________________
साहित्यदर्पणः ।
[प३८२ तनिष्पत्तिः परिन्यासः । यथा तत्रैव
"चञ्चद्भुजभ्रमितचण्डगदाभिघातसञ्चूर्णितोरुयुगलस्य सुयोधनस्य ।
स्त्यानावनद्धघनशोणितशोणपाणिरुत्तंसयिष्यति कचांस्तव देवि भीमः ॥"॥ ३४४॥ अत्र उपक्षेपो नाम इतिवृत्तलक्षणस्य काव्याभिधेयस्य सक्षेपेणोपक्षेपमात्रम् । परिकरस्तस्यैव बहुलीकरणम्,परिन्यासस्ततोऽपि निश्चयापत्तिरूपतया परितो हृदये न्यसनमित्येषां भेदः। एतानि चाङ्गानि उक्तेनैव पौर्वापर्येण भवन्ति । अङ्गान्तराणि त्वन्यथाऽपि ।
३८३ गुणाख्यानं विलोभनम् । तथा तत्रैव-"द्रौपदी-णाध ? किं दुक्करं तुर परिकविदेणे ।" यथा वा मम चन्द्रकलायां चन्द्रकलावर्णने “सेयम्
तारुण्यस्य विलासः समधिकलावण्यसम्पदो हासः ।
धरणितलस्याभरणं युषजनमनसो वशीकरणम् ॥३४५॥" इत्यादि। च । युवाम् । नकुलसहदेवौ सम्बोध्याविति भावः । अत्र वचनविपरिणामेन "हेतू"इति पूर्वतोऽनुषज्यते । कुरूणां मम च यद्वैरं जन्मान्तरीण सम्प्रति प्रवृद्धमिति भावस्तस्मात् । भीमः । अयमिति शेषः। क्रुधा क्रोधेन । जरासन्धस्य जराराक्षस्या संहितशरीरतया तथाख्यातस्थेत्यर्थः । उर:स्थलमिव । विरूढं विरुद्धत्वेन सजातम् । सन्धिम् । विघटयति विभिनत्ति । यूयमार्यप्रभृतयः । सर्वे भवन्त इत्यर्थः । पुनरपि पुनः । घटयत सङ्घटयत । युष्माभिः कृतमपि सन्धि भेत्स्यामीति भावः । सन्ध्यर्थमुध्यतं राजानमवगम्य सवांनुद्दिश्य भीमसेनस्येयमुक्तिः । शिखरिणीवृत्तम् । 'रसे रुदै. श्छिन्ना यमनसभला ग: शिखरिणी'इति तल्लक्षणम् । अत्र समुत्पन्नस्य वैरस्य सन्धिनिवर्तनद्वारा विपुलतापादनम् ॥३४३॥"
परिन्यासं लक्षयति-३८२ तन्निष्पत्तिरित्यादिना ।
२ तन्निष्पत्तिस्तस्य काव्यार्थस्य निष्पत्तिनिश्चितमभिधानम् । परिन्यासः। तथाऽह भरत:-'भविष्यद्वस्तुकथनं परिन्यासं प्रचक्षते' इति ।
उदाहरति-यथेत्यादिना । ... यथा तत्र वेणीसंहारे एव-“हे देवि राजसूये कृताभिषेके द्रौपदि ! चश्चद्भुजभ्रमितचण्डगदाभिघात. सऊचूर्णितोरुयुगलस्य चञ्चन् स्फुरन् यो भुजो बाहुस्तेन भ्रमिता घुर्णिता चण्डा भयङ्करा गदा तस्याअभिघातः . प्रहारस्तेन सनचूर्णितमूरुयुगलं यस्य तादृशस्य । सुयोधनस्य न तु दुर्योधनस्य एतेन तस्य निरायासवध्यत्वं सूचितम् । स्त्यानावनद्धघनशोणितशोणपाणिः स्त्यानं निग्धं यदवनद्धं संसक्तं तथाभूतं घनं गाढं यत् शोणितं रुधिरं तेन शोणो रक्तवर्णः पाणिर्यस्य तथाभूतः 'स्त्यानं स्निग्धे प्रतिध्वानेघनत्वालस्ययोरपि ।' इति मेदिनी। भीमः । तवकचान केशान् । “चिकुरः कुन्तलो वाल: कचः केशः शिरोरुह" इत्यमरः । उत्तंसयिष्यति संस्कारध्यति । वसन्ततिलकं वृत्तम् ॥३४४॥"
सिंहनिरीक्षणन्यायेन उपक्षेपादीनां परस्परं भेदं दर्शयति-अत्रेत्यादिना । स्पष्टम् । विलोभनं लक्षयति-३८३ गुणाख्यानमित्यादिना।
३८३ गुणाख्यानं गुणानामाख्यानं कीर्तनम् । विलोभनम् । तथाह भरत:--'गुणनिवर्णनं तज्ज्ञैर्विलोभनमिति. स्मृतम् ।' इति ।
उदाहरति-यथेत्यादिना। यथा तत्र वेणीसंहारे । एव । 'द्रौपदी भीमं प्रत्याहे ति शेषः । णाध ! नाथ किं किन्नामेत्यर्थः । तुए त्वया । परिकुविदेण परिकुपितेन । दुक्करं दुष्करम् ।' तारुण्यस्येति व्याख्यातपूर्व पद्यम् ॥ ३४५ ॥
१ 'नाथ किं दुष्परं त्वया परिकुपितेने 'ति संस्कृतम् ।।