SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ परिच्छेदः] रुधिराज्यया व्याख्या समेतः। १२३ यथा अङ्गदादयः शरीरशोभाऽतिशायिनः शरीरिणमुपकुर्वन्ति, तथाऽनुप्रासोपमाऽऽदयः शब्दार्थशोभाऽतिशायिनो रसादेरुपकारकाः । अलङ्कारा अस्थिरा इति नैषां गुणवदावश्यकी स्थितिः। शब्दार्थयोः प्रथमं शब्दस्य बुद्धिविषयत्वात् शब्दालङ्कारेषु वक्तव्येषु शब्दार्थालङ्कारस्यापि पुनरुक्तवदाभासस्य चिरन्तनैःशब्दालङ्कारमध्ये लक्षितत्वात् प्रथम तमेवाह तदेव विवृणोति-यथा । अङ्गदादयः । शरीरशोभाऽतिशायिनः शरीरिणं शरीरमायतनत्वेन यस्य तं तथोक्तम् । उपकुर्वन्ति । तथा-अनुप्रासोपमाऽऽदय । शब्दाथशोभाऽतिशायिनः । रसादेः रसः शृङ्गारादिरादौ यस्य तस्य तथोक्तस्य । उपकारका उत्कर्षयितारः । अत्रेदं तत्त्वम्-यथाऽहम्प्रत्ययस्यालम्बनं जीवः, शरीरं पुनरन्यत्, तथा काव्यत्वस्यालम्बनं रसो, वाक्यं पुनस्तदन्यत् । तत्र अगदहारादयो नायिकादीनां शरीरमेव शोभाऽ. तिशय नयन्ति, न पुनस्तदन्तर्यामिनं साक्षात्,अथापि गौणरूपेण नायिकाद्यालम्बनः शोभाऽतिशयः प्रत्याय्यते तैः । तथाहि-यथा स्वतःसम्पन्नसौन्दर्य्यमेव नायिकाऽऽदिशरीरमलङ्कुर्वन्ति यथौचित्यमवस्थापिता अङ्गदाद्या अलङ्काराः, तथा सरसस्यैव काव्यस्य वाक्यं ( शब्दमर्थं वा ) तेऽप्यनुप्रासोपमाऽऽद्याः, सौदर्य्यसद्भावे एवाङ्गदादीनामलङ्कारकत्वादिव रससत्त्वे एवानुप्रासोपमादीनामप्यलङ्कारकत्वात् । अत एव-'तमेव भान्तमनुभाति सर्वम्' इत्युक्तदिशा रसात्मनः प्रकाशानन्तरमेवे. तरेषां प्रकाशकत्वमभिमन्वते मुनयः । एवं सति रसानुपदमनुप्रासादीनामलकारकत्वाद्गौणत्वम् । अनुप्रासादीनां रसानुपदमलङ्कारकत्वमपि न सर्वदा साक्षात्, किन्तु क्वचिद्वाचकद्वारा क्वचिद्वाच्यद्वारा क्वचिद्वाचकस्यैव क्वचिद्वाच्यस्येति विवेकः । तत्र वाचकद्वारा यथा-'अपसारय घनसारं कुरु हारं दूर एव किं कमलैः । अलमलमालिमृणालैरिति वदति दिवानिशं बाला ॥' इत्यन्तरेफानुप्रासस्य विप्रलम्भानुपदम् । वाच्यद्वारा यथा-'मनोरागस्तीनं विषमिव विसर्पत्यविरतं प्रमाथी निधूम ज्वलति विधुतः पावक इव । हिनस्ति प्रत्यहं ज्वर इव गरीयानित इतो न मां त्रातुं तातः प्रभवति न चाम्बा न भवती ॥' इत्यत्रोपमाया विप्रलम्भानुपदम् । क्वचिद्वाचकस्य यथा-'अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि माम् । कम्बुकण्ठयाः क्षणं कण्ठे कुरु कण्ठातिमुर ॥' इत्यत्र टवर्गानुप्रासस्य । वाच्यस्य यथा-'मित्रे क्वापि गते सरोरुहवने बद्धानने ताम्यति, कन्दत्सु भ्रमरेषु वीक्ष्य दयितासन्नं पुनः सारसम् । चकाढेन वियोगिना विसलता नास्त्रादिता नोज्झिता कण्ठे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ॥' इत्यत्रोपमायाः । यत्तक्तं रसशून्यस्यापि काव्यत्वम् । यथा-'स्वच्छ, न्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटामूर्च्छन्मोहमहर्षिहर्षविहितस्नानाऽहिकाऽहाय वः । भिन्द्यादुद्यदुदारददुरदरीदीघीदरिद्रद्रुमद्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ॥' इत्यत्रानुप्रासात् । इति । तत्रोच्यते-नात्राप्यलङ्कारसद्भावमात्रेण । अत एवाहः-'अत्र काव्यत्वं गङ्गाविषयकरतेरभिव्यक्तेः, अङ्गिपदेन भावस्याप्युक्तेश्चा'इति। एवं 'शीणघ्राणाध्रिपाणीन् व्रणिभिरपघनैर्घघराव्यक्तघोषान दीर्घाघातानघौघः पुनरपि घटयत्येक उल्लाघयन्यः । घमाशोस्तस्य वोऽन्तर्द्विगु. णघतघणानिन्ननिर्विघ्नवतेर्दत्तार्घाः सिद्धसङ्केविदधतु घणयः शीघ्रमहोविघातम्॥' इत्यत्रापि सूर्यविषयकरतिभावस्याभिव्यक्तः। इति । नहि रीतिः शब्दार्थयोः शोभाऽतिशयविधायिकेति तस्या एतेभ्यो भेदमनभिधायेव गुणेभ्य एषाम्भेदं दर्शयतिअलङ्काराः । अस्थिरा अनियतवृत्तयः । इति । 'हेतोः' इति शेषः । एषामनियतस्थितिकानामलङ्काराणामित्यर्थः । गुणवद् गुणानामिव । आवश्यकी निश्चिता । स्थितिः। न गुणानां त्वावश्यकी स्थितिरित्येतेषां तेभ्यो भेदः'इति शेषः। यत्त्वाहुरुद्भटभट्टा:-'समवायवृत्त्या शौर्यादयः,संयोगवृत्त्या तु हारादय इत्यस्तु गुणालङ्काराणां भेदः,ओजःप्रभृतीनामनुप्रासो पमादीनां चोभयेषामपि समवायवृत्त्या स्थितिरितिगडरिकाप्रवाहन्यायेनैवैषां भेदः।इति।तत्रेदं तत्त्वम्-'समवायवृत्त्या सिद्धिरूपेण नतु वैशेषिककल्पितेन सम्बन्धविशेषेण शौर्यादयो गणास्तिष्ठन्तिासंयोगवृत्त्या संयुक्तत्वरूपेण सम्बन्धविशेषेण तु हारादयोऽलङ्कारास्तिष्टन्तीति लौकिकानां गुणानामलङ्काराणां भेदोऽस्तु । ओजःप्रभृतीनां गुणानामनुप्रासोपमाऽऽदीनामलङ्काराणामलौकिकानां समवायवृत्त्या समवेतत्वरूपेण सम्बन्धेन, न त्वेकेषां समवेतत्वरूपेण, अपरेषां संयुक्तत्वरूपेण सम्बन्धविशेषेण स्थितिः । तस्मात् ( वस्तुतयाऽभिन्नत्वे सिद्धेऽपि) गड्डरिकाप्रवाहन्यायेन गडरं मेषमनुधावतीति गड्डरिका मेषानुगतमेषपङ्क्तिस्तस्याः प्रवाहन्यायेन यथा काऽपि मेषी पुरो धावति, अन्या पुनस्तामनुधावति, सात् कूपादौ निपतति तदाऽपरापि विचारमन्तरा निपतति, तथैवैतेषामलौकिकानां भेदः। इत्येवं केनापि कस्याप्यालङ्कारिकस्य गुणालङ्काराणां भे
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy