SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ - साहित्यदर्पणः । [सप्तमः'आङोयमहनः ।' १।३।२८ इत्यनुशासनबलादापूर्वस्य हनः स्वाङ्गकर्मकस्यैवात्मनेपदं नियमितम्, इह तु तल्लङितमिति व्याकरणहीनत्वाच्युतसंस्कारत्वम्।। नन्वत्र 'आजन्ने' इति पदस्य स्वतो न दुष्टता, अपि तु पदान्तरापेक्षयवेत्यस्य वाक्यदोपता, मैवम् । तथाहि-गुणदोषालङ्काराणां शब्दार्थगतत्वेन व्यवस्थितेस्तदन्वयव्यतिरेकानुविधायित्वं हेतुः । इह च दोषस्य 'आजत्ने' इतिपदमावस्यान्वयव्यतिरेकानुविधायित्वम् । पदान्तराणां परिवर्तनेऽपि तस्य तादवस्थ्यमिति पददोषत्वमेव । तथा यथेहात्मनेपदस्य परिवृत्ती न दोषः, तथा 'हन्' प्रकृतेरपीति न पदांशदोषः । 'आङोयमहनः।' १।३।२८ इत्यनुशासनबलात् । आपूर्वस्य-हनो हन्तेर्धातोः । स्वाङ्गकर्मकस्य । एव 'सकर्मकत्वविवक्षाया मिति शेषः। अन्यथा 'स्वाङ्गकर्मकाचेति वक्तव्यम् ।' इत्यत्र 'चेति सार्थकं न स्यात् । तेन सकर्मकत्वविवक्षायां सत्यामेव स्वाङ्गकर्मकन्येत्यर्थः । आत्मनेपदम् । नियमितम, इह निरुक्तस्थल-तु। तद'अनुशासन मिति शेषः । लक्षितं 'सकर्मकत्वविवक्षासद्भावेऽपि पराङ्गकर्मकत्वे आत्मनेपदविधानादिति शेषः । इतीत्येवम् । व्याकरणहीनत्वाद् व्याकरणलक्षणानाक्रान्तत्वात् । च्युतसंस्कारत्वं दोष' इति शेषः । अत्राहुमल्लिनाथा:-'अत्रात्मनेपदं विचार्यम् 'आङोयमहनः ।' इत्यत्राकर्मकाधिकारात् 'स्वाङ्गकर्मकाच' इति वक्तव्यत्वात्, न च शिवस्य प्रतिमुखमित्यन्वयात् कनकशिलानिभं कनकनिषकतुल्यं श्याम ववक्ष आजघ्ने इत्यर्थः, इति वाच्यम्; अनौचित्याचरणात्। न हि युद्धाय सनद्धा निपुणा अपि मलाः स्ववक्षस्ताड़नमाचरन्ति, किन्तु, स्वभुजास्फालनम् । किञ्च अनन्तरवक्ष्यमाणभवकर्तृकाविनयस इनविरोधाद्वक्षएवेत्यन्वयस्याव्यवधानाच पूर्वेरेव दूषितत्वात्, अतो व्याकरणान्तराद् द्रष्टव्यम् । केचित्तु त्र्यम्बकस्य वक्षः प्राप्यत्यध्याहारं स्वीकृत्याकर्मकत्वादात्मनेपदमाहुः ।' इति । स्थूगानिखणनन्यायेनात्र पददोषत्वं प्रतिपादयति-नन्वित्यादिना । ननु अत्र । 'आजन्ने इतिपदस्य । स्वतः पदान्तरानपेक्षया। दुष्टता दुष्टत्वम् । न 'सम्भवतीति शेषः । अपि तु । पदान्तरापेक्षया। इति । अस्य निरुक्तोदाहरणस्य च्युतसंस्कारत्वस्य । वाक्यदोषता 'न तु पददोषता स्यादिति शेषः । एवम् । उत्तरयति-एवम् । 'मा वादी रिति शेषः । तथा हि । गुणदोषालङ्काराणाम् । शब्दार्थगतत्वेन । व्यवस्थिते व्यवस्थायाः । तदन्वयव्यतिरेकानुविधायित्वं तस्य शब्दार्थगत. त्वस्यान्वयव्यतिरेका विति, तौ अनुविधातुं शीलमस्यास्तीति तस्य भावस्तत्त्वम् । हेतुः । यत्सत्त्वे यत्सत्त्वं, सोऽन्वयः, यसत्त्वे यसत्त्वं स व्यतिरेकः; तथा च शब्दगतत्वे सति गुणादिसत्त्वं शब्दगतत्वाभावे गुणादि. सत्वाभावश्च गुणादीनां शब्दगतत्वे हेतुः, अर्थगतत्वे सति गुणादिसत्त्वमर्थगतत्वाभावे गुणादिसत्त्वाभावो गुणादीनामर्थगतत्वे हेतुरिति नियमः इति निष्कृष्टम् । इहास्मिन् 'उन्मजन्' इति पद्ये । च । दोषस्य च्युतसंस्कारत्वस्य । 'आजन्ने' इति पदमात्रस्य । अन्धयव्यतिरेकानुविधायित्वम् । 'आजघ्ने' इति पदस्य सत्त्वासत्त्वाभ्यां तस्य दोषस्य सत्त्वासत्त्वे इति भावः । हि यतः । पदान्तरराणां 'गाण्डीवी' त्यादीनाम् । परिवर्तने 'कृते' इति शेषः । अपि । तस्य च्यु तसंस्कारत्वस्व । तादवास्थ्यम् एव । इतीत्यतः पददोषत्वम् । एव । 'गाण्डीवी' त्यादीनां पायान्तरन्यासेऽपि यावदाजघ्ने इति पदस्य पायान्तराभावस्तावनिरूक्तदोषस्य निवृत्त्यभाव इति पददोषत्वमेवेति भावः । तथा। यथा । इह 'आजन्ने' इत्यत्र । आत्मनेपदस्य । परिवृनौ 'कृताया'मिति शेषः । 'आजन्ने' इत्य. पठित्वाऽऽ'जघाने' पठने इति भावः । दोषः। न भवतीति शेषः । तथा । 'हन्' प्रकृते'हन्' इत्यस्याः प्रकृतेः प्रत्ययोत्पत्तिनिमित्तभूतस्य शब्दविशेषस्येति यावत् । अपि 'परिवृत्तौ न दोष' इति शेषः । इतीत्येवकृत्वा । पदांशदोषः पदांशस्य दोषः । न 'सम्भवती'तिशेषः । अत्रेदमभिहितम्-'आजन्ने' इत्यत्र पदांशदोषो न भवितुमर्हति, अन्वयभ्यतिरेकानुविधायित्वासम्भवात् । तथाहि-यत्र यत्रात्मनेपदं तत्र तत्र पदांशदोष इति न सम्भवति, अत्र हि पराङ्गक कता. मात्रनिवृत्तौ आत्मनेपदसत्त्वेऽपि दोषानवस्थानम् । ननु पराङ्गकर्मकसद्भाव एवेति चेत् ? 'हन्' इति प्रकृतेः परिवृत्तौ कथन ? अथ-यत्र पराङ्गकर्मकतासद्भावे हन् प्रकृतरुत्तरमात्मनेपदं तत्र दोष इति वक्तुं शक्यते, तथा सति आयात पददो. षत्वम् ‘ननु यद्येवं' तर्हि 'तद्च्छ सिद्धये' इत्यत्र कथं पदांशदोषः 'सिधू' प्रकृतेरुत्तरं 'क्ति' प्रत्ययसद्भाव एव दोषावर
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy