SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ परिच्छेद ] eferrer व्याख्यया समेतः । ४८ क्वचिद् दोषस्तु समता मार्गाभेदस्वरूपिणी । अन्यथोक्तगुणेष्वस्या अन्तःपातो यथातथम् ॥ ४५ ॥ मसृणेन विकटेन वा मार्गेणोपक्रान्तस्य सन्दर्भस्य तेनैव परिनिष्ठानं मार्गाभेदः । स च कचिद् दोषः । तथा हि १८५ "अव्यूढाङ्गमरूढपाणिजठराभोगं च विभ्रद् वपुः पारीन्द्रः शिशुरेष पाणिपुटके सम्मातु किं तावता । * मात्रेण कान्तिः, 'शुको वृक्षस्तिष्ठत्यप्रे' इत्यत्र दुःश्रवत्वम्, 'नीरसतहरिह विलसति पुरत: ।' इत्यत्र तत्परिहारमात्रेण सुकुमारतेत्येवमुदाहरणयोर्विदितचरत्वात् । न च कान्तिसुकुमारत्वयोर्गुणत्वं दोषाभावमात्रात्मकत्वाद्रसानुगुणत्वरूपगुणत्वानुपपत्तेश्च । अथ समत्वस्य गुणत्वं निषेधति -४८ क्वचिदित्यादिना । ४८ तु पुनः । मार्गाभेदस्वरूपिणी । मार्गों वैदर्भ्यादिरीतिः, तस्य ( मार्गस्य ) अभेदो निर्वाह:, स एव स्वरूपमिति, तदस्यास्तीति स्त्री चेत्तथोक्ता । यद्वा-मार्गाभेदः स्वरूपं यस्य ( बन्धस्य ) स मार्गाभेदस्वरूप इति, सोऽसावस्यास्तीति स्त्री चेत्तथोक्तेति । समता तदभिधेयः शब्दगुणः । क्वचिदनभिमतस्थले । दोषः । अन्यथा । अस्याः समतायाः । यथातथं यथा सङ्गच्छेत तथा । उक्तगुणेषु उक्ता ये गुणा माधुर्यौजः प्रसादाख्यास्तेषु तन्मध्ये तदेकतमे । अत्र निर्धारणे सप्तमी । अन्तःपातोऽन्तर्भावः । सम्भाव्यतामिति शेषः । अत्रायम्भावः - क्वचिद् यंत्र मार्गभेद एव भवेद् सोपकृते तत्र पुनर्यदि समता ( मार्गाभेद ) सद्भावस्तर्हि रसापकर्षकत्वेन तस्या दोषत्वमेव । यत्र पुनः क्वापि सुकुमारमार्गोऽपेक्षितः, यत्रैव पुनरोजोव्यञ्जकमार्ग ( गौडी ) परिहारासद्भावस्तत्रापि तर्हि रसापकर्षकत्वेन दोषः । यत्र तु मार्गंभेदो रसोपकृते एव तत्रापि पुनर्माधुर्यव्यञ्जकैर्वर्णैस्तत्र माधुर्ये, यत्रौजोव्यञ्जकैस्तत्रौजसि, यत्र पुनर्झटित्यर्थसमर्पकैस्तत्रास्याः (समताया:-) प्रसादेऽन्तर्भावो ऽवसेयः । इति । अथ तदेव विवृणोति - मसृणेनेत्यादिना । मसृणेन कोमलन माधुर्याधायकेनेति यावत् । 'मसृणोऽकर्कशे स्निग्धे त्रिषु मायां तु योषिति ।' इति विश्वः । वाऽथवा । विकटेनोद्धतेनोजोऽनुगुणेनेति यावत् । मार्गेण परिपाव्या । उपक्रान्तस्यारव्धस्य । सन्दर्भस्य ग्रन्थस्य । तेन येनोपक्रम आरब्धः । एव नतु तद्विपरीतेन । परिनिष्ठानं यावत्परिपूर्तिस्तावन्निर्वाहः । मार्गाभेदः । उक्तं च वामनेन - 'मार्गाभेदः समता ॥ ३ । १ । १२ ॥ ' इति वित्रुतं च रसगङ्गाधरे 'उपक्रमादासमाप्ते रीत्यभेदः समता ॥ ' इति । अथ । मार्गाभेदः । क्वचिन्मार्गभेदस्य यत्र रसोपकारकत्वं तत्र । दोषो रसापकर्षकत्वात् । तथा यथा कचिद् दोष इति शेषः । हि एव । "अव्यूढाङ्गम्'' ..." इति । "अव्यूढाङ्कं नव्यूढं धृतं सामर्थ्यमिति, तथाभूतम करचरणादि यस्य यत्र वेति तत् । अप्रतशैथिल्याङ्गमित्यर्थः । तथा । अरूपाणिज राभोग मरूडोऽनिष्पन्नः पाणिजठराभोगो यत्र यस्य वेति तत् । पाण्यो हस्तयोस्तदात्मकयोरग्रिमपादयोरिति यावज्जठराभोग इति । जठरः कठिनोऽसावाभोगः परिपूर्णत्वमिति । “ जठरः कठिनेऽपि स्यात् " इत्यमरः । ' आभोगः परिपूर्णता ।' इत्यमरः । इदं पुनर्विशेषणं सर्वथाऽपेक्षितस्य पाणिकाठिन्यस्याभावद्योतनार्थम् । यद्वा- 'अरूढपाणी 'ति 'जठराभोग' मिति च पदद्वयम् । तथा च अरूढौ पाणी यस्य यत्र वेति तत् । जठरे कुक्षौ आभांग यस्य तत् । अलब्धसामर्थ्यम् । 'सप्तमीविशेषणे बहुव्रीहौ ।' २ । २ । ३५ । 'जठरो न स्त्रियां कुक्षौ बद्धवक्षयोनिषु ।' इति मेदिनी । 'आभोगो वरुणच्छत्रे पूर्णतायत्नयोरपि ।' इति विश्वः । यद्वा-जठरे आभोग इति स यथा भवेत्तथा । वपुः शरीरम् । बिभ्रद् बिभर्तीति तथोक्तः । एषः । शिशुरतीव बालः । पारीन्द्रः सिंहः । 'कुण्ठीरवस्तु पारीन्द्रः केशरी गजमोहनः ( मर्दनः ) ।' इति हारावली । पाणिपुटके स्थित इति शेषः । सम्मातु । अत्र 'लोटू च ।' ३ । ३ । १९२ इति कामचारे लोट् । तावता तथा तस्य परिमितत्वेन । किम् । न्यूनत्वमिति १४
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy