________________
साहित्यदर्पणः।
[षा:काव्यकर्तुरिच्छावशाभूयोऽपि भवन्ति । यत् पुनः केनचिदुक्तम्-'मुखसन्धिमारभ्य सन्धि. चतुष्टये क्रमेण भवन्ति' इति,तदन्ये न मन्यन्ते; एषामत्यन्तमुपादेयानामनियमेन सर्वत्राऽपि सर्वे. षामपि भवितुं युक्तत्वात् ।।
३४१ यत्स्यादनुचितं वस्तु नायकस्य रसस्य वा।
विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत् ॥ ३४६ ॥ अनुचितमितिवृत्तं यथा-रामस्य च्छद्मना वालिवधः, तच्चोदात्तराघवे नोक्तमेव । महावीर चस्तेि तु वाली रामवधार्थमागतो रामेण हत इत्यन्यथाकृतः।।
३४२ अङ्गेष्वदर्शनीया या वक्तव्यैव च सा मता।
या च स्याद्वर्षपर्यन्तं कथा दिनद्वयादिजा ॥ ३४७ ॥ अन्या च विस्तराबू सूच्या साऽर्थोपक्षेपकैर्बुधैः ।
नचैष एव नियम इत्याह-काव्येत्यादिना ।
काव्यकर्तृ रूपकनिर्मातुः कवेरित्यर्थः । इच्छावशात् । भूयः पुनः सन्धिमुल्लङ्घयेति यावत्। अपि। भवन्ति । एतदेव परेषां मतं निराकृत्य समर्थयते-यत । पुनः । केनचिनतु कैश्चित् , एतेनास्याश्रद्धेयत्वं सूचितम् । उक्तम् । 'मुखसन्धि मुखसज्ञकं सन्धिमित्यर्थः । आरभ्य । सन्धिचतुष्टये मुखे प्रतिमुखे गर्भे विमर्शे चेति चतुर्षु सन्धिष्विति यावत् । क्रमेण निर्देशानुपूर्व्या । भवन्ति । 'पताकास्थानकानी'ति शेषः । इति। तत् । अन्ये । अस्मदादय इत्यर्थः । न । मन्यन्ते । हेतुं निर्दिशति-एषां पताकानामिति भावः । अत्यन्तम् । उपादेयानाम् । अनियमेन क्रमेण भवन्तीति नियमत्यागेन। सर्वत्र सर्वेषु सन्धिषु' इति शेषः । अपि। सर्वेषां 'पताकास्थानकाना'मिति शेषः ! अपि । भवितुम् । युक्तत्वात् । मुखे सन्धौ प्रथममेव पताकास्थानकं स्यादिति नियमो न युक्तः, न बा सन्धिष्वेच पताकास्थानकनिवेशः स्यादित्यपि युक्त इति भावः ।
काव्ये च करेख वातन्त्र्यं, न तु तत्र तस्य पारतन्त्र्यमिति दर्शयितुमाह-३४१ यदित्यादि। .३४१ यत् । नायकस्य । सन्दर्भप्रधानस्येत्यर्थः । अनुचितम् । वस्तु इतिवृत्तमिति भावः । स्यात् । वा यद्वेत्यर्थः। रसस्य। विरुद्धम् । स्यादिति पूर्वतोऽन्वेति । तत् । परित्याज्यमा वा। अन्यथा। प्रकल्पयेत यथा नायकस्य रसस्य चापकर्षों न भवेत्तथा कविर्यतेतेति भावः । अत एवाहुर्ध्वन्यालोककारा:-'अपारे काव्यसंसारे कविरेव प्रजापतिः । यथाऽस्मै रोचते विश्वं तथेदं परिवर्त्तते'इति। विश्वं काव्यसंसारः। 'भावानचेतनानपि चेतनवच्चेतनानचेतनवत् । व्यवहारयति यथेष्ट सुकविः काव्ये खतन्त्रतया' इति च ॥ ३४७ ॥
उदाहरणेनोक्तमर्थ किञ्चित्स्यष्टयति-अनुचितमित्यादिना।
अनुचितं स्वरूपाऽपकर्षकम् । अत एव प्रहसनादौ धृष्टनायकादेः सत्त्वात्-,धीरोदात्ताद्यनुचितमप्युचितमेवेति बोध्यम् । इतिवृत्तम् । यथा-रामस्य रामकृतः । सम्बन्धसामान्यविवक्षया षष्ठी । छद्मना कपटेन । वालिवधः वालिहननम् । तद्वालिवधरूपमितिवृत्तमिति भावः । च । उदात्तराघवे नाटके । उक्तम् । एव । न । किन्तु परित्यक्तमिति भावः । महावीरचरिते भवभूतिकृतनाटके। तु 'पञ्चमेऽङ्के'इति शेषः । वाली। रामवधार्थम् ।, 'माल्यवत आग्रहा'दिति शेषः। आगतः। रामेण । हतः। इतीत्येवम्। अन्यथाकृतो विपरीतः कृतः । एवं प्रधानरसस्य विरुद्धमपि न वर्णनीयम् । इति बोध्यम् ।
ननु युद्धादि अदर्शयित्वा कथं वीररसप्रधामः प्रबन्धः पूर्णो भवेदित्याशङ्कय तदुपायमाह-३४२ अङ्केष्वित्यादिना। .
३४२ अङ्केषु । अदर्शनीया दर्शयितुमनुचिता। या युद्धाधरपानादिस्वरूपा । 'कथे'ति शेषः सा । च । वक्तव्या। एव । मता। सम्मतेति पाठान्तरे तु, सेत्यध्याहार्य्यम् । या। च । वर्षपर्यन्तं यावत्संवत्सरं '