रत्य उपमेयम, माधुर्य्य साधारणो धर्मः, वतिश्च तद्वाचकः, तस्य च-तद्धितीयत्वादियं तद्धितगाऽऽर्थी । 'सुधावत् ( सुधया तल्यम ) इत्यत्र तृतीयाऽर्थों निरूपितत्वं, तस्य च तुल्यतायामन्वयात् सुधानिरूपिततुल्यताऽऽश्रयाभिन्न इति, तन्निरूपिततल्यता च माधुयेणेति सुधानिरूपितमाधुर्यप्रयोज्यतुल्यतावदभिन्नोऽधर इति बोधः । अत्र हि तुल्यताप्रयोजकं माधय तदर्थानुसन्धानोत्तरमवगम्यत इत्यस्या आर्थत्वम् । एवम्-पल्लव उपमानम्, पाणिरुपमेयम्, अतिपेलवत्वं साधारणो धर्मः, तुल्यशब्दश्च पल्लवशब्देन समस्तस्तद्वाचक इति समासगेयमार्थी । तथा-चकितमृगलोचने उपमानम्, लोचने उपमेयम, चापल्यं साधारणो धर्मः, सदृशीति च तद्वाचकम् , सदृशस्य चासमस्तत्वाद्वाक्यगेयम् । इति । आर्याछन्दः, लक्षणं चोक्तं प्राक् ॥ ९॥" यथा वा-"उन्नतिमानतिकठिनः समुदितनक्षत्रमालोऽयम् । बाले पयोधरस्तव कनकाचलवद्वरीवति ॥” इत्यत्र तद्धितगार्थी । “अवितथमनोरथपथप्रथनेषु प्रगुणगरिमगीतश्रीः। सुरतरुसदृशः सं भवानभिलषणीयः क्षितीश्वर न कस्य॥" .. इत्यत्र सदशपदस्य समस्तत्वात्समासगाऽर्थी । “जलदोदरादुदीता भामिनि ! सौदामिनीलेखा । नीलनिचोलादाविर्भूता
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy