SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ ११८ साहित्यदर्पणः। [नवमःमधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुजगे ॥ ६ ॥ भोजस्त्वाह'समस्तपश्चषपदामोजाकान्त्यविवर्जिताम् । मधुरासुकुमारां च पाश्चाली कवयो विदुः॥'इति । ५९ लाटी तु रीतिर्वैदर्भी-पाञ्चल्योरन्तरे स्थिता । प्रकाशितेति यावर्, इति या माधवी वासन्ती ( वेला) लता तस्या मधुसमृद्धया मकरन्दावादातिशयेन समेधिता वृद्धि प्रापिता मेधा धारणावती बुद्धिर्यस्यास्तया । धारणा च बुद्धेः स्वरमाधुर्यानुबन्धिनीति बोध्यम् । मेधते सङ्गच्छते खरमाधुर्यमस्यामिति मेधा । 'मेध' सङ्गमे ॥ 'गुरोश्च हलः ॥ ३।३।१०३ इति नियामकारः । 'मेधा मधुरस्वरवैलक्षण्यमिति विवृतिकाराः । उन्मदध्वनिभृता उद्गतो मदोऽस्येति उन्मद उन्मादयुक्तः, असौ ध्वनिरिति तं बिभत्तीति तया । 'अन्येभ्योऽपि दृश्यते ॥ ३।२।१०८॥ इति क्विप् । मधुकराङ्गनया मधुकरस्य भ्रमरस्याङ्गना स्त्रीति तया । भ्रमर्येत्यर्थः । मुहः पुनःपुनः । निभृताक्षरं निभृतं गुप्तमव्यक्तमिति यावद, अक्षरमति (निभृताक्षरं ) यथा भवेत्तथा । उज्जगे उत्कृष्टं गानं चके । पद्यमिदं शिशुपालवधस्थम् । अत्र व द्रुतविलम्बितं वृत्तम्, उक्तं च तल्लक्षणं प्राक् अत्र हि वचित्समासाभावः क्वचित्पुनः समासदैध्यम्, क्वचिन्माधुर्यव्यञ्जकवर्णसद्भावः, कचित्पुनर्नापीति दिक् ॥ ६७ ॥' __अत्र भोजराजमतमाह भोजः स्वनामकृतार्थः सरस्वतीकण्ठाभरणनिर्माता महाराजः । तु ।'कवयो रीतिस्वरूपा भिज्ञाः । समस्तपश्चषपदां समस्तानि समासवन्ति पञ्चषाणि पञ्च वा षडा पदानि अति ताम्। ओजाकान्त्यवि. वर्जिताम् । 'ओजः समासभूयस्त्व'मित्योजः, 'यदुज्ज्वलत्वं बन्धस्य काव्ये सा कान्तिरुच्यते ॥' इति निरुक्तस्वरूपा च कान्तिः ताभ्यामविवर्जिता न नितान्तं शून्येति ताम् । ओजःकान्तिभ्यां किञ्चिच्छ्न्यां किञ्चिच्च युक्ताम् । अनतिद्रिक्तोज:कान्तिगुणामिति भावः । अत्र सरस्वतीकण्ठाभरणव्याख्यातारः 'ओजःकान्तिविवर्जितामिति पाठमङ्गीकृत्य 'ओज:कान्त्योर्विशेषेण (आधिक्येन ) वर्जिताम् । न्यग्भूतौजःकान्तिगणामिति यावत् । यतः-तत्प्रतिद्वन्द्विनोर्माधुर्यसौकुमार्ययोस्तत्रोद्भवः । तदेतदाह-मधुरा सुकुमारां चेति।' इत्याहुः । अत्र समासव्यवस्था चिन्त्या। 'कुगतिप्रादयः ॥' २।२।१८॥ इत्यनेन विनाक्तान्तस्य वर्जतेर्धातोर्नित्यं समस्यमानत्वात् 'कर्तृकरणे कृता बहुलम् ॥' २।१।३२ इति तृतीयातत्पुरुषस्यैव सम्भवाच्च । यत्तु तर्कवागीशा:-'ओजः कान्तिसमन्वितामि' त्यङ्गीकृत्य पाठम् 'ओजः कान्तिमाधुर्यसौकुमार्यगुणयुक्तामि त्यर्थः।' इत्याहुः । तदवहेयम् । समासमयस्त्वेऽभ्युपेतव्ये 'समस्तपञ्चषपदा'मित्यस्यानर्थक्यात् समस्तपञ्चषपदत्वमात्रेऽभ्युपेतव्ये च 'ओज' इति पुनरुक्तरानर्थक्यात् । मधुरां माधुर्यव्यजकवाभावविधुराम् । यद्वा-माधुर्यगुणयुक्ताम् । माधुर्यं च 'या पृथक्पदता वाक्ये तन्माधुर्यमिति स्मृतम्।' इत्युक्तस्वरूपमेव । एवं च पञ्चषपदानामेव समस्तत्वेन नौजोऽ. तिशायि, ओजसश्चानतिशायित्वेनैव पुनर्माधुर्यस्यापि सम्भव इति स्थितम् । च । सुकुमारां कोमलवर्णयुक्ताम् । संयु. क्तवर्णभूयस्त्वविधुरामित्यर्थः । सौकुमार्यगुणयुक्तामिति भावः। सौकुमार्य च 'अनिष्ठुरत्वं यत् प्राहुः सौकुमार्य तदुच्यते ॥ इत्युक्तस्वरूपम् । 'वयसि प्रथमे॥४।१।२०' इति डोपो वयोविशेषवाचिनोऽदन्तादेव विधीयमानत्वान्नात्र प्रसक्तिः । पाञ्चालीम् । तदाख्यां रीतिमित्यर्थः । विदुः ॥' इति । आह । अत्रोदाहरणं तु-"तत्राभिघातदलिताङ्गदजर्जराणां गण्डस्थलीललितकुण्डलताडितानाम्। क्षोभस्फुटन्मुकुटकोटिविघट्टितानां नादोभवज्झणझणामुखरो मणीनाम्॥"इति निवेश्य सेयमोजःकान्त्यभावाद् आश्लिलथभावापुराणच्छाया माधुर्यसौकुमार्यवती समस्तपञ्चषपदा पाञ्चाली रीतिः।' इत्युक्तं महाराज: 'ओजःकान्त्यभावादिति । ईषदर्थे न ।' इति तु रत्नेश्वरैः । वस्तुतस्तु नेदं विविक्तमुदाहरणम् । अत:'दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः करिण्यः कारुण्यास्पदमसमशीलाः खलु मृगाः । इदानीं लोकेऽस्मिन्ननुपमशिखाना पुनरय नखानां पाण्डित्यं प्रकटयतु कस्मिन् मृगपतिः ॥' इति 'इयमसौ तरलायतलोचना गुरुसमुन्नतपीनपयोधरा । पृथुनितम्बभरालसगामिनी प्रियतमा युवजीवितहारिणी ॥' इति वाऽप्युदाहरणमुचितम् । अथ लाटीमाह-लाटोत्यादिना। - ५९ लाटो। तदाख्या रीतिः । तु । वैदर्भीपाश्चाल्योवैदर्भी च पाञ्चाली चेति तयोः । अन्तरे मध्ये। 'अन्तर नवकाशावधिपरिधानान्तर्धिभेदतादर्थे । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च ॥' इत्यमरः । स्थिता ।
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy