SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ परिच्छेदः ] यथा वा रुचिराख्यया व्याख्यया समेतः । . ४९ 'उपकृतं बहु तत्र किमुच्यते सुजनता प्रुथिता भवता परम् । विदधदीदृशमेव सदा सखे! सुखितमा स्व ततः शरदां शतम् ' ॥ ५ ॥ अत्रापकारादीनां वाक्यार्थेऽन्वयसिद्धये उपकृतादयः शब्दा आत्मानमर्पयन्ति । अपकारिणं प्रत्युपकारादिप्रतिपादनात् मुख्यार्थबाधः, वैपरीत्यलक्षणः सम्बन्धः, फलमपकारातिशयः । इयमेव 'जहत्स्वार्थे' त्युच्यते । १९ आरोपाध्यवसानाभ्यां प्रत्येकं ता अपि द्विधा । उदाहरणान्तरं दर्शयति-यथा वा उपेत्यादि । 'हे सखे मित्र ! भवता न तु त्वया । बहु अत्यन्तम् । उपकृतम् । तत्र तस्मिन् उपकारविषय इत्यर्थः । किम् । उच्यते न किमपीति भावः । सुजनता सौजन्यम् । परं केवलम् । (इदमव्ययम्) । प्रथिता विख्यातिं नीता । ततस्तस्माद्धेतोः । ईदृशं यथैतदुपकृतं सुजनता च प्रथिता तथाभूतमिति भावः । एव न त्वन्यविधम् । सदा न तु यदा कदा वा । विदधद् विदधानः । शरदां वत्सराणाम् । 'हायनोऽस्त्री शरत्समाः । इत्यमरः । शतं शतावधि । ‘कालाध्वनोरत्यन्तसंयोगे ।' २।३।५ इति द्वितीया । सुखितं सुखं जातं यस्मिन् कर्म्मणि तत्तथा । आ/ स्वोपविश स्थितो भव । अत्रा'स्ता' मिति वक्तव्येऽपि तथा वचश्छन्दोऽनुरोधात् । अपकारिणं प्रति कस्यचिदुक्तिरियम् । द्रुतविलम्बितं वृत्तम्, तल्लक्षणं चोक्तं यथा - ' द्रुतविलम्बितमाह नभौ भरौ ।' इति ॥ ५ ॥ अत्र लक्षणं सङ्गमयति- अत्रेत्यादिना । अत्रास्मिन्नुदाहृते पद्य इत्यर्थः । उपकृतादय 'उपकृतं बहु' इत्यादिना पठिताः । शब्दाः । अपकारादीनां तात्पय्र्येणोन्नेयानाम् ' अपकृतं बहु' इत्यादिनाऽभिधेयानामिति यावत् । वाक्यार्थे 'उपकृतं बहु' इत्यादिवाक्यस्यार्थे । अन्वयसिद्धयेऽन्वयस्य सम्बन्धस्य सिद्धिस्तस्यै । आत्मानं स्वं स्वार्थमिति यावत् । अर्पयन्ति । अपकारिणं 'बोद्धव्य ' मिति शेषः । प्रति । उपकारादिप्रतिपादनात् 'उपकृत' मित्यादिनेति शेषः । मुख्यार्थबाधो मुख्यार्थस्य ' उपकृत ' मित्यादिपदार्थस्य बाधः ‘अपकृत' मित्यादिरूपेण वैपरीत्येन द्योतनात्तिरस्कार इति तथोक्तः । वैपरीत्यलक्षणो वैपरीत्यम् अपकारस्योपकारात्मना प्रतिपादनात् विरुद्धं लक्षणं यस्य तादृशः । सम्बन्धः । अपकारातिशयः । उपलक्षणेन स्वस्थ सुजनताद्योतनं चेत्यर्थः । फलं प्रयोजनम् । इदमुक्तम्- ' उपकृतं बहु..' इत्येवमपठित्वा यदि - ' अपकृतं बहु तत्र किमुच्यते कुजनता प्रथिता कुटिल ! त्वया । विदधदीदृशमेवमुपेष्यसि व्यसनमन्त्यज ! यन्न पुनर्भवेः ॥' पठितमभविष्यत् तर्हि अपकारिणं प्रत्यपि अभिधानम् । एवं मुख्यार्थबाधे वैपरीत्येन मुख्यार्थसम्बन्धे लक्षणा उपकृतादिपदानां चापकृताद्यर्थो - पलक्षणादसौ लक्षणं नाम लक्षणा प्रयोजनमूला । प्रयोजनं च वक्तुः स्वसुजनताऽतिशयप्रकटनपूर्वकं सम्बोध्यस्य कुजनताऽतिशयपूर्वकमपकारिताऽतिशयः । इति । अस्याः सञ्ज्ञान्तरमाह - इयम् । एव । 'जहत्स्वार्था जहत्त्यजन् स्वार्थी यां सा तथाभूता ।' इत्युच्यते । एवमजहत्स्वार्थापरपर्य्यायामुपादानाख्यां, जहत्स्वार्याऽपरपर्थायां च लक्षणाख्यां रूढिमूलां प्रयोजनमूलां च लक्षणी प्रदर्श्यासां भेदान्तरद्वयं प्रदर्शयितुमाह- १९ आरोपेत्यादि । १९ ता रूढिमूला प्रयोजनमूला चेति द्वे तथोक्ते चैवमुपादानलक्षणलक्षणे द्वे इत्येवं चतुर्विधा लक्षणा इत्यर्थः । अपि पुनः । आरोपाध्यवसानाभ्यामारोपेणाध्यवसानेन च । 'प्रकृत्यादिभ्य उपसङ्ख्यानम्' इत्यनेन विशेषणेऽर्थे तृतीया । प्रत्येकम् । द्विधा भिद्यन्त इति शेषः । अयं भावः - आरोप- स्तावत् अनिगीर्णस्वरूपस्य विषयस्यान्यतादात्म्यप्रत्यायनहेतुः । अध्यवसानं पुनर्निगीर्णस्वरूपस्य विषयस्य, आभ्यां च प्रत्येकं विशेष्यमाणास्ता द्विधा भूत्वाऽष्टविधा भवन्ति । इति । ७
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy