SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ परिच्छेदः ] वस्तु इतिवृत्तम् । रुचिराख्यया व्याख्यया समेतः । ३३२ इदं पुनर्वस्तु बुधैर्द्विविधं परिकल्प्यते । ३३३ आधिकारिकमेकं स्यात् प्रासङ्गिकमथापरम् ॥ ३३८ ॥ अधिकारः फले स्वाम्य-मधिकारी च तत्प्रभुः । तस्येतिवृत्तं कविभिराधिकारिकमुच्यते ॥ ३३९ ॥ फले प्रधानफले । यथा बालरामायणे रामचरितम् । ४३९ ३३४ अस्योपकरणार्थं तु प्रासङ्गिकमितीष्यते । अस्याधिकारिकेतिवृत्तस्योपकरणानिमित्तं यच्चरितं तत्प्रासङ्गिकम्, यथा सुग्रीवादिचरितम ३३५ पताकास्थानकं योज्यं सुविचाय्यैह वस्तुनि ॥ ३४० ॥ इह नाटके | सूत्रं सुगमयितुं वस्तुपदं व्याचष्टे - वस्तु' इत्यस्ये 'ति शेषः । इतिवृत्तम् ' इत्यर्थ' इति शेषः । इतिवृत्तस्य भेदद्वयमिदमित्याह - ३३२ इदमित्यादिना । ३३२ बुधैः । इदं प्रतिपाद्यमितिवृत्तमिति यावत् । वस्तु । पुनः । द्विविधम् । परिकल्प्यते । तत्रएकम् । अधिकारिकमधिकारे भवम् । 'अध्यात्मादेष्टनिष्यते' इति ठञ् । स्यात् । अथ । अपरम् । प्रासङ्गिकं प्रसङ्गे भवम् ॥ ३३८ ॥ तत्राधिकारिकं लक्षयति-३३३ अधिकार इत्यादिना । ३३३ फले कास्य मुख्ये प्रयोजने इति भावः । स्वाम्यं प्रभुत्वम् । अधिकारः । तत्प्रभुस्तस्य स्वाम्यस्य प्रभुः । च पुनः । अधिकारी तन्नामा । तस्य । इतिवृत्तम् । अधिकारिकम् । कविभिः। उच्यते ॥ ३३९ ॥ सूत्रं सुगमयितुं फलपदं व्याचष्टे - फाले 'इत्यस्ये 'ति शेषः । प्रधानफले ' इत्यर्थ' इति शेषः । प्रधानफलं च यदुद्दिश्य सर्वमनुष्ठीयते तदिति बोध्यम् । उदाहरति- यथा । बालरामायणे तदाख्ये राजशेखररचिते महानाटके इत्यर्थः । रामचरितम् । बालरामायहि रावणवधादिचरितं रामस्येति तदाधिकारिकमिति तत्त्वम् । प्रासङ्गिकं लक्षयति- ३३४ अस्येत्यादिना । ३३४ अस्याधिकारिकस्येतिवृत्तस्येत्यर्थः । उपकरणार्थमुपकरणायेदमिति तथोक्तम् । 'अर्थेन (नित्य) समासो विशेष्यलिङ्गता चेति वक्तव्यम् इति साधु । यदा - उपकरणमर्थो यस्य तदिति तथोक्तम् । तु पुनः । प्रासङ्गिकं प्रसङ्गानुप्रसक्तमानुषङ्गिकमिति यावत् । इति । इष्यते । *' तदेव स्पष्टयति-अस्येत्यादिना । स्पष्टम् । उदाहरति-यथा 'बालरामायणे' इति शेषः । सुग्रीवादिचरितम् । आदिना प्रतिनायकादीनां ग्रहणम् । रूपकेषु पताकास्थानकनिवेशस्यावश्यकतामाह - ३३५ पता केत्यादिना । ३३५ इहास्मिन् रूपके इति यावत् । सुविचार्य निपुणं विभाव्य रसव्यक्त्यनुकूलतामवधार्येति यावत् । वस्तुनि इतिवृत्ते । पताकास्थानकं पताकाया ध्वजस्य स्थानं तदिवेति तथोक्तम् | योज्यम् ॥ ३४० ॥ इहेति पदं व्याचष्टे, इहेत्यादिना । स्पष्टम् । 'नाटके' इत्यपि रूपकमात्रस्योपलक्षकम् | 'नाटये' इति पाठान्तरेऽ प्ययमैवार्थः ।
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy