SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ परिच्छेदः रुचिराख्यया व्याख्यया समेतः । यथा-मालतीमाधवे "मकरन्दः-एषोऽस्मि मालतीसंवृत्तः।" ५६३ कश्चन भ्रष्टसङ्केतः सुव्यक्तकरणान्वितः ॥ ५१६ ॥ प्राकृतं वचनं वक्ति यत्र तत्सैन्धवं मतम् । करणं वीणाऽऽदिक्रिया। ५६४ चतुरस्रपदं गीतं मुखप्रतिमुखान्वितम् ॥ ५१७ ॥ द्विगूढं रसभावाढयम् - ५६५ उत्तमोत्तमकं पुनः । कोपप्रसादजमधि-क्षेपयुक्तं रसोत्तरम् ॥ ५१८ ॥ हावहेलाऽन्वितं चित्र-श्लोकबन्धमनोहरम् । ५६६ उक्तिप्रत्युक्तिसंयुक्तं सोपालम्भमलीकवत् ॥ ५१९ ॥ विलासान्वितगीतार्थमुक्तप्रत्युक्तमुच्यते । एषां स्पष्टान्युदाहरणानि । ५६७ एतदेव यदा सर्वैः पताकास्थानकैर्युतम् ॥ ५२० ॥ अबैश्च दशभिर्धारा महानाटकमूचिरे। उदाहरति-यथेत्यादिना । स्पष्टम् । सैन्धवं लक्षयति-५६३ भ्रष्टसङ्केतो भ्रष्टो नायिकाशन्यत्वेन हतः सङ्केतो यस्य तादृशः । सुव्यक्तकरणान्वितः सुव्यक्तानि सुव्यक्तस्वराणि यानि करणानि वीणादिक्रियास्तैरन्वितः । कश्चन । यत्र यस्मिन् नत्य इति यावत् । प्राकृतम् । वचनम् । वक्ति गायति । तत् । सैन्धवम् । मतम् ॥ ५१६ ॥ कारिको सुगमयितुं तत्कठिनांशभूतं करणपदार्थ व्याचष्टे-करणमित्यादिना । स्पष्टम् । उदाहरणमूह्यम् । द्विगूढं लक्षयति-५६४ मुखप्रतिमुखान्वितं मुखप्रतिमुखाभ्यां तदाख्याभ्यां सन्धिभ्यामन्वितम् । रसभावाढयं रसभावाभ्यामाढयं सम्पन्नम् । चतुरस्रपदं चतुरस्राणि पूर्णसप्तखराणि रसिकमनोहराणि वा पदानि यत्र तथोक्तम् । गीतम् । द्विगूढम् । उदाहरणमूह्यम् ॥ ५१७ ॥ उत्तमोत्तमकं लक्षयति-५६५ कोपप्रसाद कोपप्रसादाभ्यां जायत इति तथोक्तम। अधिक्षेपयतमधिक्षेपस्तिरस्कारस्तेन युक्तम् । रसोत्तरं रस उत्तरस्मिन् यस्य तथोक्तं, सरसमिति भावः। हावहेलाऽन्वितं हावहेलाभ्यां शृङ्गार. जन्यचेष्टाविशेषाभ्यामन्वितम् ( एतौ च लक्षितपूर्वो)। चित्रश्लोकबन्धमनोहरं चित्रा विचित्रा ये श्लोकबन्धाः श्लोकरचनास्तैर्मनोहरम् । पुनः । उत्तमोत्तमकम् । उदाहरणमूह्यम् ॥ ५१८ ॥ __ उक्तप्रत्युक्तं लक्षयति-५६६ उक्तिप्रत्युक्तिसंयुक्तम् वचनप्रतिवचनशालि । अत एव-सोपालम्भमुपा लम्भव्यजकम् । अत एव-अलीकवन्मृषावादसहितम् । विलासान्वितगीतार्थ विलासः शृङ्गारचेष्टाविशेषस्तेनान्वितो गीतार्थों यत्र तादृशम् । लास्यमिति प्रसङ्गानुप्रसक्तम् । उक्तप्रत्युक्तम् । उच्यते । उदाहरणमूह्यम् ॥ ५१९ ॥ __ नन्वेषां कान्युदाहरणानीत्याशङ्कयाह-एषामित्यादि । स्पष्टम् । महानाटकं लक्षयति-५६७ एतनिरुक्तलक्षणं नाटकम् । एव । यदा । सर्वैः समस्तप्रभेदकैः । पताकास्थानकैः । च तथा । दशभिः । अङ्कः । युतम् । धीराः। महानाटकम् । ऊचिरे कथितवन्तः ॥ ५२० ॥
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy