SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ परिच्छेदः ] रुचिराख्यया व्याख्या समेतः । अष्टपदा यथा, अनर्घ राघवे “निष्प्रत्यूहमुपास्महे भगवतः कौमोदकीलक्ष्मणः कोकप्रीतिचकोरपारणपटुज्योतिष्मती लोचने । याभ्यामर्द्ध विबोधमुग्धमधुरश्रीरर्द्धनिद्रार्थितोनाभीपल्वलपुण्डरीकमुकुलः कम्बोः सपत्नीकृर्तेः ॥ २२१ ॥ ' विरमति महाकल्पे नाभीपथैकनिकेतनंत्रिभुवनपुर: शिल्पी यस्य प्रतिक्षणमात्मभूः । किमधिकरण कीदृक् कस्य व्यवस्थितिरित्यसाँ दरमविशद् द्रष्टुं तस्मै जगन्निधये नमः ॥ २२२ ॥” इति । द्वादशपदा यथा मम तातमापानां पुष्पमालायाम् પૂ दिङ्मात्रमुदाहर्तुमुपक्रमते - अष्टपदेत्यादिना । अष्टपदाऽष्टौ पदानि पादा यस्यां तथाभूता । 'नान्दी 'ति प्रसङ्गानु प्रसक्तम् । अनर्घराघवे तदाख्ये श्रीमुरारिमिश्रकृते नाटके इत्यर्थः । यथा - ( भगवतोलोचनाभ्याम् ) " याभ्याम् । अर्द्ध विबोधमुग्धमधुरश्रीरविबोधोऽई विकासस्तेन मुग्धा रमणीया मधुराऽमृतवर्षिणी श्री शोभा यस्य तादृशः | सूर्याचन्द्रमसयोर्युगपदुदय इव ययोरेकदैव पाते इति भावः । अत एव - अर्द्धनिद्रायितोऽर्द्धनिद्र इवावस्थितः । नाभीपल्वलपुण्डरीकमुकुलो नाभी पल्वलमिव तस्य पुण्डरीकं श्वेतकमलं तस्य मुकुलः कलिकेति तथोक्तः । कम्बोः शङ्खस्य । सपत्नीकृतः सदृशीकृतः । 'ते' इति शेषः । भगवतः । कौमोदकीलक्ष्मणः कौमोदकी स्वनामधन्या गदैव लक्ष्म धार्यत्वेन सम्पद्यमानं चिह्नं यस्य तस्य तथोक्तस्य । गदाधरस्येति भावः । कोकप्रीतिचकोरपारणपटुज्योतिष्मती कोकयोचक्रवाकयोः प्रीतिराश्लेषसम्भवः प्रमोदः, सा च चकोरस्य तदाख्यस्य पक्षिणः पारणमुपवासनियमत्यागपुरःसरं भोजनं, तचेति तयोः पटुनी चतुरे क्षमे इति यावत् तादृशे ये ज्योतिषी प्रकाशौ ते विद्येते अनयोरिति तथोक्ते ( सूर्यचक्रवाकयोः सङ्घयिता, चन्द्रश्चन्द्रिकया च चकोरममृतं विधत्ते, चकोरश्चन्द्रिकया कृतार्थितश्चाङ्गारानपि भक्षयितुं प्रवर्त्तते, दिवोपवासं च जहातीति कविसमयमुपादायेदमभिहितम् ) सूर्याचन्द्रमसरूप इति भावः । " कोकश्चक्रश्चक्रवाकः” इत्यमरः । लोचने नयनयुगलम् । निष्प्रत्यूहं निर्गतः प्रत्यूहो विघ्नो यस्मिन् कर्म्मणि तद् यथा तथेति भावः । 'विघ्नोऽन्तरायः प्रत्यूह' इत्यमरः । उपास्महे आराधयामः । अत्र शार्दूलविक्रीडितं वृत्तम्, तल्लक्षणं यथोक्तम्, “सूर्याचैर्मस जे. स्ततः सगुरवः शार्दूलविक्रीडितम् ॥ २२१॥” इति ॥ "महाकल्पे महाप्रलयावसरे । 'संवर्त्तः प्रलयः कल्प' इत्यमरः । विरमति निवर्त्तमाने सति । नाभीपथैकनिकेतनो नाभी तदाख्यमुदराङ्गं तस्याः पथः पन्था द्वारमिति यावत् स एवैकं मुख्यं निकेतनं निवासभूमिर्यस्य तथोक्तः । ' वाटः पथश्च मार्गश्व' इति त्रिकाण्डशेषः । ' वेश्म सम निकेतनम् ।' इत्यमरः । त्रिभुवनपुरस्त्रिभुवनमेव पूर्नगरं तस्या: । 'पू: स्त्री पुरीनगर्यो वा' इत्यमरः । शिल्पी रचनचतुरः । ' कारुः शिल्पी ' इत्यमरः । समस्तपाठे तु त्रिभुवनस्य पुरः शिल्पी प्रथम निर्माता प्रजापतीनां मुख्य इति भावः । असौ । आत्मभूः स्वयम्भूर्ब्रह्मेति यावत् । ‘ब्रह्माऽऽत्मभूः' इत्यमरः । कस्य । कीदृक् कीदृशी । किमधिकरणा किमधिकरणमधिकार आधार इति यावत्, यस्यास्तादृशी । व्यवस्थितिर्व्यवस्था । इति इति कृत्वेत्यर्थः । प्रतिक्षणं पुनः पुनः । द्रष्टुं नयनविषयी क स्फुटं ज्ञातुमिति यावत् । यस्य । उदरम् | अविशत् प्रविवेश । तस्मै । जगन्निधये जगतां भूर्भुवःखरिति सञ्ज्ञितानां लोकानां निधिर्निधानं तस्मै तथाभूताय । कुक्षिस्थसमस्तलोकायेति भावः । नमः । अत्र हरिणीवृत्तम्, तथोक्तं "नसमरसला गः षड्वेदैर्हयैर्हरिणी मता ।' इति । इदं बोध्यम् षष्ठीयं नान्दी, अत्र च कोकादीनामानन्दहेतुकताss दिप्रदिपादनेनाशीराशंसनम् । इति ॥ २२२॥” इति । द्वादशपदा द्वादशपदानि सुप्तिङन्तरूपाः शब्दा यत्र तादृशी । 'नान्दी 'ति प्रकृतम् । यथा मम । तातपादानां पूज्यपितॄणां चन्द्रशेखराणाम् । 'कृता' विति शेषः । पुष्पमालायां
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy