SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ परिच्छेदः । रुचिराख्यया व्याख्यया समेतः। अथ विमर्शाङ्गानि४२० अपवादोऽथ सम्फेटो व्यवसायो द्रवो द्युतिः । शक्तिः प्रसङ्गः खेदश्च प्रतिषेधो विरोधनम् ॥ ३९७ ॥ प्ररोचना विमर्श स्यादादानं छादनन्तथा। ४२१ दोषप्रख्याऽपवादः स्यात् यथा वेणीसंहारे 'युधिष्ठिरः-पाश्चालक । कच्चिदासादिता तस्य दुरात्मनः कौरवापसदस्य पदवी । पाश्चालकः-न केवलं पदवी, स एव दुरात्मा देवीकेशपाशस्पर्शपातकप्रधानहेतुरुपलब्धः । ४२२ सम्फेटोरोषभाषणम् ॥ ३९८ ॥ यथा तत्रैव 'दुर्योधनः-अरे रे मरुत्तनय ! किमेवं वृद्धस्य राज्ञः पुरुतो निन्दितव्यमप्यात्मकर्म श्लाघसे शृणुरे कृष्टा केशेषु भार्या तव तव च पशोस्तस्य राज्ञस्तयोर्वा । प्रत्यक्ष भूपतीनां मम भुवनपतेराज्ञया द्यूतदासी ॥ अस्मिन्वैरानुबन्धे वद किमपकृतं तैहता ये नरेन्द्राः।। वाहोर्यातिरेकद्रविणगुरुमदं मामजित्वैव दर्पः ॥३६७॥" एवं गर्भाङ्गानि दर्शयित्वा विमर्शाङ्गानि दर्शयितुमुपक्रमते-अथेत्यादिना । अथ । विमर्शाङ्गानि । विमर्शस्य तन्नाम्नः सन्धेरङ्गानि उच्यन्ते-४२० अपवाद इत्यादिना । ४२. अपवादः । अथ । सम्फेटः। व्यवसायः । द्रवः । द्युतिः। शक्तिः । प्रसङः । खेदः। च तथा । प्रतिषेधः । विरोधनम-प्ररोचना | आदानम् । तथा छादनम् । विमर्शे। स्यात् । विमर्श अपवादमारभ्य च्छादनान्तमुक्तानि त्रयोदशानि अङ्गानि भवन्तीति भावः ॥३९७ ॥ तत्र तावदपवादं लक्षयति । ४२१ दोषेत्यादिना । ४२९ दोषप्रख्या दोषस्य प्रख्यानम् । अपवादः । स्यात् । उदाहरति-यथेत्यादिना । यथा । वेणीसंहारे षष्टाङ्के। 'युधिष्ठिरः 'प्राहे' ति शेषः । पाश्चालक धृष्टद्युम्न ! कञ्चित् किन्ननु । 'कच्चित् कामप्रवेदने' इत्यमरः । क्वचिदिति पाठान्तरम् । तस्याकीर्तनीयनाम्नः । दुरात्मनः । कौरवापसदस्य कौरवे. पसदस्तस्य । दुर्योधनस्येति भावः । पदवी मार्गः। आसादिता। पाश्चालकः 'प्राहे' ति शेषः । न । केवलम् । तस्य पदवी। 'किन्त्वि' ति शेषः । सः एव न त्वन्यः । दुरात्मा । देवीकैशपाश...द्रौपद्याः केशस्पर्शरूपपापस्य कारणभूतो दुर्योधनः । उपलब्धः। अत्र हि दुर्योधनस्य दोषप्रख्यानम् स्पष्टम् । सम्फेटं लक्षयति-४२२ सम्फट इत्यादिना। ४२२ रोषभाषणं रोषेण भाषणं । सम्फेट: (पृषोदरादित्वात्साधुः ) ॥ ३९८ ॥ उदाहरति-यथा। तंत्र तस्मिन्वेणीसंहारे पञ्चमाङ्के । एव । दुर्योधनः राजा इति पाठान्तरम् । अरेरे । मरुत्तनय मरुतो वायोस्तनयस्तत्सम्बुद्धौ तथोक्त ! (एतेन वायुप्रकृतिकत्वात्तथाप्रलपसीति सूचितम् )। किमेवम् । वृद्धस्य । राज्ञोधृतराष्ट्रस्येति भावः। पुरतः-पुरस्तात् । निन्दितव्यम् । अपि । आत्मकर्म। श्लाघसे। रे शृणु। तव भीमस्य ( भीमं प्रति सम्बन्धोक्तिः) तवार्जुनस्य । च । पशोः ( अर्जुनं सम्बोध्येयमुक्तिः) । तस्य युधिष्ठिरस्य । राज्ञः ( इति युधिष्ठिरमभिसन्धायोक्तिः ) तयोर्नकुलसहदेवयोः ( इति माद्रेयावभिसन्धायोक्तिः ) वा। भूपतीनां राज्ञाम् (इति सभ्यानभिसन्धायोक्तिः)। प्रत्यक्षम् । भुवनपतेः । मम । आज्ञया । द्यूतदासी यूतेन जिता दासी द्रौपदी । 'युष्माक'मिति शेषः । केशेषु । कृष्टा । अस्मिन् । वैरानुरन्धे वैरप्रकरणे । 'सती'ति
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy