SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ४९० साहित्यदर्पणः । यथा मालतीमाधवे ' गमनमलसं शून्या दृष्टिः शरीरमसौष्ठवं श्वखितमधिकं किं न्वेतत्स्यात्किमन्यदितोऽथवा । भ्रमति भुवने कंदर्पाज्ञा विकारि च यौवनं ललितमधुरास्ते ते भावाः क्षिपन्ति च धीरताम् ॥ २८४॥' अलसगमनादिभिर्भावलेशैर्माधवस्य मालत्यामनुरागः स्तोकः प्रकाशितः । ४६२ नर्मगर्भो व्यवहृतिने॑तुः प्रच्छन्नवर्तिनः । यथा तत्रैव सखीरूपधारिणा माधवेन मालत्या मरणव्यवसायवारणम् । अथ सात्त्वती- ४६३ सात्त्वती बहुला सत्त्वशौर्य त्यागदयार्जवैः ॥ ४२५ ॥ सहर्षा क्षुद्रशृङ्गारा विशोका साद्भुता तथा । ४६४ उत्थापकोऽथ सङ्घात्यः संलापः परिवर्तकः ॥ ४२६ ॥ विशेषा इति चत्वारः सात्त्वत्याः परिकीर्तिताः । ४६५ उत्तेजनकरी शत्रोर्वागुत्थापक उच्यते ॥ ४२७ ॥ यथा महावीरचरिते - 'आनन्दाय च विस्मयाय च मया दृष्टोऽसि दुःखाय वा वैतृष्ण्यं तु कुतोऽद्य सम्प्रति मम त्वदर्शने चक्षुषः । यन्माङ्गल्य सुखस्य नास्मि विषयः किं वा बहुव्याहृतैरस्मिन्विस्मृतजामदग्न्यविजये बाहौ धनुजृम्भताम् ॥ २८५ ॥' [ षष्टः उदाहरति-यथा-मालतीमाधवे । 'अलसमालस्ययुक्तम् । गमनम् । शून्या 'समतारा समपुटा निष्कम्पा शून्यदर्शना । बाह्यार्थप्राहिणी मध्या शून्या दृष्टिः प्रकीर्तिता ॥ इत्युक्तस्वरूपा । दृष्टिर्दशनव्यापारः । असौष्ठवं मलाद्यनपाकरणादिनाऽशोभमानम् । शरीरम् । अधिकम् । श्वसितं श्वाससञ्चारः । किन्नु । एतत् । स्यात् । अलसगमनादीदं किं रोगजन्यं कामकृतं वेति संशयः । अथ निर्धायाह अथवा । इतो वक्ष्यमाणात्कारणात् । अन्यत् । किम् । निर्धारितं प्रकटति कन्दर्पाज्ञा कामदेवस्याज्ञा । भुवने संसारे । भ्रमति । यौवनं यूनामवस्था धर्मों वा । विकारि । ननु किमेतेनेत्याह- ललितमधुराः । तेते । भावाः । सुरतचेष्टाः । च । धीरतां धैर्यम् । क्षिपन्ति हरन्ति । हरिणीप्लुतं छन्दः ॥ २२४ ॥ ' लक्षणसङ्गतिं सूचयति - अलसेत्यादिना । स्पष्टम् । नर्मगर्भ लक्षयति-४६२ नर्मेत्यादिना । ४६२ प्रच्छन्नवर्त्तिनः । नेतुर्नायकस्य । व्यवहतिर्व्यवहारः । नर्मगर्भः । तथोक्तम् 'विज्ञानरूपसम्भाव Iss दिभिर्नाको गुणैर्यत्र । प्रच्छन्नो व्यवहरते कार्य्यवशान्नगर्भोऽसौ ॥' इति । उदाहरति-यथेत्यादिना । तत्रैव मालतीमाधवे एव । स्पष्टमन्यत् । सावतीं वृत्तिं लक्षयतुमाह-अथ । सात्त्वती । निरूप्यते - ४६३ सात्त्वतीत्यादिना । ४६३ सत्त्वशौर्यत्यागदयाऽऽर्जवैः । सत्त्वं धैर्यम् । आर्जवं सरलता । बहुला विचित्रा सात्त्वती तदाख्या वृत्तिः । स्पष्टमन्यत् ॥ ४२५ ॥ अस्या भेदान् कीर्त्तयति - ४६४ उत्थापक इत्यादिना । स्पष्टम् ॥ ४२६ ॥ उत्थापकं लक्षयति-४६५ उत्तेजनकरीत्यादिना । स्पष्टम् ॥ २४७ ॥ उदाहरति यथा । महावीरचरिते । वाली श्रीरामं प्रत्याह- 'आनन्दाये' त्यादिना । 'आनन्दाय । च । विस्मयायाश्चर्योद्भावनाय । च । दुःखाय । एतादृशस्य तव विनाशभाविने क्लेशाय । षा । मया : वालिना । दृष्टः । असि । तु किन्तु । अद्य । सम्प्रति । मम । चक्षुषः । त्वद्दर्शने । ( विषये
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy