SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ परिच्छेदः] रुचिराख्यया व्याख्यया समेतः। काम सन्तु दृढं कठोरहदयो रामोऽस्मि सर्वसहे वैदेही तु कथं भविष्यति ह हा हा देवि धीरा भव ॥९॥' अत्रात्यन्तदुःखसहिष्णुरूपे रामे धम्मिणि लक्ष्ये तस्यैवातिशयः फलम् । 'गङ्गायां घोषः' इत्यत्र च तटे शीतलत्वपावनत्वातिशयः फलम् । पयोदाः । 'आतोऽनुपसर्गे कः ।'३।२।३ इति कः । 'पयोदोऽम्बुविमोचिनि।' इति गोपालः । सुष्टु हृदयं येषां ते सुहृदः । 'सुहृद्दुहृदौ मित्रामित्रयोः ।' ५।४।१५० इति साधुः । मयूराणामित्यर्थः । पयोदोदये हि मयूराः प्रमोदन्त इति तेषां मित्रत्वम् । कला अव्यक्ता मधुरा इत्यमरः । 'ध्वनौ तु मधुरास्फुटे। कल'इत्यमरः । आनन्दकेकाः आनन्दस्य (उत्पादिकाः) केका वाचः । 'केका वाणी मयूरस्ये'त्यमरः । कामं यथेष्टम् । 'अकामानुमतौ काम'मित्यमरः । तथा च-घनादीनां दुःखकारिवातिशयं खस्य च धीरतया कथमपि सोढ़त्वं द्योत्यते । सन्तु। ननु-एषां सहने दुःखातिपातो भविश्यतीत्याशङ्कयाह-दृढमभेद्यं यथा भवेतथेत्यर्थः । 'शक्तस्थूलो त्रिषु दृढौ'इत्यमरः । कठोरहदयः कठोरमायसतोऽपि कठिनं हृदयं मनो वक्षःस्थलं वा यस्य तथोक्तः । 'हृदयं मानसे बुक्कोरसोरपि नपुंसके ।' इति मेदिनी। रामः। अस्म्यहमित्यर्थः। अतः-सर्व समस्तं दुःखजातमिति भावः । सहे न तु किञ्चित् प्रतिकरिष्य इति भावः । यद्वा-हे सर्वलहे सर्वसहनशोले पृथिवि ! एतेन खप्रियापत्यस्यापि तथाविधाकारणानर्थसम्पातं सहस इति मदपि त्वमधिकेति सूचितम् । अस्मि अहमित्यर्थः । अव्ययमिदम् । रामः । दृढम् । कठोरहृदयः । अतो मया तु कथमपि ततःखजातं सहिष्यत इति निकृष्टम् । ननु किं पुनः शोच्यत इत्याह-तु किन्त्वित्यर्थः । वैदेही सीता । कथम् । भविष्यति । ह कष्टम् । हा कष्टम् । हा कष्टम् । हे देवि सीते, पृथिवि ! इति वा । धीरा। भव क्षणं साम्प्रतमपि तत्सहस्वेति भावः । वर्षासु सोताया विरहेण व्याकुलस्य रामस्योक्तिरियम् । महानाटकस्येदं पद्यम् । शार्दूलविक्रीडितं वृत्तम् , तल्लक्षणं चोक्तं प्राक् पृष्ठे ११ ॥९॥' इति । लक्ष्यं सङ्गमयति-अवेत्यादिना । अत्रास्मिन्नुदाहृते पद्य इति यावत् । अत्यन्तदुःखसहिष्णुरूपेयनिष्ठतया लक्षणयाऽत्यन्तमापतता दुःखानाम्भाजनत्वेऽपि सहिष्णुताऽऽत्मधर्मवत्त्वं लक्षितं तथाभूत इति भावः । गमे । धर्मिणि । लक्ष्ये । सतिसप्तमीयम् । तस्य तथाभूतस्य रामस्य । एव । अतिशयो व्यज्यमानो धीरत्वादिरूप उत्कर्ष इति भावः । फलम। अयम्भाव:-'वदेही तु कथं भविष्यतीति वैदेह्या विरहस्तद्वतश्च 'कामं सन्तु' इति तदानीं मेघादीनामपि दुःखदत्वं, 'दृढं कठोरहृदय'इति स्वस्य तेन झटिति जोवितत्यागौचित्येऽप्यतन्त्रत्वं 'रामोऽस्मी' त्यनेकेषां जन्मनः प्रभृति पितृमरणवनवासप्रियाहरणादीनामापततां क्लेशानां भाजनत्वं 'सर्वे सहे'इति तेषां भीषणत्वं स्वस्य सहिष्णुत्वं, 'त्वमपि अहमिव, किं पुनस्त्वदने निवेदयेय' मिति प्रलपनं वा 'ह हा हे'ति तथा धैर्यशालित्वेऽपि कष्टातिकष्टशालित्वेन तेषामसह्यत्वं चावेद्यते । तथा च-वैदेह्यालम्बनको घनाद्युद्दीपितो विलापानुभावको विषादादिसञ्चारिको रामनिष्ठो विप्रलम्भो ध्वन्यते । अत्र च कठोरहृदयत्वस्य सर्वसहत्वस्य चोपपत्तये 'राम'इत्युक्तम्, अन्यथा रामस्य वक्तृत्वे 'अस्मी' त्युक्त्यैव रामपदार्थलाभे रामपदस्य पौनरुत्यम् । रामपदस्य च रमणीयाहादकादिवाचकतया दुःखशालिवाचकत्वाभावात्कठोरहृदयत्वादिनाऽऽत्मनिरूपणं नोपपद्यत, तस्मालक्षणया रामपदार्थस्तथा लक्ष्यते । इति । ___ 'गडायां घोषः' इत्यत्र । च । 'प्रवाहरूपाया गङ्गाया घोषाधिकरणत्वासम्भवे मुख्यार्थवाधे लक्षणया लक्षिते तदुपपत्तये तत्सम्बन्धिनी'ति शेषः । तटे । शीतलत्वपावनत्वरूपधर्मस्य । अतिशयः । 'धोतमान' इति शेषः । फलम्। अयम्भावः-शीतलत्वादिधर्मातिशयबोधनमुद्दिश्योदाहृते 'गङ्गायां घोष इत्यादी वाक्ये घोषाद्यधिकरणतया गङ्गाऽऽदिपदानां प्रवाहादिरूपमुख्यार्थवाधात् तत्सम्बन्धिनि तटादौ घोषाद्यधिकरणतायाः सम्भवालक्षणेति धर्मगतफलमूलेयम् । 'रामोऽस्मी'त्यत्र तु दुःखसहिष्णुत्वरूपधर्मवतो रामस्योत्कर्ष बोधनरूपं प्रयोजनमनुसृत्य रामस्य च वक्तृत्वादेवास्मीति बोधे तथोक्तेर्निष्प्रयोजनत्वापत्तावर्थबाधाल्लक्षणा, सा च रामस्य दुःखसहित्वातिशयं लक्षयतीति धमिगतफलमूला। इति ।
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy