SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ १७ . ४८८ साहित्यदर्पणः। तत्र कौशिकी ४५६ या श्लक्ष्णनेपथ्यविशेषचित्रास्त्रीसकुला पुष्कलनृत्यगीता । ___ कामोपभोगप्रभवोपचारा सा कौशिकी चारुविलासयुक्ता ॥ ४२१॥ ४५७ नर्म च नर्मस्फूर्जी नर्मस्फोटोऽथ नर्भगर्भश्च । चत्वार्यङ्गान्यस्याः ४५८ वैदग्ध्यक्रीडितन्नम ॥ ४२२ ॥ इष्टजनावर्जनकृत्४५९ तच्चापि त्रिविधं मतम् । विहितं शुद्धहास्येन सशृङ्गारभयेन च ॥ ४२३ ॥ तत्र केवलहास्येन विहितं यथा रत्नावल्यां 'वासवदत्ता(फलकमुद्दिश्य सहासम् ) अजउत्त! एसा वि अवरा तव समीवे अधा आलिहिदा एवं किं अजवसंतस्स विण्णानं?"शृङ्गारहास्येन यथा अभिज्ञानशाकुन्तले राजानं प्रति 'शकुन्तला असंतुट्टो उण किंकरिस्सदि राजा-इदम् । ( इति व्यवसितः । शकुन्तला व दौकते ) सभयहास्येन यथा रत्नावल्याम् । आलेख्यदर्शनावसरे। तत्र तावत् कौशिकी वृत्तिं लक्षयितुं प्रतिजानीते-तत्रेत्यादिना । तत्र तासु चतसृषु वृत्तिषु मध्ये इति भावः । कौशिकी लक्ष्यते इति शेषः ४५६ येत्यादिना । ४५६ या लक्षणनेपथ्यविशेषचित्रा लक्ष्णमरूक्षम्मृदुलमिति यावत् यन्नेपथ्यं नायकादीनां वेषस्तेन चित्राद्धतः शोभातिशयाधायिनीति यावत् । स्त्रीसकुला । पुष्कलनृत्यगीता। कामोपभोगप्रभवोपचारा कामोपभोगः शङ्गारस्तस्मात्प्रभवतीति तथोक्त उपचारोऽनुष्ठानविशेषो यत्र । चारुविलासयुक्ता। वृत्तिरिति शेषः । सा। . कौशिकी ॥ ४२१ ॥ अस्या भेदानाह-४५७ नर्म चेत्यादिना । स्पष्टम् । क्रमादेताल्लक्षयितुमुपक्रममाण आह-तत्र तेषु नर्मादिषु मध्ये ४५८ वैदग्ध्यक्रीडितं वैदग्ज्ध्यं चातुर्य तेन क्रीडितं तथा-इष्टजनावर्जनकृत् इष्टजनस्य सामाजिकस्यावर्जनं प्रीत्याधानं करोतीति तथोक्तम् । नर्म तदाख्यम् ॥ ४२२ ॥ अस्यापि भेदानाह-४५९ तच्चेत्यादिना । ४५९ तनम अपि पुनः । शुद्धहास्येन केवलेन हास्येन । विहितम् । च । सशृङ्गारभयेन शृङ्गार सहितेन भयसहितेन च । विहितमिति पूर्वतोऽनुप्रसक्तम् । त्रिविधं । मतम् ॥ ४२३ ॥ उदाहरति-तत्रेत्यादिना। तत्र तेषु त्रिविधेषु मध्ये इत्यर्थः । केवलहास्येन । विहितं 'नमें ति शेषः । यथा रत्वावल्यां द्वितीयेऽङ्के । वासवदत्ता फलकं रत्नावलीचित्रपटमिति भावः । उद्दिश्य सहास्सं 'वत्सराजं प्रत्याहे'ति शेषः । अज्जउत्त आर्यपुत्र ! एसा एषा । वि अपि । अवरा अपरा। तव तव । समीवे समीपे । जधा यथा । आलिहिदा आलिखिता । एवं एवम् । कि किम् । अज्जवसंतस्त आर्यवसन्तकस्य ( तदाख्यविदूषकस्य) विण्णाणं विज्ञानम् ? स्पष्टमन्यत् । शृङ्गारहास्येन । नर्म यथा। अभिज्ञानशाकुन्तले। राजानं दुष्यन्तम् । प्रति । 'आहे'ति शेषः । असंतुट्टो असन्तुष्टः । उण पुनः । किंकरिष्यदि किंकरिष्यति । राजा शकुन्तलाया मुखं चुम्बितुं प्रवृत्त आहे'ति शेषः । इदम् एतच्चुम्बनम् । स्पष्टमन्यत् । १ आर्यपुत्र! एषाऽपि अपरा तव समीपे यथाऽलिखिता एवं किमार्यवसन्तकस्य विज्ञानमिति संस्कृतम् । ३ असन्तुष्टः पुनः किं करिष्यतीति संस्कृतम् ।
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy