________________
[षष्ठः
. साहित्यदर्पणः। ... ५७९ अस्यास्त्रयोदशाङ्गानि निर्दिशन्ति मनीषिणः।
"उद्घातकावलगिते प्रपञ्चस्त्रिगतं छलम् ॥ ५५२ ॥ वाककेल्यधिबले गण्डमवस्यन्दितनालिते ।
असत्प्रलापव्याहार-मार्दवानि च तानि तु ॥ ५५३ ॥ तत्रोद्घातकावलगिते प्रस्तावनाप्रस्तावे सोदाहरणे लक्षिते ।
५८० मिथो वाक्यमसद्भूतं प्रपञ्चो हास्यकृन्मतः। मथा-विक्रमोर्वश्याम, वलभीस्थविदूषकचेट्योरन्योऽन्यवचनम् ।
५८१ त्रिगतं स्यादनेकार्थयोजनं श्रुतिसाम्यतः ॥ ५५४ ॥ यथा-तत्रैव, “राजा-... . सर्वक्षितिभृतां नाथ! दृष्टा सर्वाङ्गसुन्दरी। रामा रम्ये वनान्तेऽस्मिन् मया विरहिता त्वया॥३३१॥ (नेपथ्ये तथैव प्रतिशब्दः )। राजा कथं यथाक्रमं दृष्टेत्याह ॥" इत्यत्र प्रश्नवाक्यमेवोत्तरत्वेन योजितम् । 'नटादित्रितयविषयमेवेद' मिति कश्चित् ।
अस्या भेदानाह-५७१ अस्या निरुक्तलक्षणस्य वीथीनाम्नो रूपकस्येत्यर्थः । स्पष्टमन्यत् ॥५५२॥ ५५३ .॥ उद्घातकावलगिते पूर्व लक्षिते इत्याह-तत्रेत्यादिना । स्पष्टम् ।
प्रपञ्चं लक्षयति-५८० मिथः परस्परम् । असद्भूतमसत्यम् । हास्यकृत् हास्योद्भावकम् । वाक्यम् । प्रपश्चः । मतः।
उदाहरति-यथेत्यादिना । यथा । विक्रमोर्वश्याम् 'द्वितीयेऽङ्क' इति शेपः । बलभीस्थविदूषकचेट्योचलभ्यां प्रासादोपरि तिष्ठत इति तथोक्त विदूषकचेटी तयोः। 'शुद्धान्ते वलभी चन्द्रशाले सौधोवेश्मनि ।' इति रभसः । अन्योऽन्यवचनं परस्परं वचनप्रतिवचने ।
त्रिगतं लक्षयति- ५८१ श्रुतिसाम्यतः श्रतिः पदानां कर्णविषयीभवनं तत्र साम्यं सादृश्यप्रत्ययस्तस्मात् । पञ्चम्यर्थे तसिल । अनेकार्थयोजनमनेकार्थप्रतिपादकतया कल्पना। त्रिगतम् । स्यात् ॥ ५५४ ॥
उदाहरति-यथा । तत्र विक्रमोर्वश्याम् 'चतुर्थेऽङ्के' इति शेषः । एव।"राजापुरुरवाः 'चरिकयोपमृत्याञ्जलि बदाऽऽहे' ति शेषः।
हे सर्वक्षितिभृतां सर्षे क्षितिभृतो पर्वतास्तेषाम् । नाथ । मया पुरूरवसा । विरहिता। सर्वाङ्गसुन्दरी सर्वाङ्गरमणीया। रामा प्रियोर्वशीति यावत् । त्वया । अस्मिन् । वनान्ते वनमध्ये । 'अन्तः स्वरूपे निकटे प्रान्ते निश्चयनाशयोः । अवयवेऽपी' ति हैमः । दृष्टा ? ॥३३१॥ (नेपथ्ये । तथा यथा राज्ञा पठितं तथाभूतः । एव । प्रतिशब्दः)। राजा 'सहर्षमाकाहे' ति शेषः । कथम् । यथाक्रमं मया यथा पठितं तथेति भावः । दृष्टा । इति । आह उत्तरयति ।'' इत्यत्र । प्रश्नवाक्यम् । एव । उत्तरत्वेन प्रतिवचनरूपेण । योजितम् । अयम्भाव:-उत्तरवाक्ये 'सर्वक्षितिभृतां नाथ' इत्येव 'राजेन्द्र' इत्यर्थकं, ततश्च-'त्वया विरहिता मया दृष्टा' इत्यन्वयः सम्पद्यते इति ।
दशरूपककारमतं दर्शयति-'इदं त्रिगतम् । नटादित्रितयविषयम् । आदिना नटीपारिपार्श्विकयोर्ग्रहणम् । एव ।' इति । कश्चित् दशरूपककारः । 'आहे' इति शेषः । तथाहि सद्वाक्यम्-"श्रुतिसाम्यादनेकार्थयोजनं त्रिगतं विह । नादित्रितयालापः पूर्वरक्षे तदिष्यते ॥” इति ।