SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ परिच्छेदः ] . रुचिरीख्यया व्याख्यया समेतः । १५१ शब्दभेद' इति दर्शनात् । किश्च-अत्र शब्दस्यैव मुख्यतया वैचित्यबोधोपायत्वेन कविप्रतिभोदृकनाच्छन्दालङ्कारत्वमेव, विसदृशशब्दद्वयस्य बन्धे चैवंविधस्य वैचित्र्यस्याभावात्, वैचित्र्यस्यैव चालङ्कारत्वात् । अर्थमुखप्रेक्षितया चार्थालङ्कारत्वेऽनुप्रासादीनामपि रादिपरत्वेनार्थमुखप्रेक्षितयाऽर्थालङ्कारत्वप्रसङ्गः । शब्दस्याभिन्नप्रयत्नोच्चार्यत्वेन अर्थालङ्कारत्वे 'प्रतिकूलतामुपगते हि विधौ' इति स्थिते 'अन्धकक्षये' त्यादौ अन्धके'त्यादीनां शब्दानामभेदापायात्तेषामेव परस्परं वैजात्येऽपि 'जतुकाष्ठ' सादृश्येन श्लेषः । असौ च शब्दानामित्यन्वयव्यतिरेकानुविधायित्वे शाब्दे शाब्दः । ननु 'अर्थभेदेन शब्दभेद' इति स्वीकारेऽर्थश्लेषो न वापि सम्पत्स्यते, तत्रापि तथा शाब्दभेदे शाब्दत्वोपपत्तरिति चेत्सत्यम् । यदि तत्र शब्दान्वयव्यतिरेकानुविधायित्वं समपत्स्यत । एतेन 'अन्यथा 'प्रत्यर्थ शब्दभेद' इति नये पराभिमतोऽर्थश्लेषोऽपि शब्दालङ्कार एवं स्यात् ।' इति दूरं गतम् । अत एव-'शब्दैः स्वभावादेकार्थः श्लेषोऽनेकार्थवाचनम् ।' इत्यत्र 'स्वभावादेकार्थे' रिति च वक्ष्यमाणं सङ्गमिष्यते। इति । ननु-'अर्थभेदेन शब्दभेद' इति नयेन 'अन्धकक्षय' इत्यादौ शब्दभेद आस्तां नाम, किन्तु सत्यर्थभेदे अर्थश्लेष एव स्वीक्रियताम्, किमन्वयव्यतिरेकानुविधायितामुखप्रेक्षित्वेन ? इत्याशङ्कयाह-किश्च 'न तावानेव तत्र शाब्दत्वे हेतु:, किन्त्वन्योऽपि' इति भावः अत्र अन्धकक्षय' इत्यादावित्यर्थः । मुख्यतया प्राधान्येन । शब्दस्य अन शब्दमात्रस्य । एव न तु तत्तदर्थस्यावैचित्र्यबोधोपायत्वेन । वैचित्र्यं चमत्कारोऽलङ्काराद्यनन्यस्थितिहेतुः। कवि. प्रतिभोट्टनात् कवेः प्रतिभाऽनुभवस्तस्या उङ्कनं स्फुरणं तस्मात्। शब्दालङ्कारत्वम्। एवान त्वर्थालङ्कारत्वम् । 'सम्भवतीति शेषः। इदमभिहितम्-'अन्धकक्षय...' इत्यादौ अन्धक' इत्यादिशब्दजातस्यैव चमत्कारस्तदसत्त्वे तदसत्त्वात् तस्माद् वैचित्र्यस्य शब्दाधीनतया प्रकृते शब्दालङ्कारत्वमेव साम्प्रतम् । इति । ननु 'शब्दस्यैवे'त्यत्र 'एव'कारेण वैचित्र्यस्य शब्दान्वयानुविधायित्वं तदा समयोक्ष्यत, यदा नार्थस्य; इत्याशङ्कय तस्य शब्दव्यतिरेकानुविधायित्वंप्रदर्य'नार्थस्ये ति द्रढयति-विसदृशशब्दद्धयस्य विसदृशस्यान्यविधस्य 'अन्धकक्षय' इत्यादौ 'यादवालय' इत्यादेः । बन्धे । अत्र विषये सप्तमी। च । एविधस्यैतादृशस्य 'अन्धकक्षय' इत्यादिसदृशशब्दद्वयबन्धगतस्येति यावत् । वैचित्र्यस्य । एव । न तु यादवालयेत्यादिबन्धगतस्य । अलङ्कारत्वादलङ्काररूपत्वात् । च । इदमभिहितम्-यदि 'अन्धकक्षय' इत्यादावर्थाश्रिततयाऽर्थालङ्कारोऽभविष्यत्तर्हि तद्विसदृशशब्दद्वय ( यादवालय) बन्धेऽपि समभविष्य द्वैचित्र्यम्, किन्तु न; इति वैचित्र्यस्यालङ्कारत्वबीजभूतस्य प्रकृते शब्दव्यतिरेकानुविधायित्वेन शब्दालडकारत्वमिति निर्विवादम् । ननु 'यो यन्मुखप्रेक्षी स तदलङ्कार' इति नयेन 'पृथुकार्तस्वरपात्रं...' इत्यादौ शब्दमुखप्रेक्षितया शब्दालकारत्वम् । 'अन्धकक्षयकर' इत्यादौ पुनरर्थप्रेक्षितयाऽर्थालङ्कारत्वमवगन्तव्यम्, किमन्वयव्यतिरेकानुविधायित्वगवेषणेन ? इत्याशङ्कयाह-अर्थमुखप्रेक्षितयाऽर्थस्य मुख लक्षणया तद्वत्स्वरूपप्रत्यायकं चिढ तत् प्रेक्षितुं शीलमस्यास्तीति तस्य भावस्तत्ता तया । च । अलङ्कारत्वेऽलङ्कारत्वस्वीकारे इति भावः । अनुप्रासादीनाम् । 'शब्दालङ्काराणा'मिति शेषः । अपि । रसादिपरत्वेनरसादौ चमत्कारात्मनि शृङ्गारादौ परस्तत्त्वेनतदनुकूलतयाऽवस्थितत्वेन । अत्राभेदे ततीया । अर्थमखप्रेक्षितयाऽर्थापेक्षित्वेन । अर्थालारत्वप्रसङः । 'स्यादिति : शेषः । अत्रे दमुक्तम्-अर्थापेक्षितयाऽऽर्थत्वेऽनुप्रासादीनां शाब्दानामप्यार्थत्वमेव स्यात् । न चानुप्रासादीनां चमत्कारेऽर्थमुखप्रेक्षित्वाभावाच्छब्दालङ्कारत्वमिति वाच्यम्, तेषां रसायुत्कर्षाभिप्रायप्रयोज्यत्वात् । अत एवोक्तं कुवलयानन्दकारैः-'तत्र सभङ्गश्लेषः शब्दालङ्कारः । अभङ्गश्लेषस्त्वर्थालङ्कार इति केचित् । (अलङ्कारसर्वस्वकारादयः ), 'उभयमपि शब्दालङ्कार इत्यन्ये (काव्यप्रकाशकारादयः) 'उभयमप्यर्थालङ्कार' इति स्वाभिप्रायः । एतद्विवेचनं तु चित्रमीमांसायां द्रष्टव्यम् ।" इति । 'नन्वभिप्रायस्यार्थालङ्कारमध्यकथनादवगतस्यापि विशेषतः कथनमन्तरेण कथमुपपत्तिरित्याशङ्कयाह-एतदिति । यद्यप्युत्प्रेक्षाप्रन्थानन्तरं चित्रमीमांसा न क्वापि दृश्यते, तथाऽप्ययमाशय उन्नीयते चमत्कारेऽर्थमुखप्रेक्षित्वादालङ्कारत्वम् ।' इति चालङ्कारचन्द्रिका (कुवलयानन्दव्याख्या ) कारैः । एतेन यत्तक्तमेभिः 'अनुप्रासयमकादेस्तु न चमत्कारेऽर्थमुखप्रैक्षित्वादालङ्कारत्वम्, अपि तु शब्दवैचित्र्याच्छब्दालङ्कारत्वमेव ।' इति तद्दत्तोत्तरम् । इति । अथ पुनः सिंहनिरीक्षणन्यायेन 'स्वराभेदादभिन्नप्रयत्नोच्चार्य्यतया शब्दार्थयो-'रेकबुन्तगतफलद्वय न्यायेन इलेषः' इति परमत निराकरोति-शब्दस्येत्यादिना ।
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy