________________
५३५
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः। यथा-मायाकापालिकम् । अथ श्रीगदितम्६०९ प्रख्यातवृत्तमेकाई प्रख्यातोदात्तनायकम् ॥ ५९० ॥
प्रसिद्धनायिकं गर्भविमर्शाभ्यां विवर्जितम् । भारतीवृत्तिबहुलं श्रीतिशब्देन संयुतम् ॥ ५९१॥
मतं श्रीगदितं नाम विद्वद्भिपरूपकम् । यथा-क्रीडारसातलम् । ६१० श्रीरासीना श्रीगदिते गायेत् किश्चित् पठेदपि ॥ ५९२ ॥
एकोङ्को भारतीप्राय इति केचित् प्रचक्षते । ऊह्यमुदाहरणम् अथ, शिल्पकम्६११ चत्वारः शिल्पकेऽङ्काः स्युश्चतस्रो वृत्तयस्तथा ॥ ५९३ ॥
अशान्तहास्याश्च रसा नायको ब्राह्मणो मतः।
वर्णनाऽथ श्मशानादेहीनः स्यादुपनायकः ॥ ५९४ ॥ ६१२ सप्तविंशतिरङ्गानि भवन्त्येतस्य तानि तु। '
आशंसोतसन्दहे-तापोद्वेगंप्रशक्तयः ॥ ५९५ ॥
छलसङ्ग्रामः छलपूर्णः सङ्ग्रामो, विद्रवः पलायनं च । भवेयुर्वर्णनीयाः स्युः । तत्र तस्मिन्नेत संलापके । भारती । वृत्तिः। न । भवति । नच । कौशिकी किन्तु एताभ्यां भिन्ने सात्वत्यारभटी एवेति भावः ॥ ५८८ ॥ ५८९ ॥
उदाहरति-यथेत्यादिना । स्पष्टम् ।
श्रीगदितं लक्षयितुमाह-अथ । श्रीगदितम् । 'लक्ष्यत' इति शेषः । ६०९ प्रख्यातवृत्तं प्रसिद्धमितिवृत्त्व. मादाय गुम्फितम् । एकाङ्कम् । प्रख्यातोदात्तनायकं प्रसिद्धं धीरोदात्तं नायकमधिष्ठाय वर्णितम् । प्रसिद्धना. यिकम् प्रसिद्धा नायिका यत्र तादृशम् । गर्भविमर्शाभ्यां सदाख्याभ्यां सन्धिभ्याम् । विवर्जितम् । भारती त्तिबहुलं प्रायेण भारती वृत्तिमाश्रित्य रचितम् । श्रीतिशब्देन । संयुतं श्रीशब्दस्य विन्यासेन प्रचुरम् । श्रीग. दितम् । नाम प्रसिद्धम् । उपरूपकम् । विद्भिः । मतमङ्गीकृतम् ॥ ५९० ॥ ५९१ ॥
उदाहरति-यथेत्यादिना । स्पष्टम् । .
परमतेन तस्य विशेषमाह--६१० श्रीगदिते । आसीनोपविष्टा । श्रीलक्ष्मीस्तद्रूपवेशा नटीति भावः । किश्चित् । गायेत् । किञ्चित् पठेत् । अपि । तथा-एकः। अङ्कः । प्रायः प्रायेण । 'प्रायो भून्नी'त्यमरः । भारती । इति । केचित् । प्रचक्षते ॥ ५९२ ॥
उदाहरणं नोपलभ्यत इत्यभिप्रायेणाह-ऊह्यमित्यादि । स्पष्टम् ।
शिल्पकं लक्षयति-अथ । शिल्पकम् । 'लक्ष्यते'इति शेषः। ६११ शिल्पके । चत्वारः । अङ्काः । तथा । चतस्रः सर्वा इति भावः । वृत्तयो भारतीकौशिकीसात्वत्यारभट्यः । स्युः। अशान्तहास्याः शान्तहास्याभ्यां व्यतिरिक्ताः । च । रसाः। ब्राह्मणः। नायकः। मतः। अथ । श्मशानादेः। आदिना दग्धारण्यादेग्रहणम् । वर्णना । एवम्-उपनायकः। हीनो नीचः । स्यात् ॥ ५९३ ॥ ५९४ ॥
एतस्याङ्गानि सङ्ख्यानिर्देशपूर्वकमुपदिशति-६१२ एतस्य शिल्पकाख्यस्योपरूपकस्य । सप्तविंशतिः । अङ्गानि । भवन्ति । तानि । तु पुनः । आशंसातर्कसन्देहतापोद्वेगप्रशाक्तयः । अत्राशंसाऽभिलषितार्थ