SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ ६१ साहित्यदर्पणः। [ सप्तमः७ एभ्यः पृथगलङ्कारदोषाणां नैव सम्भवः । एभ्य उक्तदोषेभ्यः। तथा हि-उपमायामसादृश्यासम्भवयोरुपमानस्य जातिप्रमाणगतन्यूनत्वाधिकत्वयोरर्थान्तरन्यासे उत्प्रेक्षितार्थसमर्थने चानुचितार्थत्वम् । क्रमेण यथा-'अनामि काव्यशशिनं विततार्थरश्मिम्"प्रज्वलज्जलधारावनिपतन्ति शरास्तवा' 'चण्डाल इव राजाऽसौ सङ्ग्रामेऽधिकसाहसः।' 'कर्पूरखण्डमिव राजति चन्द्रबिम्बम्।' 'हरवन्नी वर्णने रसपोषस्तस्य पदार्थस्य तथा वर्णनाभावः । ननु तर्हि प्रकृतिविपर्यय एवेति वाच्यम् । इति चेत् म, एतस्य प्रकृतिविपर्ययभिन्नस्थले एवावतारखीकारात्, तस्य च प्रकृतीनां वैपरीत्यमात्रमलकत्वात् । वस्तुतस्तु सर्वेऽप्यमी दोषा अनौचित्यनिबन्धनाः, परिगणनप्रकारस्य तत्तत्सहृदयत्वप्रतिपादनार्थमात्रत्वात् ।तथा चोक्तम्-'अनौचित्यादृते नान्यद्रसभजस्य कारणम् । औचित्योपनिबन्धस्तु रसस्योपनिषत् परा ॥' इति । अथापि-निर्दिष्टेभ्यो व्यतिरिक्तं दूषणजातमीनौचित्यमिति मन्तव्यम् । तच्च स्वयं सुधीभिर्विमृग्यम् । अत एव काव्यप्रकाशकारेणोक्तम्-"ईदृशा इति । नायिकापादप्रहारादिना नायककोपादिवर्णनम् ।" इति । एवं च-'अन्यत्' इति मूलकारोक्तं सुतरां सम्पन्नम् । तत्र देशानौचित्यं यथा-'मध्ये विबुधेशसभं निजदर्शनतः प्रमोहमृच्छन्तीम् । गायन् दृष्ट्वा दयितां धर्षितचेतास्तुरङ्गमुखः ॥' इति । कालानौचित्यं यथा-'वहति समन्तात् सुरभौ... इति दर्शितमेव । अधिकारानौचित्यं यथा-'बिम्बोष्ठं बहु मनुते तुरङ्गवक्त्रश्चुम्बन्तं मुखमिह किन्नरं प्रियायाः । दिलष्यन्तं मुहुरितरोऽपि तां स्वकान्तामुत्तुङ्गस्तनभरभङ्गभीरुमध्याम् ॥' इत्यत्र निजदयितायाः परसझे नान्तः प्रमोदाभिधानात् । ननु असदृशत्वप्रभृतीनामलङ्कारदोषाणां परम्परया काव्यात्मभूतरसापकर्षकतया काव्यदोषत्वमेवेति तेऽपि वाच्याः ? इत्याशङ्कयामी यथातथमेतेष्वन्तर्भाव्या इत्याह-७ एभ्यः...इत्यादिना । ७ एभ्यो निरुक्तदोषेभ्य इत्यर्थः । पृथक् पृथग्भूतः । अलङ्कारदोषाणामलङ्काराणामुपमाऽऽदीनामनुप्रासा. दीनां च ये दोषास्तेषाम् । सम्भवः। एव । न 'अथ कथं ते पृथगुच्येरन्' इति शेषः । ___.अथ--कारिकोक्तम् 'एभ्यः' इति पदं समवगमयति-एभ्यः । उक्तदोषेभ्यः। इति । अन्तर्भावप्रकारमाहतथाहि । उपमायाम् । असादृश्यासम्भवयोरसादृश्ये साधारणधर्मप्रसिद्धयभावेऽसम्भवे उपमानप्रसिद्धयभावे चेत्यर्थः। तथा-उपमानस्य येन सादृश्यमनुमीयते तस्येत्यर्थः । जातिप्रमाणगतन्यूनत्वाधिकत्वयोर्जातिगतन्यूनत्वे प्रमाणगतन्यूनत्वे जातिगताधिकत्वे प्रमाणगताधिकत्वे चेति भावः। च पुनः। अर्थान्तरन्यासे तदाख्येऽलङ्का।उत्प्रेक्षितार्थस. मर्थने उत्प्रेक्षितार्थस्य समर्थनमयुक्तत्वेऽपि यथाकथञ्चित् तत्र युक्तवत्सम्भावनं तत्र अनुचितार्थत्वं तन्नामा दोष इत्यर्थः। अथोदाहर्त्तमुपक्रमते-क्रमेणानुपूर्ध्या । यथा-'विततार्थरश्मि विततोऽर्थरश्मियस्येति तथोक्तम् अर्थो रश्मिारवेति । काव्यशशिनं काव्यं शशीवेति तथोक्तम् । अनामि निबध्नामीत्यर्थः । 'चञ्चच्चमत्कृतिसुधीयमहाप्रवाहम। तेन प्रसीदतु मुकुन्दनरेन्द्रचन्द्रमौलि: सुनीतिदयया भयहा प्रजायाः॥' इति शेषः । अनायम्भाव:-काव्यं शशीवेत्युप मितसमासः, नतु 'काव्यमेव शशी'ति रूपकसमासोऽयम्, रूपकस्यापि सादृश्यमूलकतया तत्राप्ययं सम्भवति दोष इति मन्तव्यम्, 'प्रथ्नामि' इति बाधकोपस्थानात् । काव्यादीनां च शश्यादिभिः सादृश्यस्य कुत्रापि न प्रतीतिः प्रसिद्धिरिति साधर्म्यप्रतीत्यभावेनासादृश्यरूपमनुचितार्थत्वम् । इति । 'प्रज्वलज्जलधारावत् प्रज्वलन्त्योऽमी जलधारास्ताभिस्तुल्यम् । तव। शराः। निपतन्ति । 'यन्निपातेन सन्तापं प्राप्ता धावन्ति शत्रवः ॥' इति शेषः । अत्रायम्भावः-वह्निकर्मणः प्रज्वलनस्य जलेषु असम्भवात्तद्विशिष्टतया तद्धाराणामप्यसम्भव इति उपमानप्रसिद्धयभावेनासम्भवरूपमनुचितत्वम् । इति । असौ । राजा । चण्डालो हिंस्राधमः । इव । सङ्ग्रामे । अधिकसाहसोऽधिकं साहसं दुष्करकर्म यस्य सः । 'मारयित्वा पुरःप्राप्तान् करोति बलिसा(लात् ॥' इति शेषः । अत्रायम्भावः-राजरूपोपमेयजात्यपेक्षया चाण्डालरूपोपमानजातेन्यूनत्वेन दुष्कर्मकारित्वं प्रत्याययतीत्यनुचितार्थत्वम् । इति ।' 'कर्पूरखण्डमिव । चन्द्रबिम्बम् । राजति । 'नक्तंदिवा तु रविरेष यथा स्फुलिङ्गः शीतादितस्य कृपणस्य जनस्य हन्त ॥ तत्स्यात् कदा कथमिति प्रशमोरु
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy