SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणः । [षष्ठःयथा कुन्दमालायाम्, “(नेपथ्ये ) इतइतोऽवतरत्वार्या । सूत्रधारकः-कोऽयं खलु आर्या- . हानेन साहायकं मे सम्पादयति ? (विलोक्य ) कष्टमतिकरुणं वर्तते । लङ्केश्वरस्य भवने सुचिरं स्थितेति रामेण लोकपरिवादभयाकुलेन । निर्वासितां जनपदादपि गर्भगुरु शीतां वनाय परिकर्षति लक्ष्मणोऽयम् ॥२३३ ॥" इत्यत्र नृत्यप्रयोगार्थ स्वभाऱ्याहानमिच्छता सूत्रधारेण "सीतां वनाय परिकर्षति लक्ष्मणोऽयम्" इति सीतालक्ष्मणयोः प्रवेशं सूचयित्वा निष्क्रान्तेन स्वप्रयोगमतिशयान एव प्रयोगः प्रयोजितः। ३२८ कालं प्रवृत्तमाश्रित्य सूत्रधृग्यत्र वर्णयेत् । तदाश्रयश्च पात्रस्य प्रवेशस्तत्प्रवर्तकम् ॥ ३३४ ॥ च । पात्रप्रवेशः । ‘स्यात्'इति शेषः । तदा । प्रयोगातिशयः । 'सम्पद्यतेइति शेषः । अयम्भावः-यदा किमपि प्रस्तूयान्यत् प्रस्तूयते, तेन च पात्रप्रवेशस्तथा प्रयोगातिशयो नाम प्रस्तावना । इति ॥ ३३३ ॥ उदाहरति-यथेत्यादिना। यथा । कुन्दमालायां तदाख्यायां केनापि कविना कृतायां नाटिकायामिति भावः । "(नेपथ्ये)। इतइतः। अत्र सम्भ्रमे द्विरुक्तिः । सम्भ्रमश्च स्वामिन्या आर्यायाः सञ्चारे युक्तः इति बोध्यम् । आर्या मान्या । 'आर्य: सज्जनसौविदौ।' इति धनदः । “कर्त्तव्यमाचरन् काममकर्तव्यमनाचरन् । यस्तिष्ठति सदाऽऽचारे स आर्य इति कथ्यते ॥” इति स्मृतिश्च । स्त्री चेदाऱ्या 'अजाद्यतष्टाए ।' ४।१।४ इति टाप । अवतरतु । सूत्रधारकः सूत्रधारसदृश इत्यर्थः । 'सूत्रधार' इति पाठे तु लक्षणया तथाऽर्थः । 'इवे प्रतिकृतौ ॥' ४।१।८६ इति कन् । 'आहे' ति शेषः । कः । अयम् । खलु । आाहानेनााया नव्या आह्वानं तेन तदद्वारेति भावः । मे मम । साहायकं साहाय्यम् । 'सहायाद्वा ।' इति वुञ् । सम्पादयति ? (विलोक्य) । कष्टम् । अतिकरुणम् ( क्रियाविशेषणमिदम् )। वर्तते । ( तदेव दर्शयति-लङ्केश्वरेत्यादिना-) लङ्केश्वरस्य लङ्काया ईश्वरः पतिस्तस्य रावणस्येति भावः । भवने स्थाने । सुचिरम् चिरकालं व्याप्येत्यर्थः । स्थिता 'सीता । तां च रामः स्वीकृतवा' निति शेषः । इति । लोकपरिवादभयाकलेन लोकैर्जनैः ( कृतः) परिवाद इति तस्य भयं तेनाकुलस्तेन तथोक्तेन । 'तृतीया तत्कृतार्थेन गुणवचनेन ।' २।१।३० इति कृतेऽर्थे तृतीयासमासः । रामेण । जनपदात् देशात् । निर्वासिताम् । गर्भगुर्वी गर्मेण गुर्वी भाराकान्तेति तां तथोक्ताम् । 'वोतो गुणवचनात् ।' ४।१।४४ इति ङीप् । अपि । यद्वा-जनपदात्, अपि किं पुनः खप्रासादादेव (अन्यत्पूर्ववत् ) इति योज्यम् । सीताम्। अयम् । पुरतो दृश्यमान इति भावः । लक्ष्मणः। वनाय वन प्रापयितुमित्यर्थः । परिकर्षति 'दण्डयां राजपुरुष इवे' ति शेषः ॥ २३३॥" इत्यत्र । नृत्यप्रयोगार्थ नृत्यस्य प्रयोगाय । स्वभार्याऽऽहानं नव्या आह्वानम् । इच्छताऽभिलषतेत्यर्थः । सूत्रधारेणोपचारात् तत्प्रतिनिधिना स्थापनेत्यर्थः । “सीतां वनाय परिकर्षति लक्ष्मणोऽयम् ॥"इति इत्येवमिति भावः । सीतालक्ष्मणयोः। प्रवेशम् । सूचयित्वा । निष्क्रान्तेन । स्वप्रयोगं स्वस्य प्रयोगो नटीमाहूय नृत्यकर्त्तव्यतारूपस्तम्। अतिशयानः। एव । प्रयोगः। प्रयोजितः। प्रयुज्य समर्थित इत्यर्थः । अयम्भावःस्थापको नृत्यप्रयोगाय यावत् नटीमाह्वयितुमभिलषितवान् , तावत् नेपथ्ये 'इतइतोऽवतरत्वार्य्या' इति निशम्य 'कोऽयं मे साहाय्यं सम्पादयती'ति खाशयानुकूलं च सम्भावयन् एव रामाज्ञया सीतां वनं नयन्तं लक्ष्मणं दृष्टवान् । तदेवं स्वनिष्कमणेन नृत्यप्रयोगापेक्षया प्रबन्धानुकूल्येन अतिशयितःप्रयोगःप्रयोजितः,स्फुटं चास्य प्रयोगातिशयितत्वम् । इति । ३२८ यत्र । सूत्रधा सूत्रधार उपचारात्तत्प्रतिनिधिरिति यावत् । इदमपि प्रायिकम् , वस्तुतस्तु अन्योऽ. • पीति । प्रवृत्तम् । कालं समयम् । आश्रित्य । वर्णयेत । पात्रस्य । नाटके नायकादिवरूपं लक्षयितुः पुरुष
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy