SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः । यथा-बिन्दुमती | अथ प्रकरणिका । ६१५ नाटिकैव प्रकरणी सार्थवाहादिनायका । समानवंशजा नेतुर्भवेत् तत्र च नायिका || ६०३ ॥ मृग्यमुदाहरणम् । अथ हल्लीश: ६१६ हल्लीश एवमेकाङ्कः सप्ताष्टौ दश वा स्त्रियः । वागुदात्तैकपुरुषः कौशिकी वृत्तिरुज्ज्वला ॥ ६०४ ॥ मुखान्तिमौ तत्र सन्धी बहुताललयस्थितिः । यथा - केलिरैवतकम् । अथ भाणिका ६१७ भाणिका श्लक्ष्णनेपथ्या मुखनिर्वहणान्विता ॥ ६०५ ॥ कौशिकी भारती वृत्तियुक्तैकाङ्कविनिर्मिता । उदात्तनायिका मन्दपुरुषा (5) ६१८ अत्राङ्गसप्तकम् ॥ ६०६ ॥ उपन्यासोऽथ विन्यासी विबोधः साध्वसं तथा । समर्पण निवृत्तिश्च संहारे इति सप्तमः || ६०७ ॥ .३० 'अ' इति पूर्वतोऽन्वेति । षण्णालिकः षट् नालिका यत्र तादृशः । द्वादशघटिकासम्पाथेतिवृत्त निबद्ध इति भावः । पीठमदेविलासवान् पीठमर्दों नायकसहायक विशेषस्तस्य विलासोऽस्मिन्नस्तीति तथोक्तः । चतुर्थः । अङ्कः । च । दशनालिर्विशतिघटकासम्पाद्येतिवृत्तनिबद्धः । क्रीडितनागरः क्रीडितो जातक्रीडस्तत्तया वर्णित इति याव नागरश्वतुरजनो यत्र तादृशः । स्यात् । द्वितीयोऽङ्कस्तु यथासम्भवं सङ्घटित एवेति बोध्यम् ॥ ६०१-६०२ ॥ उदाहरति यथेत्यादिना । स्पष्टम् । प्रकरणिकां लक्षयितुमाह-अथ । प्रकरणिका लक्ष्यते ६१५ सार्थवाहादिनायका वणिगमात्यपुरोहिताद्यन्यतमनायकेति भावः । ' वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक् ।' इत्यमरः । नाटिका । एव । प्रकरणी । तत्र तस्याम् । च । नेतुर्नायकस्य । समानवंशजा यद्वर्णे नायकस्तद्वर्णेति भावः । नायिका । अयम्भावःनाटिकाया यलक्षणं तदधिकृतैवेयं, किन्तु नायिकानायकयोरन्तर्विशेषः । इति ॥ ६२० ॥ उदाहरणं च प्रायो दुर्लभमित्यत आह- मृग्यमित्यादि । स्पष्टम् । I हल्लीशं लक्षयितुमाह-६१६ एवम् | हल्लीशस्तदाख्यमुपरूपकम् । एकाङ्कः । तत्र । सप्त । अष्टौ । दश । वा । खियः । ' व्यादृता भवन्ती 'ति शेषः । उदात्ता । वाकू वर्णनम् । एकपुरुष एको नटः । उज्ज्वला । कौशिकी । वृत्तिः । मुखान्तिमौ मुखनिर्वहणाख्यावित्यर्थः । सन्धी । तथा - बहुताललयस्थितिर्बह्वी ताललययोः स्थितिः ॥ ६०४ ॥ उदाहरति-यथेत्यादिना । स्पष्टम् । भाणिक लक्षयितुमाह-६१७ लक्षणनेपथ्या श्लक्ष्णं मधुरं नेपथ्यं वेषरचना यत्र तादृशी । मुख निर्वहणान्विता मुखनिर्वहणाख्याभ्यां सन्धिभ्यामुपेता । कौशिकीभारतीवृत्तियुक्ता । एकाङ्कविनिर्मिता एकाङ्का । उदात्तनायिका धीरोदात्तनायकानुरूपा नायिका यत्र तादृशी । मन्दपुरुषा मन्दो हीनः पुरुषो यत्र तादृशी । 'अमन्द पुरुषे' ति पाठे तु अमन्दो धीरोदात्तः पुरुषो नायको यत्र तादृशी । भाणिका 'स्या' दिति शेषः ॥ ६०५ ॥ अत्र विशेषमाह-- ६१८ अत्रास्मिन् भाणिकानामक उपरूपक इत्यर्थः । अङ्गसप्तकं सप्ताऽङ्गानि भवन्ति । तानि कानीत्यत आह- उपन्यास इत्यादि । स्पष्टम् ॥ ६०६ ॥ ६०७ ॥ દુઃ
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy