________________
साहित्यदर्पणः ।
यथा-सौगन्धिकाहरणम् । अथ समवकार:--- ५७३ वृत्तं समयकारे तु ख्यातं देवासुराश्रयम् ।
५२०
सन्धयो निर्विमर्शाः स्युस्त्रयोऽङ्कास्तत्र चादिमे ॥ ५३१ ॥ सन्धी द्वावन्त्ययोस्तद्वदेक एको भवेत् पुनः । नायका द्वादशोदात्ताः प्रख्याता देवदानवाः || ५३२ ॥ फलं पृथक्पृथक् तेषां वीरमुख्योऽखिलो रसः । वृत्तयो मन्दकौशिक्यो नात्र बिन्दुप्रवेशकौ ॥ ५३३ ॥ वीथ्यङ्गानि च तत्र स्युर्यथालाभं त्रयोदश । गायत्र्युष्णिमुखान्यत्र च्छन्दांसि विविधानि च ॥ ५३४॥ त्रिशृङ्गारस्त्रिकपटः काय्र्यश्चायं त्रिविद्रवः ।
वस्तु द्वादशनाडीभिर्निष्पाद्यं प्रथमाङ्कगम् ॥ ५३५ ॥ द्वितीयेऽङ्केच तिसृभि - र्द्वाभ्याम तृतीयके ।
नाडिका घटिकाद्वयमुच्यते, बिन्दुप्रवेशककौ च नाटकोक्तावपि नेह विधातव्यौ ।
तत्र
[ षष्ठः
५७४ धर्मार्थकामैस्त्रिविधः शृङ्गारः, कपटः पुनः ॥ ५३६ ॥
उदाहरति यथेत्यादिना । स्पष्टम् ।
1
समवकारं लक्षयितुमाह-अथ । समवकारः । लक्ष्यते ५७३ समवकारे । तु । देवासुराश्रयं देवासुरा आश्रया यस्य तत् । ख्यातं प्रसिद्धम् । वृत्तं चरित्रम् | 'स्या' दिति शेषः । निर्विमर्श विमर्शाख्यस न्धिव्यतिरिक्ताः । सन्धयः । स्युः । तथा त्रयः । अङ्काः । तत्र तेष्षषु मध्ये इत्यर्थः । च । आदिमे प्रथमेsh | द्वौ । सन्धी मुखप्रतिमुखाख्यौ सन्धी इत्यर्थः । तद्वत् । अन्त्ययोर्द्वतीये तृतीयेऽङ्के चेत्यर्थः । एकः । एकः । 'सन्धि' रिति शेषः । तथा च द्वितीये गर्भस्तृतीये निर्वहणं सन्धिरिति निष्कृष्टोऽर्थः । पुनः । भवेत् । तथा-तत्र द्वादश । उदात्ता धीरोदात्ताः । प्रख्याताः । देवदानवाः । नायकाः । तेषां नायकानामित्यर्थः । पृथक्पृथक् भिन्नभिन्नमित्यर्थः । फलं कार्य्यतो लाभः । तथा वीर मुख्यो वीररसप्रधानः । अखिल : सर्वविधः । रसः शृङ्गारादिरित्यर्थः । मन्दकौशिक्यो मन्दा काचित्की कौशिकी यासु ताः, प्रायेण कौशिकीविरहिता इति भावः । वृत्तयो भारतीसात्वत्यारभव्य इत्यर्थः । ' भवन्ती 'ति शेषः । अत्र समवकारे । बिन्दुप्रवेशको बिन्दुरर्थप्रकृतिविशेषः प्रवेशकश्च प्रस्तावनाविशेषः । न' स्याता' मिति शेषः । तत्रसमवकारे । च । यथालाभं यथासम्भवम् । त्रयोदश । वीथ्यङ्गानि ( वक्ष्यमाणानि ) । स्युः । अत्र । च । गायत्र्युष्णमुखानि गायत्र्युष्णिगादीनि । विविधानि । छन्दांसि वृत्तानि । अयं समवकार: । च । विशृङ्गारः । त्रिकपटः । त्रिविद्रवः । कार्य्यः । तस्य च - प्रथमाङ्कग प्रथमेऽङ्के निवेश्यमिति भावः । द्वादशनाडीभिश्चतुर्विंशघटिकाभिः । निष्पाद्यम् । वस्तु इतिवृत्तम् । द्वितीये । अङ्के । च । तिसृभिर्नाडिकाभिरिति शेषः । तृतीयके तृतीये । अङ्के । द्वाभ्यां नाडीभ्यां निष्पाद्यं वस्तु' इति शेषः ॥ ५३१ ॥ ५३२ ॥ ॥ ५३३ ॥ ५३४ ॥ ५३५ ॥
कारिकां सुगमयितुं तत्कठिनांशं विशदयति-नाडिकेत्यादिना । स्पष्टम् ।
“त्रिश्टङ्गार" इत्यादिना श्टङ्गारादेस्त्रिविधत्वं स्वयमाह - ५७४ धम्र्मार्थकामैः पृथक्पृथक् विशेषित' इति शेषः । त्रिविधः । शृङ्गारः । तथाहि - धर्मोपाधिकः शृङ्गार एकः, अर्थोपधिकः शृङ्गारोऽर्थ शृङ्गारो द्वितीयः कामोपाधिकः
: